सप्तदशः पटलः - बुद्धवसिष्ठवृत्तान्तः
शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम्
एतत्तत्त्वं विना नाथ न पश्यति कदाचन ।
वसिष्ठो ब्रह्मपुत्रोऽपि चिरकालं सुसाधनम् ॥१०६॥
चकार निर्जने देशे कृच्छ्रेण तपसा वशी ।
शतसहस्त्र्म वत्सरं च व्याप्य योगादिसाधनम् ॥१०७॥
तथापि साक्षिद्विज्ञानं न बभूव महितले ।
ततो जगाम क्रुद्धोऽसौ तातस्य निकटे प्रभुः ॥१०८॥
सर्वं तत् कथयामास स्वीयाचारक्रमं प्रभो ।
अन्यमन्त्रं देहि नाथ एषा विद्या न सिद्धिदा ॥१०९॥
अन्यथा सुदृढं शापं तवाग्रे प्रददामि हि ।
ततस्वं वारयामास एवं न कुरु भो सुत ॥११०॥
पुनस्तां भज भावेन योगमार्गेण पण्डित ।
ततः सा वरदा भूत्वा आगमिष्यति तेऽग्रतः ॥१११॥
सा देवी परमा शक्तिः सर्वसङ्कतारिणी ।
कोटिसूर्यप्रभा नीला चन्द्रकोटिसुशीतला ॥११२॥
स्थिरविद्युल्लताकोटिसदृशी कालकामिनी ।
सा पाति जगतां लोकान् तस्याः कर्म चराचरम् ॥११३॥
भज पुत्र स्थिरानन्द कथं शप्तुं समुद्यतः ।
एकान्तचेतसा नित्यं भज पुत्र दयानिधि ॥११४॥
तस्या दर्शनमेवं हि अवश्यं समवाप्स्यसि ।
एतत् श्रुत्वा गुरोर्वाक्यं प्रणम्य च पुनः पुनः ॥११५॥
जगाम जलधेस्तीरे वशी वेदान्तवित् शुचिः ।
सहस्त्रवत्सरं सम्यक् जजाप परमं जपम् ॥११६॥
आदेशोऽपि न बभूव ततः क्रोधपरो मुनिः ।
व्याकुलात्मा महाविद्यां वसिष्ठः शप्तुमुद्यतः ॥११७॥
द्विराचम्य महाशापः प्रदत्तश्च सुदारुणः ।
तेनैव मुनिना नाथ मुनेरग्रे कुलेश्वरी ॥११८॥
आजगाम महाविद्या योगिनामभयप्रदा ।
अकारनमरे विप्र शापो दत्तः सुदारुणः ॥११९॥
मम सेवाम न जानाति मत्कुलागम् चिन्तनम् ।
कथं योगाभ्यासवशात् मत्पदम्भोजदर्शनम् ॥१२०॥
प्राप्नोति मानुषो देवे मनध्यानमदुःखदम् ।
यः कुलार्थी सिद्धमन्त्री मद्वेदाचार निर्मलः ॥१२१॥
ममैव साधनं पुण्य़ं वेदानामप्यगोचरम् ।
बौद्धदेशेऽर्ववेदे महाचीने तदा व्रज ॥१२२॥
तत्र गत्वा महाभावं विलोक्य मत्पदाम्बुजम ।
मत्कुलज्ञो महर्षे त्वं महासिद्धो भविष्यसि ॥१२३॥
एतद्वाक्यं कथयित्वा सा वायव्याकाशवाहिनी ।
निराकाराऽभवत् शीघ्रं ततः साकाशवाहिनी ॥१२४॥
N/A
References : N/A
Last Updated : April 10, 2011
TOP