सप्तदशः पटलः - अमहाचीनाचारः

शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम्


श्रीबुद्ध उवाच
वसिष्ठ श्रृणु वक्ष्यामि कुलमार्गनुत्तमम् ।
येन विज्ञातमात्रेण रुद्ररुपी भवेत् क्षणात् ॥१३५॥

साक्षेपेण सर्वसारं कुलसिद्ध्यर्थमागमम‍ ।
आदौ शुचिर्भवेद्‍ विवेकाक्रान्तमानसः ॥१३६॥

पशुभावस्थिरचेताः पशुसङुविवर्जितः ।
एकाकी निर्जने स्थित्वा कामक्रोधादिवर्जितः ॥१३७॥

दमयोगाभ्यासरतो योगशिक्षादृढव्रतः ।
वेदमार्गाश्रयो नित्यं वेदार्थनिपुणो महान् ॥१३८॥

एवं क्रमेण धर्मात्मा शीलो दाढ्योगुणान्वितः ।
धारयेन्मारुतं नित्यं श्वासमार्गे मनोलयम् ॥१३९॥

एवमभ्यासयोगेन वशी योगी दिने दिने ।
शनैः क्रमाभ्यासाद्‍ दहेद्‍ स्वेदोद्‍गमोऽधमः ॥१४०॥

मध्यमः कल्पसंयुक्तो भूमित्यागः परो मतः ।
प्रानयामेन सिद्धिः स्यान्नरो योगेश्वरो भवेत् ॥१४१॥

योगी भूत्वा कुम्भकज्ञो मौनी भक्तो दिवानिशम् ।
शिवे कृष्णे ब्रह्मपदे एकान्तभक्तिसंयुतः ॥१४२॥

ब्रह्मविष्णुशिवा एते वायवीगतिचञ्चला ।
एवं विभाव्य मनसा कर्मणा वचसा शुचिः ॥१४३॥

आदौ चित्तं समाधाय चिद्‌रुपायां स्थिराशयः ।
ततो महावीरभावं कुलमार्गं महोदयम् ॥१४४॥

शक्तिचक्रं सत्त्वचक्रं वैष्णवं नवविग्रहम् ।
समाश्रित्य भजेन्मन्त्री कुलकात्यायनीं पराम् ॥१४५॥

प्रत्यक्षदेवतां श्रीदां चण्डोद्वेगनिकृन्तिनीम् ।
चिद्‌रुपां ज्ञाननिलयां चैतन्यानन्दविग्रहाम् ॥१४६॥

कोटिसौदामिनीभासां सर्वतत्त्वस्वरुपिणीम् ।
अष्टादशभुजा रौद्रीं शिवमांसाचलप्रियाम् ॥१४७॥

आश्रित्य प्रजपेन्मन्त्रं कुलमार्गाश्रयो नरः ।
कुलमार्गात् परं मार्गं को जानाति जगत्त्रये ॥१४८॥

एतन्मार्गप्रसादेन ब्रह्मा स्त्रष्टा स्वयं महान् ।
विष्णुश्च पालने शक्तो निर्मलः सत्त्वरुपधृक्‍ ॥१४९॥

सर्वसेव्यो महापूज्यो यजुर्वेदाधिपो महान् ।
हरः संहारकर्त्ता च वीरेशोत्तममानसः ॥१५०॥

सर्वेषामन्तकः क्रोधी क्रोधराजो महाबली ।
वीरभावप्रसादेन दिक्‌पाला रुद्ररुपिणः ॥१५१॥

वीराधीनमिदं विश्वं कुलाधीनञ्च वीरकम् ।
अतः कुलं समाश्रित्य सर्वसिद्धीश्वरो जडः ॥१५२॥

मासेनाकर्षणं सिद्धिर्द्धिमासे वाक्‌पतिर्भवेत् ।
मासत्रयेण संयोगाज्ज्ञायते सुखवल्लभः ॥१५३॥

एवं चतुष्टये मासि भवेद्‍ दिक्पालगोचरः ।
पञ्चमे पञ्चबाणः स्यात्षष्ठे रुद्रो भवेद्‍ ध्रुवम् ॥१५४॥

एतदाचारसारं हि सर्वेषामप्यगोचरम् ।
एतन्मार्गं कौलमार्ग कौलमार्गं परं नहि ॥१५५॥

योगिनां दृढचित्तानां भक्तानामेकमासतः ।
कार्यसिद्धिर्भवेन्नारी कुलमार्गप्रसादतः ॥१५६॥

पूर्णयोगी भवेद्‍ विप्रः षण्मासाभ्यासयोगतः ।
शक्ति बिना शिवोऽशक्तः किमन्ये जडबुद्धयः ॥१५७॥

इत्युक्त्या बुद्धरुपी च कारयामास साधनम् ।
कुरु विप्र महाशक्तिसेवनं मद्यसाधनाम् ॥१५८॥

महाविद्यापदाम्भोजदर्शनं समवाप्यसि ।
एतच्छुत्वा गुरोर्वाक्यं स्मृत्वा देवीं सरस्वतीम् ॥१५९॥

मदिरासाधनं कर्त्तुं जगाम कुलमण्डले ।
मद्यं मांसं तथा मांसं मुद्रा मैथुनमेव च ॥१६०॥

पुनः पुनः साधियित्वा पूर्णयोगी बभूवः सः ।
योगमार्गं कुलमार्गमेकाचारक्रमं प्रभो ॥१६१॥

योगी भूत्वा कुलं ध्यात्वाअ सर्वसिद्धीश्वरो भवेत् ।
सन्धिकालं कुलपथं योगेन जडितं सदा ॥१६२॥

भगसंयोगमात्रेण सर्वसिद्धिश्वरो भवेत् ।
एतद्‌योगं विजानीयाज्जीवात्मपरमात्मनोः ॥१६३॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने भावप्रश्नार्थनिर्णये सिद्धमन्त्रप्रकरणे चतुर्वेदोल्लासे भैरवभैरवीसंवादे सप्तदशः पटलः ॥१७॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP