संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तदशः पटलः| स्थिरचित्तसाधकस्य लक्षणम् सप्तदशः पटलः अथर्ववेदचक्रस्थाकुण्डलिनीमहिमा वायवीसिध्दीः स्थिरचित्तसाधकस्य लक्षणम् बुद्धवसिष्ठवृत्तान्तः वसिष्ठस्य महाचीने गमनम् अमहाचीनाचारः सप्तदशः पटलः - स्थिरचित्तसाधकस्य लक्षणम् शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल स्थिरचित्तसाधकस्य लक्षणम् Translation - भाषांतर तिस्त्रः कोट्यर्धकोटि च यानि लोमानि मानुषे ।नाडीमुखानि सर्वाणि धर्मबिन्दुं च्यवन्ति हि ॥५७॥यावत्तद्बिन्दुपातश्च तावत्कालं लयं स्मृतम् ।तावत्कालं प्राणयोगात् प्रस्वेदाधमसिद्धिदम् ॥५८॥सूक्ष्मवायुसेवया च किन्न सिद्धयति भूतले ।लोमकूपे मनो दद्यात् लयस्थाने मनोरमे ॥५९॥स्थिरचेता भवेत् शीघ्रं नात्र कार्या विचारणा ।वायुसेवां विना नाथ कथं सिद्धिर्भवेद् भवे ॥६०॥स्थिरचित्तं बिना नाथ मध्यमापि न जायते ।स्थाने स्थाने मनो दत्वा वायुना कुम्भकेन च ॥६१॥धारयेन्मारुतं मन्त्री कालज्ञानी दिवानिशम् ।एकान्तनिर्जने स्थित्वा स्थिरचेता भवेद् ध्रुवम् ॥६२॥स्थिरचित्तं विना शम्भो सिद्धिः स्यादुत्तमा कथम् ॥६३॥निवाह्र पञ्चएन्द्रियसञ्ज्ञकानि यत्नेन धैर्यायतिरीश्वरस्त्वम् ।प्राप्नोति मासन्नयसाधनेन विषासवं भोक्तुमसौ समर्थः ॥६४॥मासत्रयाभ्या-सुसञ्चयेन स्थिरेन्द्रियः स्यादधमादिसिद्धिः ।सा खेचरी सिद्धिरत्र प्रबुद्धा चतुर्थये मासे तु भवेद्विकल्पनम् ॥६५॥तदाधिकारी पवनाशनोऽसौ स्थिरासनानन्दसुचेतसा भुवि ।प्रकल्पने सिद्धिं यथार्थगामिनीमुपेति शीघ्रं वरवीरभावम् ॥६६॥सा वयवी शक्तिनन्तरुपिणी लोभावलीनां कुहरे महासुखम् ।ददाति सौख्यं गतिचञ्चल जयं स्थिराशयत्वं सति शास्त्रकोवदम् ॥६७॥षण्मासयोगासननिष्ठदेहा वायुश्रमानन्दरसाप्तविग्रहः ।विहाय कल्पावितयोगभाव श्रुत्यागमान् कर्तुमसौ समर्थः ॥६८॥स्थिरचेता महासिद्धिं प्राप्नोति नात्र संशयः ।संवत्सरकृताभ्यासे महाखेचरतां व्रजेत् ॥६९॥यावन्निर्गच्छति प्रीता वायवी शक्तिरुत्तमा ।नासाग्रमववार्यैव स्थिरचेता महामतिः ॥७०॥चण्डवेगा यदा क्षिप्रमन्तरालं न गच्छति ।सर्वत्रगामी स भवेत् तावत्कालं विचक्षणः ॥७१॥यदि शीर्षादूर्ध्वदेशे द्वादशाङ्गुलकोपरि ।गन्तुं समर्थो भगवान् शिवतुल्यो गणेश्वरः ॥७२॥सर्वगामी प्रभवेत खेचरी योगिराड् वशी ।इति सिद्धिर्वत्सरे स्यात् स्थिचित्तेन शङ्कर ॥७३॥योगी भूत्वा मनःस्थैर्यं न करोति यदा भुवि ।कृच्छ्रेग पदमारुह्य प्रपतेन्नारकी यथा ॥७४॥अत एव महाकाल स्थिरचेता भव प्रभो ।तदा मां प्राप्स्यसि क्षिप्रं वायवीमष्टसिद्धिदाम् ॥७५॥यदि सिद्धो भवेद् भूमौ वायवीसुकृपादिभिः ।सदा कामस्थिरो भूत्वा गोपयेन्मातृजारवत् ॥७६॥यदा यदा महादेव योगाबासं करोति यः ।शिष्येभ्योऽपि सुतेभ्योऽपि दत्वा कार्यं करोति यः ॥७७॥तदैव स महासिद्धिं प्राप्नोति नात्र संशयः ।