संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|पञ्चविशं पटलः| सूक्ष्मसृष्टिस्थितिसंहारकथनम् पञ्चविशं पटलः सूक्ष्मसृष्टिस्थितिसंहारकथनम् योगिनां सूक्ष्मतीर्थानि योगिनां जपनियमः शाङ्करी-विद्यानिरुपणम् पञ्चविशं पटलः - सूक्ष्मसृष्टिस्थितिसंहारकथनम् षट्चक्रसारसंकेते योगशिक्षाविधिनिर्णयः Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सूक्ष्मसृष्टिस्थितिसंहारकथनम् Translation - भाषांतर आनन्दभैरव उवाचवद कान्ते रहस्यं मे तत्त्वावधानपूर्वकम् ।यद् यज्ज्ञात्वा महायोगी प्रविशत्यलाम्बुजे ॥१॥यदि स्नेहदृष्टिरस्ति मम ब्रह्मानिरुपणम् ।योगसारं तत्त्वपथं निर्मलं वद योगिने ॥२॥आनन्दभैरवी उवाचश्रृणु प्राणेशा वक्ष्यामि योगनाथ क्रियागुरो ।योगाङ योगिनामिष्टं तत्त्वब्रह्मनिरुपणम् ॥३॥एतत् सृष्टिप्रकारञ्च प्रपालनविधि तथा ।असंख्यसृष्टिसंहारं वदामि तत्त्वतः श्रृणु ॥४॥सूक्ष्मसृष्टिस्थितिसंहारकथनम्त्वमेव संहारकरो वरप्रियः प्रधानमेषु त्रितयेषु शङ्कर ।संहारभाव मलभूतिनाशंन प्रधानद्यस्य जगत्प्रलानम् ॥५॥तत्राधन मेरुभुजङुमङं सृष्टिप्रकारं खलु तत्र मध्यमम् ।तत्पालनञ्चेति मयैव राज्ये संहाररुप प्रकृतेर्गुनार्थकम् ॥६॥एतत्त्रंय नाथ भयादिकारणं तन्नाशनाम्नें प्रणवं गुणात्मकम् ।त्रयं गुणातीरमनन्तमक्षरं सम्भाव्य योगी भवतीह साधकः ॥७॥अव्यक्तरुपात् प्रणवाद्धि सृष्टिस्तल्लीयते व्यक्ततनोः समासा ।सूक्ष्माद्यकारात् प्रतिभान्ति खे सदा प्रणश्यति स्थूलकलान्निरक्षरात् ॥८॥अतीव चित्रं जगतां विचित्रं नित्यं चरित्रं कथितुं न शक्यते ।हंसाश्रितास्ते भववासिनो जना ज्ञात्वा न देहस्थमुपाश्रयन्ते ॥९॥देहाधिकारी प्रणवादिदेव मायाश्रितो निद्रित एष कालः ।प्रलीयते दीर्थपथे च काले तदा प्रणश्यन्ति जगत् स्थिता जनाः ॥१०॥कालो जगद्भक्षक ईशवेशो तरी तु जीर्णा पतिहीनदीना ।स एव मृत्युर्विहितं चराचरं प्रभुञ्जति श्रीरहितं पलायनम् ॥११॥पञ्चेनदुतत्त्वेन महेन्द्रसृष्टिः प्रतिष्ठिता यज्ञविधानहेतुना ।सदैव यज्ञं कुरुते भवार्णवे निःसृष्टिकाले वरयज्ञसाधनम् ॥१२॥हिताहितं तत्र महार्णवे भयं विलोक्य लोका भयविहवलाह सदा ।विशन्ति ते कुत्सितमार्गमण्डले अतो महानारकिबुद्धिहीनाः ॥१३॥मायामये धर्मकुलानले भवे लीनो हरेर्याति पथानुसारी ।म्रियेत कालानलतुल्यमृत्युना कथ तु योगी कथमेव साधकः ॥१४॥यः साधकः प्रेम-कलासुभक्त्या स एव मुर्खो यदि याति संसृतौ ।संसारहीनः प्रियचारुकाल्याः सिद्धो भवेत् कामदचक्रवर्ती ॥१५॥वसेन्न सिद्धो गृहीणीसमृद्ध्यां महाविपद्दुःखविशोषिकायाम् ।यदीह काले प्रकरोति वासनां तदा भवेन्मृत्युरतीव निश्चितम् ॥१६॥कृपावलोक्यं वदनारविन्दं तदैव हे नाथ ममैव चेद्यदि ।सदैव यः साधुगणाश्रितो नरो ध्यात्वा नूगूढमतिभागगद्वतः ॥१७॥स एव साधुः प्रकृतेर्गुणाश्रितः कृती वशी वेदपुराणवक्ता ।सत्त्वं महाकाल इतीह चाहं प्रणिश्चं ते कथितं श्रिये मया ॥१८॥गुणेन भक्तेन्द्रगणाधिकानां साक्षात् फल्म योगजपाख्यसङतिम् ।अष्टाङुभेदेन श्रृणुष्व कामप्रेमाय भावाय जयाय वक्ष्ये ॥१९॥मायादिकं यः प्रथमं वशं नयेत् स एव योगी जगतां प्रतिष्ठितः ।रविप्रकारं यमवासनावशे श्रृणुष्व तं कालवशार्थकेवलम् ॥२०॥सर्वत्र कामादिकमाशु जित्वा जेतुं समर्थो यमकर्मसाधकः ।कामं तथा क्रोधमतीव लोभं मोहं मदं मात्सरितं सुदुष्टकृतम् ॥२१॥अतो मया द्वादश शब्द घातकं वश्म समाकृत्य महेन्दतुल्यम् ।सर्वत्र वायोर्वशकारणाय करोति योगी सचलान्यथा भवेत् ॥२२॥अहिंसनं सत्यवाक्यसुप्रियमस्तेयभावं कुरुते वसिष्ठवत् ।सुब्रह्मचर्य सुदृढार्ज्जव्म सदा क्षमाधृतिं सेवसुसूक्ष्मवायुनः ॥२३॥तथा मिताहारमसंशय मनः शौचं प्रपञ्चार्थविवर्जनं प्रभो ।करोति यः साधकचक्रवर्ती वाद्योत्सवाज्ञाविवर्जनं सदा ॥२४॥वशी यमद्वादशसंख्ययेति करोति चाष्टाङुफलार्थसाधनम् ।वरानना श्रीचरणारविन्दं सत्त्वादशाच्छत्रिनेत्रगोचरम् ॥२५॥तपश्च सन्तोषमनस्थिरं सदा आस्तिक्यमेवं द्विजदानपूजनम् ।नितान्तदेवार्चनमेव भक्त्या सिद्धान्तशुद्धश्रवणं च ह्रीर्मतिः ॥२६॥जपोहुतं तर्पणमेव सेवनं तद्भावनं चेष्टनमेव नित्यम् ।इतीहं शास्त्रे नियमाश्चतुर्दशा भक्तिक्रियामङुलसूचनानि ॥२७॥पूर्वोक्तयोन्यासनमेव सत्यं भेकासनं बद्धमहोत्पलासनम् ।वीरासनं भद्रसुभकसनं च पूर्वोक्तमेवासनमाशु कुर्यात् ॥२८॥सर्वाणि तन्त्राणि कृतानि नाथ सूक्ष्माणि नालं वशहेतुना मया ।तथापि मूढो यदि वायुपान माह्रत्य योनौ भ्रमतीह पातकी ॥२९॥प्राणानिलानन्दवशेन मत्तो गजेन्द्रगामी पुरुषोत्तमं स्मृतम् ।तस्यैव सेवानिपुणो भवेद्वशी ब्रह्माण्डलोकं परिपाति यो बली ॥३०॥वदामि देवादिसुरेश्वर प्रभो सूक्ष्मानिलं प्राणवशेन धारयेत् ।सिद्धो भवेत् साधकचक्रवतीं सर्वानरस्थं परिपश्यति प्रभुम् ॥३१॥आनन्दभैरव उवाचवद कान्ते महाब्रह्मज्ञान सर्वत्र शोभनम् ।येन वायुवशं कृत्त्वा खेचरो भूभृतां पतिः ॥३२॥साधको ब्रह्मरुपी स्यात् ब्रह्मज्ञानप्रसादतः ।ब्रह्मज्ञानात् परं ज्ञानं कुत्रास्ति वद सुन्दरि ॥३३॥आनदभैरवी उवाचश्रृणुष्व योगिनाम नाथ धर्मज्ञो ब्रह्मसञ्ज्ञक ।अज्ञानध्वान्तमोहानां निर्मलं ब्रह्मसाधनम् ॥३४॥ब्रह्मज्ञानसमो धर्मो नान्यधर्मो विधीयते ।यदि ब्रह्मज्ञानधर्मी स सिद्धो नात्र संशयः ॥३५॥कोटिकन्याप्रदानेन कोटिजापेन किं फलम् ।ब्रह्मज्ञानसमो धर्मो नान्यधर्मो विधीयते ॥३६॥सरोवरसहस्त्रेण कोटिहेमाचलेन च ।कोटिब्राह्मणभोज्येन कोतितीर्थेन किं फलम् ॥३७॥कामरुपे महापीठे साधकैर्लभ्यते यदि ।ब्रह्मज्ञानसमो धर्मो नान्यधर्मो विधीयते ॥३८॥ब्रह्मज्ञानं तु द्विविधं प्राणायामजमव्ययम् ।भक्तिवाक्यं शब्दरसं स्वरुप्म ब्रह्मणः पथम् ॥३९॥प्राणायामं तु द्विविध सुगर्भञ्च निगर्भकम् ।जपध्यानं सगर्भ तु तदा युक्तं निगर्भकम् ॥४०॥अव्यया लक्षणाक्रान्तं प्राणायामं परात् परम् ।ब्रह्मज्ञानेन जानाति साधको विजितोन्द्रियः ॥४१॥तत्प्रकारद्वयं नाथ मालावृत्ति जपक्रमम् ।मालावृत्ति द्वादशकं जपक्रमं तु षोडश ॥४२॥नासिकायां महादेव लक्षणत्रयमनुत्तमम् ।पूरकं कुम्भंक तत्र रेचकं देवतात्रयम् ॥४३॥एतेषामप्यधिष्ठाने ब्रह्मविष्णुशिवाः प्रजाः ।त्रिवेणी सङमे यान्ति सर्वपापापहारकाः ॥४४॥ N/A References : N/A Last Updated : April 16, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP