पञ्चविशं पटलः - योगिनां सूक्ष्मतीर्थानि
षट्चक्रसारसंकेते योगशिक्षाविधिनिर्णयः
ईडा च भारती गङा पिङला यमुना मता ।
ईडापिङुलयोर्मध्ये सुषुम्ना च सरस्वती ॥४५॥
त्रिवेणीसङमो यत्र तीर्थराजः स उच्यते ।
त्रिवेणीसङमे वीरश्चालायेत्तान् पुनः पुनः ॥४६॥
सर्वपापाद् विनिर्मुक्तः सिद्धो भवति नान्यथा ।
पुनः पुनः भ्रामयित्वा महातीर्थे निरञ्जने ॥४७॥
वायुरुपं महादेवं सिद्धो भवति नान्यथा ।
चन्द्रसूर्यात्मिकामध्ये वहिनरुपे महोज्ज्वले ॥४८॥
ध्यात्वा कोटि(रवि)करं कुण्डलीकिरणं वशी ।
त्रिवारभ्रमणं वायोरुत्तमाधममध्यमाः ॥४९॥
यत्र यत्र गतो वायुस्तत्र तत्र त्रयं त्रयम् ।
इडादेवी च चन्द्राख्या सूर्याख्या पिङुला तथा ॥५०॥
सुषुम्ना जननी मुख्या सूक्ष्मा पक्ङजतन्तुवत् ।
सुषुम्ना मध्यदेशे च वज्राख्या नाडिका शुभा ॥५१॥
तत्र सूक्ष्मा चित्रिणी च तत्र श्रीकुण्डलीगतिः ।
तया सड्ग्राह्य तं नाड्या षट्पद्मं सुमनोहरम् ॥५२॥
ध्यानगम्यापरं ज्ञानं षट्शरं शक्तिसंयुतम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥५३॥
ततः परशिवो नाथ षट्शिवाः परिकीर्तिताः ।
डाकिनी राकिणी शक्तिर्लकिनी काकिनी तथा ॥५४॥
साकिनी तत्र षट्पद्मे शक्तयः षट्शिवान्विताः ।
मूलाधारं स्वाधिष्ठानं मणिपूर सुपङ्कजम् ॥५५॥
अनाहतं विशुद्धाख्यमाज्ञाचक्रं महोत्पलम् ।
आज्ञाचक्रादिमध्ये तु चन्द्रं शीतलतेजसम् ॥५६॥
प्रपतन्तं मूलपद्मे तं ध्यात्वा पूरकनिलम् ।
यावत्कालं स्थैर्यगुणं तत्कालं कुम्भकं स्मृतम् ॥५७॥
पिङुलायां प्रगच्छन्तं रेचकं तं वशं नयेत् ।
अङ्गुष्ठैकपर्वणा च दक्षनासपुटं वशी ॥५८॥
धृत्वा षोडशवारेण प्रणवेन जपं चरेत् ।
एतत्पूरकमाकृत्य कुर्यात्कुम्भकमद्भुतम् ॥५९॥
चतुःषष्टिप्रणवेन जपं ध्यानं समाचरेत् ।
कुम्भकानन्तरं नाथ रेचकं कारयेद् बुधः ॥६०॥
द्वात्रिंशद्वारजापेन मूलेन प्रणवेन वा ।
द्विनासिकापुटं बद्ध्वा कुम्भकं सर्वासिद्धदम् ॥६१॥
कनिष्ठानामिकाभ्यां तु वाममङ्गुष्ठदक्षिणम् ।
पुनर्दक्षिणनासाग्रे वायुमापूरयेद् बुधः ॥६२॥
मनिषोडश्जापेन कुम्भयेत् पूर्ववत्ततः ।
ततो वामे रेचकञ्च द्वात्रिंशत्प्रणवेन तु ॥६३॥
पुनर्वामेन सम्पूर्य षोडशप्रणवेन तु ।
पुनर्दक्षिणनासाग्रे द्वादशाङ्गुलमानतः ॥६४॥
कुम्भयित्वा रेचयेद्यः सर्वत्र पूर्ववत् प्रभो ।
प्राणायामत्रयेणैव प्राणायामैकमुत्तमम् ॥६५॥
द्विवारं मध्यमं प्रोक्तं मध्यमं चैकावारकम् ।
त्रिकालं कारयेद्यत्नात् अनन्तफलसिद्धये ॥६६॥
प्रातर्मध्याहनकाले च सायहने नियमः शुचिः ।
जपध्यानादिभिर्मु(र्यु)क्तं सगर्भं यः करोति हि ॥६७॥
मासात् सल्लक्षणं प्राप्य षण्मासे पवनासनः ।
तालुमूले समारोप्य जिहवाग्रं योगसिद्धये ॥६८॥
त्रिकाले सिद्धिमाप्नोति प्राणायामेन षोडश ।
सदाभ्यासी वशीभूत्त्वा पवनं जनयेत् पुमान् ॥६९॥
षण्मासाभ्यन्तरे सिद्धिरिति योगार्थनिर्णयः ।
योगेन लभ्यते सर्व्म योगाधीनमिदं जगत् ॥७०॥
तस्माद् योगं कार्यं यदा योगी तदा सुखी ।
बिना योगं न सिद्धेऽपि कुण्डली परदेवता ॥७१॥
अथ योगं सदा कुर्यात् ईश्वरपाददर्शनात् ।
योगयोगाद् भवेन्मोक्षे इति योगार्थनिर्णयः ॥७२॥
मन्त्रसिद्धीच्छुको यो वा सैव योगं सदाभ्यसेत् ।
मात्रावृत्तिं प्रवक्ष्यामि काकचञ्चुपुटं तथा ॥७३॥
सूक्ष्मवायु भक्षणं तत् चन्द्रमण्डलचालनम् ।
त्र्यावृत्तिञ्चैव विविधं तन्मध्ये उत्तमं त्रयम् ॥७४॥
वर्णं सचन्दं संयुक्तं मूलं त्र्यक्षरमेव वा ।
जानुजङ्वामध्यदेशे तत्तत्सर्वासनस्थितः ॥७५॥
वामहस्ततालुमूलं भ्रामयेद् द्वादशक्रमात् ।
द्वादशक्रमशः कुर्यात् प्राणायांम हि पूर्ववत् ॥७६॥
मात्रावृत्तिक्रमेणैव जपमष्टसहस्त्रकम् ।
प्राणायामद्वादशैकैर्भवेत्तदष्टसहस्त्रकम् ।
कृत्वा सिद्धीश्वरो नाम निष्पापी चैकमासतः ॥७७॥
त्रिसन्ध्यं कारयेद्यत्नाद ब्रह्मज्ञानी निरञ्जनः ।
भवतीति न सन्देहः सदाभ्यासी हि योगिराट् ॥७८॥
योगाभ्यासाद् भवेन्मुक्तो योगाभ्यासात् कुलेश्वरः ।
योगाभ्यासाच्च संन्यासी ब्रह्मज्ञानी निरामयः ॥७९॥
सदाभ्यासाद् भवेद्योगी सदाभ्यासात् परन्तपः ।
सदाभ्यासात् पापमुक्तो विधिविद्याशकृत शकृत् ॥८०॥
काकचञ्चुपुटं कृत्वा पिबेद्वायुमहर्निशम् ।
सूक्ष्मवायुक्रमेणैव सिद्धो भवति योगिराट् ॥८१॥
N/A
References : N/A
Last Updated : April 16, 2011
TOP