पञ्चविशं पटलः - शाङ्करी-विद्यानिरुपणम्
षट्चक्रसारसंकेते योगशिक्षाविधिनिर्णयः
शाङ्करी-विद्यानिरुपणम्
पथापथज्ञानविवर्जिता ये धर्मार्थकामाद्धि विहीनमानसाः ।
विनावलम्बं जगतामधीश्वर एषैव मुद्रा विचरन्ति शाङ्करी ॥१०४॥
आध्यात्मनिरुपणम्
ज्ञाने साध्याम्तविद्यार्थं जानाति कुलनायकम् ।
अध्याज्ञाचक्रपद्मस्थं शिवात्मानं सुविद्यया ॥१०५॥
अध्यात्मज्ञानमात्रेण सिद्धो योगी न संशयः ।
षट्चक्रभेदको यो हि अध्यात्मज्ञः स उच्यते ॥१०६॥
अध्यात्मशास्त्रङ्केमात्मना मण्डितं शिवम् ।
कोटिचन्द्राकृतिं शान्तिं यो जानाति षडम्बुधे ॥१०७॥
स ज्ञानी सैव योगी स्यात् सैव देवो महेश्वरः ।
स मां जानाति हे कान्त विस्मयो नास्ति शङ्कर ॥१०८॥
मम सर्वात्मकं रुपं जगत्स्थावरजङुमम् ।
सृष्टिस्थितिप्रलयग यो जानाति स योगिराट् ॥१०९॥
आध्यात्मज्ञाननिरुपणम्
अध्यात्मविद्यां विज्ञाप्य नानाशास्त्रं प्रकाशितम् ।
तच्छास्त्रजालयुग्मा ये तेऽध्यात्मज्ञाः कथं नराः ॥११०॥
त्रिदण्डी स्यात्सदाभक्तो वेदाभ्यासपरः कृती ।
वेदादुद्भवशास्त्रणि त्यक्त्वा मां भावयेद्यदि ॥१११॥
वेदाभ्यासं समाकृत्य नानाशास्त्रर्थनिर्णयम् ।
समुत्पन्नां महाशक्तिं समालोक्य भजेद्यतिः ॥११२॥
सर्वत्र व्यापिका शक्तिं कामरुपा निराश्रयाम् ।
व्यक्ताव्यक्तां स्थिरपदां वायवीं मां भजेद्यतिः ॥११३॥
यस्या आनन्दमतुलं ज्ञानं यस्य फलाफलम् ।
योगिनां निश्चयज्ञानमेकमेव न संशयः ॥११४॥
यस्याः प्रभावमात्रेण तत्त्वचिन्तापरो नरः ।
तामेव परमां देवीं सर्पराजसु कुण्डलीम् ॥११५॥
तामेव वायवीं शक्तिं सूक्ष्मरुपां स्थिराशयाम् ।
आनन्दसिकां गौरीं ध्यायेत् श्वासनिवासिनीम् ॥११६॥
आनन्दं ब्रह्मणो रुपं तत्त्वदेहे व्यवस्थितम् ।
तस्याभिव्यञ्जकं द्रव्यं योगिभिः परिपीयते ॥११७॥
तद्द्रव्यस्थां महादेवीं नीलोत्पलदलप्रभाम् ।
मानवीं परमां देवीमष्टदशभुजैर्युताम् ॥११८॥
कुण्डलीं चेतनाकान्तिं चैतन्यां परदेवताम् ।
आनन्दभैरवीं नित्यां घोरहासां भयानकाम् ॥११९॥
तामेव परमां देवीं सर्ववायुवशङ्करीम् ।
मदिरासिन्धुसम्भूतां मत्तां रौद्रीं वराभयाम् ॥१२०॥
योगिनीं योगजननीं ज्ञानिनां मोहिनीसमाम् ।
सर्वभूत सर्वपक्षस्थितिरुपां महोज्ज्वलाम् ॥१२१॥
षट्चक्रभेदिकां सिद्धिं तासां नित्यां मतिस्थिताम् ।
विमलां निर्मला ध्यात्त्वा योगी मूलाम्बुजे यजेत् ॥१२२॥
एतत्पटलपाठे तु पापमुक्तो विभाकरः ।
यथोद्र्ध्वरेता धर्मज्ञो विचरेत् ज्ञानसिद्धये ॥१२३॥
एतत्क्रियादर्शनेन ज्ञानी भवति साधकः ।
ज्ञानादेव हि मोक्षः स्यान्मोक्षः समाधिसाधनः ॥१२४॥
यदुद्धरति वायुश्च धारणाशक्तिरेव च ।
तन्मंन्त्रं वर्द्धयित्वा प्राणायामं समाचरेत् ॥१२५॥
प्राणायामात् परं नास्ति पापरशिक्षयायं च ।
सर्वपापक्षये याते किन्न सिद्धयति भूतले ॥१२६॥
प्राणवायुं महोग्रं महत्तेजोमयं परम् ।
प्राणायामेन जित्वा च योगी मत्तगजं यथा ॥१२७॥
प्राणायांम विना नाथ कुत्र सिद्धो भवेन्नरः ।
सर्वसिद्धिक्रियासारं प्राणायामं परं स्मृतम् ॥१२८॥
प्राणायामं त्रिवेणीस्थं यः करोति मुहुर्मुहुः ।
तस्याष्टाङसमृद्धिः स्याधोगिनां योगवल्लभः ॥१२९॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवकल्पे षट्चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे प्राणायामोल्लासे भैरवीभैरवसंवादे पञ्चविंशः पटलः ॥२५॥
N/A
References : N/A
Last Updated : April 16, 2011
TOP