संवत्सरं चरेद्धर्मं योगमार्गं हि दुर्गमम् ॥७८॥प्रकाशयेन्न कदापि कृत्वा मृत्युमवाप्नुयात् ।योगयोगाद् भवेन्मोक्षो मन्त्रसिद्धिरखण्डिता ॥७९॥न प्रकाश्यमतो योगं भुक्तिमुक्तिफलाय च ।नित्यं सुखं महाधर्मं प्राप्नोति वत्सराद् बहिः ॥८०॥आत्मसुखं नित्यसुखं मन्त्रं यन्त्रं तथागमम ।प्रकाशयेन्न कदापि कुलमार्ग कुलेश्वर ॥८१॥यद्येवं कुरुते धर्मं तदा मरणमाप्नुयात् ।योगभ्रष्टो विज्ञानज्ञोऽजडो मृत्युमवाप्नुयात् ॥८२॥येन मृत्युवशो याति तत्कार्यं नापि दर्शयेत् ।दत्तात्रेयो महायोगी शुको नारद एव च ॥८३॥येन कृतं सिद्धिमन्त्रं वर्णजालं कुलार्णवम् ।एकेन लोकनाथेन योगमार्गपरेण च ॥८४॥तथा मङुलकार्येण ध्यानेन साधकोत्तमः ।उत्तमां सिद्धिमाप्नोति वत्सराद् योगशासनात् ॥८५॥आदौ वै ब्रह्मणो ध्यानं पूरकाष्टाङुलक्षणैः ।कुर्यात् सकलसिद्ध्यर्थमम्बिकापूजनेन च ॥८६॥ऋगवेदं चेतसि ध्यात्वा मूलाधारे चतुद्र्दले ।वायुना चन्द्ररुपेण धारयेन्मारुतं सुधीः ॥८७॥अथर्वान्निर्गतं सर्वं ऋग्वेदादि चराचरम् ।तेन पूर्णचन्द्रमसा जीवेनार्यामृतेन च ॥८८॥जुहुयादेकाभावेन कुण्डलीसूर्यगोऽनले ।कुम्भक कारयेन्मन्त्री यजुर्वेदपुरःसरम् ॥८९॥सर्वसत्त्वाधिष्ठितं तत् सर्वविज्ञानमुत्तमम् ।वायव्याः पूर्णसंस्थानं योगिनामभिधायकम् ॥९०॥पुनः पुनः कुम्भयित्वा सत्त्वे निर्मलतेजसि ।महाप्रलयसारज्ञो भवतीति न संशयः ॥९१॥रेचकं शम्भुना व्याप्तं तमोगुणमनोलयम् ।सर्वमृत्युकुलस्थानं व्याप्तं धर्मफलाफलैः ॥९२॥पुनः पुनः क्षोभनिष्ठा रेचकेन निवर्तते ।रेचकेन लयं याति रेचनेन परं पदम् ॥९३॥प्राप्नोति साधकश्रेष्ठो रेचकेनापि सिद्धिभाक् ।रेचकं वहिनरुपञ्च कोटिवहिनशिखोज्ज्वलम् ॥९४॥द्वादशाङुगुलमध्यस्थं ध्यात्वा बाह्ये लयं दिशेत् ।चन्द्रव्याप्तं सर्वलोकं सर्वपुण्यसमुद्भवम् ॥९५॥रेचकाग्निर्दहतीह वायुसख्यो महाबली ।तत् शशाङ्कजीवरुपं जीवति वायवी ॥९६॥आग्नेयी दह्याति क्षिप्रं एष होमः परो मतः ।एतत् कार्यं यः करोति स न मृत्युवशो भवेत् ॥९७॥एतयोः सन्धिकालञ्च कुम्भंक तत्त्वसाधनम् ।तदेव भावकानाञ्च परमस्थानमेव च ॥९८॥महाकुम्भलाकृत्या स्थिरं स्थित्त्वा च कुम्भके ।अथर्वगामिनीं देवीं भावयेदमरो महान् ॥९९॥अननतभावनं शभ्भोरशेषसृष्टिशोभितम् ।अथर्वं भावयेन्मन्त्री शक्तिचक्रक्रमेण तु ॥१००॥आज्ञाचक्रे वेददले चतुर्दलसुमन्दिरे ।अथर्वयोगिनीं ध्यायेत् समाधिस्थेन चेतसा ॥१०१॥ततोऽच्युताख्यं जगतामीश्वरं शीर्षपङ्कजे ।प्रपश्यति जगन्नाथं नित्यसूक्श्मसुखोदयम् ॥१०२॥आज्ञाचक्रे शोधनमशेष्रदलमथर्वं परिकीर्तितम् ।ज्योतिश्चक्रे तन्मध्ये योगमार्गेण सद्बिलम् ॥१०३॥प्रपश्यति महाज्ञानी बाह्यदृष्ट्या यथाम्बुजम् ।कालेन सिद्धिमाप्नोति ब्रह्माज्ञानी च साधकः ॥१०४॥ततो भजेत् कौलमार्गं ततो विद्यां प्रपश्यति ।महाविद्यां कोटिसूर्यज्वालामालासमाकुलम् ॥१०५॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP