संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनृसिंहकोश|उपासना खण्ड|श्रीनृसिंहार्चनपद्धतिः| पद्धतिः ६ श्रीनृसिंहार्चनपद्धतिः पद्धतिः १ पद्धतिः २ पद्धतिः ३ पद्धतिः ४ पद्धतिः ५ पद्धतिः ६ पद्धतिः ७ श्रीनृसिंहार्चनपद्धतिः - पद्धतिः ६ उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते. Tags : nrusinhapothiनृसिंहपोथी पद्धतिः ६ Translation - भाषांतर आवृष्णेनरजसा वर्तमानो ऋक् ॥ मन्त्रं पठेत्॥ ॐ क्षं नमः ळं. हं. सं.षं.शं.वं.लं.रं.यं.मं.भं.बं.फं.पं.नं.धं.तं.ट.थं.तं.णं.ढं.डं.ठं.टं.ञं.झं.जं.छं.चं.डं.घं.गं.खं.कं.अं.अ.ॐ औं.ऐं.ए.लृं.लृं.ऊं. उं.ईं.इ.आ.अ इति विलोममातृकामूलं विलोमेनोच्चारेण कलशे जलमापूर्य जले उं षोडशकलात्मने चंद्रमंडलाय नम इति चन्द्रस्य षोडशकलाः पूजयेत्॥ यथा ॥ श्रं अमृतायै.आं आनंदायै. इं पूर्वायै. ईं तुष्ट्यै. उं पुष्ट्यै. ऊं. रत्यै. ऋं. शशिन्यै. लृं. चन्द्रिकायै. लृं कान्त्यै.एं ज्योत्स्नायै. ऐं श्रियै. ॐ पीत्यै. औं अंगदायै. अं पूर्णायै. अ पूर्णामृतायै. इति सम्पूज्य ॥ आप्यायस्व - समेतुतेति मन्त्रं पठेत्ततः क्रोमित्यंकुशमुद्रया गंगेचे यमुनेचैवेति मन्त्रेण सूर्यमण्डालात्तीर्थान्यावाह्य ॥ स्वह्रदये देवतामावाह्य जलं स्पृष्ट्वा अष्टवारं ८ मूलं जप्त्वांगानि विन्यस्य नम इति सम्पूज्य मत्स्यमुद्रया छायास्त्राय फडिति छोटिकादि मुद्रया संरक्ष्य ॥ कवचाय हुं इति अवगुंठिन्यावगुंठ्य वमिति अमृतबीजेन धेनुद्रयामुद्रामृतीकृत्य संनिरोधिन्या संनिरुध्य ॥ शंखमौसलचक्रगरुडमहामुद्रा योनिमुद्राग्वालिनी प्रदर्श्य परमीकरणमुद्रया तज्जंल पावनं विचिन्तयेदिति शंखस्थापनम् ॥ ततः पात्रान्तरेण तदुदकमादाय पूजाद्रव्याणि आत्मांन च प्रोक्ष्य पाद्यादि पात्राणि स्थापयेत्। शंखस्तोत्तरतः पूर्ववत्त्रिकोणचतुरस्त्राणि मण्डलानि कृत्वा ॥ दशकलात्मने वह्रिमण्डलाय नमः ॥ इति प्रत्येकं वह्रिंमण्डलं सम्पूज्य ॥ द्वादशकलात्मने सूर्यमण्डलाय नमः इति आधारे सूर्यमण्डलाय सम्पूज्य ॥ फडिति पात्राणि प्रक्षाल्याधारोपरि संस्थाप्त ॥ गंगेच यमुनेचैवेतिमन्त्रेण कलशोदकेनापूर्य क्रोमित्यंकुशमुद्रया तीर्थान्यावगाह्य षोडशकलात्मने चन्द्रमण्डलाय नम इति गन्धादिभिः सम्पूज्य ॥ पाद्यपात्र जले श्यामाकविष्णुभां ताब्जदूर्वा निक्षिपेत्॥ अर्घ्यपात्रे ॥ दूर्वातिलसर्षपदर्भाग्राणि ॥ आचमनीय पात्रे ॥ लवंगजातिफलंकंकोलान् ॥ मधुपर्कपात्रे ॥ दध्याज्यमधुघृतानि ॥ इतिपात्रस्थापनम् ॥ ततः पीठपूजां कुर्यात ॥ यथा सामानर्घ्यांबुना पीठं प्रोक्ष्य ॥ मं मण्डूकाय नमः ॥ कंकालग्निरुद्राय. आं. आधारशक्तये. कुं कू कूर्माय नमः धं धरायै, क्षिं क्षीराब्धये. शं श्वेतद्वीपाय कं कल्पवृक्षाय तदधः मणिहर्म्याय. रं रत्नवेदिकायै. रं रत्नसिंहाय. पाठपादेषु आग्नेयादि ॥ धं धर्माय ज्ञां ज्ञानाय.वं वैराग्याय. अं अवैराग्याय. अं अवैश्वर्याय. मं मध्ये अनन्ताय. तत्रैव तं तत्वमयपद्माय. अं आनन्दकन्दाय. सं सविन्नालाय. विं विकारमयकेसरेभ्यो. प्रं प्रकृतिमयपत्रेभ्यो. पं पंचाशद्वर्णकर्णिकायै. द्वादशकलात्मने ॥ अं अर्कमण्डलाय. षोडशकलात्मने उं सोममण्डलाय. सं सत्वाय. रं रजसे. तं तमसे. अं आत्मने. पं परमात्मने र्ही ज्ञानाय. मं मायातत्वाय. कं कालतत्वाय. पं परतत्वाय. विं विमलायै. उं उत्कर्षिण्यै. ज्ञां ज्ञानायै. क्रिं क्रियायै. यों योगायै प्रं. प्रवाह्यै. सं सत्यायै. इं ईशितायै. अं अनुग्रहायै. ॐ नमो भगवते विष्णवे सर्वभूतात्मने वासुदेवाने सर्वात्मसंयोगपद्मपीठात्मने नमः ॥ इति गन्धादिभिः पूजयेत्इति पीठपूजा ॥ततः मूलमुच्चार्य पुष्पांजलिं गृहीत्वा मूलाधारात्उत्थाप्य ब्रह्मारन्ध्रं नीत्वा परमात्मनि संयोज्य ॥ श्री नृसिंहरुपतेजो वहन्नासापुटाध्वनां जलौ योजयित्वा यन्त्रे मूर्तौ वा संयोज्य ॥ प्राणप्रतिष्ठां कुर्यात्॥ यन्त्र लक्षणम् ॥ बिन्दुगर्भित षट्कोणं पद्ममष्टदलं ततः ॥ कृत्वाधरगृहंम्परेखात्रयसमन्वितम् ॥१॥ नृसिंह पूजयेत्तत्र परिवार समान्वितम् ॥ यंत्रमेतन्नृसिंहास्य दर्शनात्सर्वकामदम् ॥२॥मूलमुच्चार्य ॥ आत्मसंस्थं अजं शुद्धं त्वामंह परमेश्वरम् ॥ अरण्यानिवहव्यांशं मूर्तिं आवाहयाम्यहम् ॥ आगच्छ देवदेव त्वं परमानंदाधिगृह ॥ पूजां गृहीतुं सम्पूर्णं परिवार समान्वितम् ॥१॥श्री लक्ष्मीनृसिंहाय नमः ॥ सहस्त्रशीर्षत्यावाहनम् ॥ आवाहनी मुद्रां प्रदर्शयेत्॥ सा यथा ॥ ऊर्ध्वांजलीं अधः कुर्यात्इति आवाहनी मता ॥ इत्यावाहनम् ॥ सर्वत्रादौ मूलम् ॥ तवेयं महिमामूर्तिरस्यां त्वां सर्वप्रभाम् ॥ भक्तिस्नेहसमाकृष्टं दीपवत्स्थापयाम्यहम् ॥२॥अस्मि चरासने देव सुखानीनाक्षरात्मकम् ॥ प्रतिष्ठिता भवेशत्वं भक्तानुग्रहतत्परम् ॥ पुरुषएवेत्यासनम् ॥ देवत्वं भक्तिसुलभा पुजावरणसंयुता ॥ यावत्वां पूजयिष्यामि तावत्वं संस्थितो भव ॥३॥स्थापनीमुद्रां प्रदर्श्य ॥ यथा ॥ इयं तु विपरीता स्यात्तदा विस्थापनी मतेति ॥ इति स्थापनम् ॥ अनन्या नृहरे सेयं मूर्तिशक्ति सुरेश्वर ॥ सांनिध्यमस्यां कुरु भो सदा भक्तजनप्रिय ॥५॥संनिधापनी मुद्रा ॥ यथा मीलितं मुष्टियुगुलं संनिधापनरुपिणी ॥ इति संनिधापनम् ॥ आज्ञया तव देवेश कृपापूरितमानसा ॥ आत्मांन देवकं रुपं निरुपाधि सदाहरे ॥६॥संनिरोधिनी मुद्रा ॥ यथा ॥ अंतरांगुष्ठमुष्टिभ्यां संनिरोधनरुपिणी ॥ इति संरोधनम् ॥ अभक्तवाड् मन्श्चक्षुश्रोत्रदूरपरात्पर ॥ स्वते-जसान्तरेणाशु वेष्टितो भव सर्वतः ॥७॥अवंगुष्ठनी मुद्रा ॥ एतस्या एव मुद्रायां तर्जन्यौ सरले यदा ॥ सव्यापसव्याभ्रमणात्मुद्रेयमनगुंठिनी ॥ इति अवगुंठनम् ॥ देवस्यांगे षडंगानि कुर्यादिति संकलीकरणी मुद्रा ॥ इति संकलीकरणम् ॥ ततः परमीकरणं नाम मुद्रया ॥ यथा ॥ अंगुलिः सरलाः कुर्यात अंगुष्ठौग्रथितं प्रिये ॥ करविकृत संयोज्यह्यारार्तिकमिव प्रिये ॥८॥परमीकरणं नाम मुद्रेयं तु महेश्वर ॥ इति परमीकरणम् ॥ अनामृतीकरणम् ॥ परिवृत्य करौ पश्चात तर्जनी मध्यमस्थिता ॥ कनिष्ठिकानामिकाश्वैव परस्परयुता कुरु ॥९॥धेनुमुद्रेयमारव्याताह्यमृतीकरणं भवेत्इति धेनुमुद्रयामृतीकरणम् इति मुद्राः प्रदर्श्य स्वागतं कुर्यात्॥ यथा ॥ यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ॥ तस्य ते नृहरे स्वामिन् स्वागतं किं रमापते ॥१०॥इति स्वागतम् ॥ प्रक्षालयामि ते पादौ पादपात्रस्थ वारिणा ॥ यथाविधि जगन्नाथ संस्तुतेनाति भक्तितः ॥११॥सांगाय सपरिवाराय सशक्तिकाय श्रीनृसिंहाय नमेति सर्वत्र पादयोः पाद्यम् ॥ एतावानस्येति पाद्यम् ॥ अर्घ्यम गृहाण नृहरे त्वमदत्तं सुरेश्वर ॥ संस्कृतं भाजनं शुद्धे यथा विद्यति भक्तितः ॥१२॥श्रीनृसिंहाय. स्त्रिपादूर्ध्वेत्यर्घ्यम् ॥ शीतलेन सुगन्धेन यदत्तेनामुना त्वया ॥ आचम्यतां रमानाथ वारिणानंदकारिणा ॥१३॥श्रीनृसिंहाय नमः तस्माद्विराळिति मुखे आचमनीयम् ॥ गृहण त्वममुं देव मधुपर्कं मयार्पितम् ॥ घृते न मधुना दध्नायुतं त्रिभुवनेश्वर ॥१४॥श्रीनृसिंहमुखे मधुपर्कम् ॥ पुनराचमनीयम् ॥ स्वामिन्तवाभिषेकार्थं गोदुग्धं स्थापितं मया ॥ पात्रे प्रक्षालमेते त्वं गृहीत्वा स्नानमाचर ॥१५॥श्रीनृसिंहाय नमः आप्यायस्वेतिप. दध्येतु पात्रशुद्धस्थं दीयते भक्तियो मया ॥ गृहीत्वा नृहरे देव प्रीत्या स्नानं समाचर ॥१६॥श्रीनृसिंहाय. दध्ना स्नपयामि ॥ दधिक्राव्णे. दधिरस्नानम् ॥ नवं मनोहरमिदं गोघृतं तवमायते ॥ दत्तमेतेन देव त्वं गृहीत्वा स्नानमाचर ॥१७॥घृतं मिमिक्षे. घृतं स्नानम् ॥ क्षोद्रक्षुद्रचारित्र स्नानार्थममरेश्वर ॥ मया प्रदत्तमेतेन प्रीत्या स्नानं समाचरेत्॥१८॥मधुवाता. श्री नृसिंहाय. मधुस्नानम् ॥ सीतसीताति सूक्ष्मेयं दत्वात्वामनया मुदा ॥ अपि स्नाहि जगन्नाथ प्रल्हादाय निवारण ॥१९॥स्वादुःपवस्वेति शर्करां गंगागौतमिकां कलिन्दतनयारेवा विधिः कन्यका कावेरी पवना वृद्धिरमलो सिन्धूरिदं निर्मलम ॥ आसां वारि नृसिंहदैत्यतदमन स्वामिन्मयाभक्तितः स्नानं कुर्वमनात्वमद्य विधिना दत्तेन भक्तिप्रिय ॥२०॥पुरुषसूक्तेन अभिषेकः ॥ श्रीनृसिंहाय. शुद्धोदकस्नानम् ॥ पुनराचमनम् ॥ नैशनाना सुगन्धाढ्यं अंगोद्वर्यनकं मया ॥ लापितं त्वमिदं प्रीत्या देवांगीकुरु भक्तितः ॥२१॥श्री लक्ष्मीनृसिंहाय. अंगोद्वर्तनम् ॥ स्नेहं गृहाण स्नेहेन लोकनाथ महायशाः ॥ सर्वलोकेषु शुद्धात्मन् ददामि स्नेहमुत्तमम् ॥२२॥श्रीलक्ष्मीनृसिंहाय. सुगन्धैलम् ॥ शुभ्रं कोशय मे तत्त्वं परिद्ययनवाम्बरम् ॥ मयार्पित कांचनस्य विकारैश्चितं प्रभो ॥२३॥श्रीलक्ष्मीनृसिंहाय. उष्णोदकम् ॥ स्नानित्वमेतज्जलमुष्णमस्ति प्रपूरितं संप्रति कांचनस्य ॥ पात्रेभिषेकस्य सतुर्यघोषं ययातित्वाति ह्रदये च हर्षे ॥२४॥लक्ष्मीनृसिंहाय. तं यज्ञमिति वस्त्रम् ॥ पुनराचमनम् ॥ उत्तरीयपटं स्वामिन् आदत्तं उत्तरीकुरु ॥ मध्यदत्तममुं सूक्ष्मं प्रातवल्ली विचित्रतः ॥२५॥उत्तरीयरस्त्रम् ॥ आचमनीयम् . ॥ यज्ञसूत्रमिदं देव स्वर्णतन्तुविनिर्मितम् ॥ भक्त्या समर्पये तुभ्यं गृहीत्वा वरदोभव ॥२६॥श्रीलक्ष्मी नृसिंहाय. तस्माद्यज्ञादिति यज्ञोपवीतम् ॥ आचमनीयम् । सौवर्णानि सरत्नानि विविधानि धरायते ॥ भूषणानि गृहीत्वा त्वं मद्दत्तानि प्रसीद मे ॥२७॥सौरभ्यनितिसमस्त- सुगन्धमेनं सच्चन्दनाद्यखिलगन्धविराजमानम् ॥ गन्धं गृहीत्वाद्य जगद्वुरोहं भक्त्याति- भाले तव लेपयामि ॥२८॥श्रीलक्ष्मीनृसिंहाय. गन्धम् ॥ कनिष्ठिकांगुष्ठयोगेन गन्धमुद्रा ॥ तण्डुलाः क्षीरवर्णाभाघृतकुकुंमरंजिताः ॥ गृहित्वेमां नृसिंहत्वं लापितानूतिकं कुरु ॥२९॥लक्ष्मीनृसिंहाय. अक्षतां. मंदारभ्रसुमालतीबकुलजः कुन्दोभ्दवैर्माधवीं सम्भूतैः कुसुमैः प्रफुल्लनलिनैर्जातीभवैश्चंपकैः ॥ अन्यैश्वेत्तसुपीत रक्तकुसुमैः स्वामर्चयाम्याधिजा नाथ त्वं कृपया गृहाण कुसुमान्येतानि लोकेश्वर ॥३०॥श्रीनृसिंहाय. तस्मादश्वा इतिपुष्पम् ॥ पुष्पमुद्रा तर्जन्योंगुष्ठयोगतः ॥ नवीनमंजरी- उक्तान्यमूनि पुरुषोत्तम ॥ गृहीत्वा कृष्ण तुलसीपत्राणि वरदोभव ॥३१॥अतो देवा इति वर्गः ॥ तुलसीपत्राणि ॥ पाटिराखिलानीश द्रव्याणि सुरभीणि ते ॥ अर्पितानि मया भक्त्या गृहीत्वा मुदितो भव ॥३२॥श्रीनृसिंहाय. सुगन्धद्रव्याणि ॥ पुष्पपूजा विधायेत्थं कुर्यादावरणार्चनमिति ॥ भावचूडामणिमहीधरोक्तिः ॥ अन्येषां मते नैवेद्यान्ते ॥ अथांगपूजा ॥ तदन्तरं आवर्णपूजा ॥ देवदेव जगन्नाथ नृसिंहाच्युत माधव ॥ अनुज्ञां देहि मे स्वीयपरिवारसमर्चने ॥ इति श्रीलक्ष्मीनृसिंहमूर्तिं प्रार्थ्य ॥ मूलेन विन्दौ मूर्तिं आषिशा पुष्पांजलीं दत्वा ॥ श्रीष्टदेवता परिवारदेवताः पूजयेत् ॥ यथा हस्ते अक्षताः गृहीत्वा बिंन्दोर्वायव्यां दिशान्तः यथा गुरुपङिक्त सम्पूज्य ॥ षट्कोणेषु केसरमध्ये च अंगानि पूजयेदिति ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ॥ भक्त्या समर्पयेत्तुभ्यं प्रथमावरणार्चनम् ॥ इति प्रथमावरम् ॥ प्रत्यावरणे करशुद्धिः ॥ अथाष्टदले ॥ प्रागादिदिग्दलेषु ॥ ॐ खगेश्वराय. खगेश्वर पूज. शंकराय. शंकरं पूज. शेषनागाय. शेषनागं पूज. शतान्तदाय. शतानन्दं पूज. कोणपत्रेषु ॥ श्रियै. श्रियं पूज. ईशानं कोणपत्रे र्हियै. र्हियं पूज. आग्नेयकोणपत्रे धृत्यै नमः धृतिं पूज. नैऋत्यपत्रे पुष्टयै. पुष्टिं पूज. वायव्यपत्रे द्वितीयां वर्णदेवता गन्धादिभिः सम्पूज्य ॥ अभीष्ट. ॥ इति द्वितीयावरणम् ॥ द्वात्रिंशपत्रे प्रागादि ॥ कृष्णनृसिंहाय. पू. रुद्रनृसिंहाय. पूज. उज्वलनृसिंहाय विकरालनृसिंहाय. दैत्यान्तक नृसिंहाय. मधुसूदन नृसिंहाय. रक्ताक्ष नृसिंहाय. पिंगाक्षनृसिंहाय. अंजननृसिंहाय. दीप्ततेजनृसिंहाय. सुघोण नृसिं. सुघोड नृसिं. सुहनु नृसिं. विश्वाख्य नृसिं. राक्षसान्तक नृसिं. विशाल नृसिं. धूमकेश नृसिं हयग्रीव नृसिं. घनपवन नृसिं. घनावनन्द नृसिं. मेघनाद नृसिं. मेघवर्ण नृसिं. कुम्भकर्ण नृसिं. कृतान्तक नृसिं. तीव्रतेज नृसिं. अग्निवर्ण नृसिं महोग्र नृसिं. विश्वभूषण नृसिं. विघ्नक्रम नृसिं. महासेन नृसिं. तृतीयो गन्धादिभिः सम्पूज्य ॥ अभिष्ट सिद्धिः मे. ॥ तृतीयावरणम् ॥ पूर्वे इन्द्राय. आग्नेयां अग्नये. दक्षिणे यमाय. नैऋत्यां नैऋतये. पश्चिमे वरुणाय. वायव्यां वायवे. उत्तरे सोमाय. ईशान्यां ईशानाय. ब्रह्मणे. इन्द्रेशानयोर्मध्ये अनन्ताय. निऋति र्वरुणयोर्मध्ये. चतुर्थावरनदेवताः गन्धादिभिः सम्पूज्य ॥ अभीष्टसिद्धिः मे. इति चतुर्थावरणम् ॥इन्द्रादीनां पुरतः ॥ वज्राय. शक्तये. दण्डाय. खड्गाय. पाशाय. अंकुशाय. त्रिशूलाय. पद्माय. चक्राय. चक्रं पूजयामि ॥ पंचमावरणम् ॥ अभीष्टसिद्धिः मे ॥ ततः धूम्रपात्रस्थितांगारे धूपद्रव्याणि क्षिप्त्वा अस्त्राय फडिति सामान्यर्घ्योदकेन तत्पात्रं प्रोक्ष्य नम इति तत्र पुष्पांजलिं समर्प्य जगध्व निमन्त्रमातः स्वाहेति घंटा गन्धादिभिः सम्पूज्य वामतर्जन्या तत्पात्रं स्पृशन् ॥ दक्षिण हस्तेनादाय वामहस्तेन घंटां वादयन् ॥ गग्गुलागरुसारोह्यं नखनन्दन सारज ॥ सलाक्षगुडजं धूपं आघ्रायेश प्रियं कुरु ॥३३॥ न्यत्पुरुषं व्यदधुरिति नाभिदेशे धूपं आघ्राय धूपपात्रवद्दीपात्र संस्कारः ॥ तत्र वाममध्ये षोडशकमया स्पर्शः ॥ पूर्ववत्घंटां वादयन् ॥ दर्शयामि शुभं दीपं अमुं त्वमेवालोकय ॥ देवदेव नमस्तुभ्यं घृतवर्तिसमन्वितम् ॥३४॥श्री नृसिंहाय. ब्राह्मणोस्योति नेत्रदेशे दीपं दर्शयामि ॥ दीपमुद्रां प्रदर्श्य ॥ मध्यमांगुष्ठयोगे दीपमुद्रा ॥ अथनैवेद्यम् ॥ देवस्य पुरतः सामान्यर्घ्यांबुना त्रिकोणवृत्तचतुरस्त्रण्डलं विलिख्य तत्राधारं संस्थाप्य स्वर्णादि पात्रेण नानाविधान्नं परिवेष्य संस्थाप्य अस्त्राय फडिति वह्रिबीजेन द्दष्टयादि दोषात् सन्दह्य वमिति अमृतबीजेन धेनुमुद्रयामृतीकृत्य तत्र पुष्पं निक्षिप्य सप्तधा मूलेनाभिमन्त्र्य ॥ मूलान्ते निवदयेत् ॥ यथा ॥ साधारे कांचने पात्रे परिवेष्टितमादरात् ॥ हिंगुनिरका- सिन्धुक्षसिद्धकांसु मनोहरम् ॥३५॥शुभ्रसूत्रसुगन्धाढ्यं शालिसम्भूतभक्तकम् ॥ स्वसाधुवस्तु संजातवटकं स्वच्छायसम् ॥३६॥घृतसिद्ध बहुछिद्रं मृदुअप्रूप- कराजितम् ॥ गुडसंमिश्रचणकदलपक्वान्नं च करान्वितम् ॥३७॥मण्डकेन्दुसमाकाराः फेणी यशष्कुलीकम् ॥ सुसूक्ष्मशर्करा प्रोक्तं मधुदुग्धाज्यसंयुतम् ॥३८॥मरीचचूर्णसंमिश्रं दधिखण्डसमन्वितम् ॥ सुरुपं स्वादुभिर्लेह्यैः श्चोष्यैः पेयैर्विचित्रितम् ॥३९॥चासबीजादि सम्पूर्णवक्त्रकृति विरजितः ॥ नैवेद्यमेते देवत्वं भुङ्क्ष्व मद्दत्तमादरात् ॥४०॥इति पठित्वा जवनिकां धृत्वा ॥ घण्टां वादयन् ॥ वामहस्तेन विकचोत्पलसदृशी मुद्रां प्रदर्श्य ॥ पंचभिः प्राणादि मुद्राभिः ॥ प्राणादि मुद्रा यथा ॥ ॐ प्राणाय स्वाहा ॥ कनिष्ठिकनामिका योगेन ॥ ॐ अपानाय स्वाहा तर्जनी- मध्यमांगुष्ठयोगेन ॥ ॐ व्यानाय. तर्जन्यामंगुष्ठायोगेन ॥ ॐ उदानाय. अनामिका मध्यमांगुष्ठयोगेन ॥ ॐ समानाय. सर्वाभिरंगुलीभिः ॥ इति निवेद्य ॥ दसधा मूलं प्रजप्त्वा ॥ जलं दद्यात् ॥ कर्पूरैलावासितं शुद्धवारिमाधुर्यैणातीव ह्रत्तोषकारि ॥ मद्दत्तं त्वं गृहाणाद्य नाथ स्वर्णपात्रे स्थापितं भूमिनाथ ॥४१॥श्रीनृसिंहाय. भोजनमध्ये पानीयम् ॥ भोजनान्ते उत्तरापोशनम् ॥ ततः ऋष्यादिकपूर्वकं मूलजपं कृत्वा ॥ निवेद्य प्राणानायम्य स्व दक्षिणतः कुण्डं स्थण्डिले वा मूलेवावोक्षणम् विधाय अस्त्राय फडिति संप्रोक्ष्य तेनैव कुशत्रयं वा सन्ताड्य कवचाय हुं इति अभ्युक्ष्य तत्र प्रागग्राउदगग्राश्च तिस्त्रो रेखाः विलिख्य तत्र नवमे कोष्ठे वन्हिं प्रतिष्ठाप्य क्रव्यादेभ्यो ऊं फडिति क्रव्यादांशं नैऋत्यं त्यक्त्वा ॥ मूले वन्हिं परिषिच्य ॥ ॐ ॥ अग्निं प्रज्वालितं वन्दे जातवेदं हुताशनम् ॥ सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥ इति वन्हिं प्रणम्य वैष्ववाग्नये नमः ॥ इति गन्धादिभिः सम्पूज्य ॥ तत्र चक्रस्थां देवतां सावरणां ध्यात्वा मूलेनग्न्धादीनां सम्पूज्य घृतादीनां मूलं प्राणाय स्वाहेत्यादिभिः पंच ॥ षडंगैः षडहुतिर्हत्वा ॥ वौषडंतेन मूलेन पूर्णाहुतिं हुत्वा ॥ पुनर्देवताम गन्धादिभिः सम्पूज्य पुष्पांजलिं दत्वा मूलेन देवतां चक्रे संयोज्य ॥ मूलेन विभूतिवन्दनं कृत्वा पुनः पूर्ववत् वन्हि परिषिच्य ॥ भो भो वन्हे महाशक्ते प्रसाधक ॥ कर्मान्तरेपि सम्प्राप्तौ सान्निध्यं कुरु सादर ॥ इति वन्हिं सम्प्रार्थ्य ॥ विसृजेदिति नित्यहोमः ॥ ततः मूलेन देवस्योपरि मूलवर्णमुच्चार्य ॥ नारिकेल कदलीपनसाम्रखर्जुरादि जनितानि फलानि ॥ अर्पितानि तव चित्तचरित्र स्वीकुरु त्वममयानि मयात्र ॥४२॥श्री लक्ष्मीनृसिंहाय. फलम् ॥ जातिफले लासुर पुष्पजातिपत्रान्वितं खादिरपूगखण्डैः ॥ समेतनेनंकृतपत्रयुक्तं गृहाण ताम्बूलमनन्तविष्णो ॥ लक्ष्मीनृसिंहाय. ताम्बूलम् ॥ देवदेव सुवर्णादि दक्षिणा दीयते मया ॥ पूजा साद्रुण्य सिध्यर्थमिमां त्वमुरसा कुरु ॥४४॥लक्ष्मीनृसिंहाय. दक्षिणाम् ॥ कृत्वेनं छत्रसंछन्नं जगदेतच्चराचरम् ॥ तथापि भक्त्या मद्देतं गृहाणातयवारणम् ॥४५॥लक्ष्मीनृसिंहाय. छत्रम् ॥ त्वां विज्वाय अहं देव चामरेणातिभक्तितः ॥ स्वर्णदण्डेन मृदुना शुभ्रेण परमेश्वर ॥४६॥श्रीनृसिंहाय. चामरम् ॥ विश्वव्यापकरुपस्वं त्वां विना कोस्ति दर्पणे ॥ तथापि भक्त्या मद्दतं आदर्शमवलोकय ॥४७॥लक्ष्मीनृसिंह. दर्पणम् ॥ सामसारप्रियोऽसि त्वं सामसारजगत्पते ॥ अतो मयात्र गीयन्ते शृणु सामानि भक्तितः ॥४८॥लक्ष्मीनृसिं. गीतम् ॥ नृत्यं वाद्यादि ॥ ध्वजम् ॥ रथम् ॥ अश्वगजम् ॥ इति राजोपचारैः समर्प्य ॥प्राणायामपूर्वकं षडंगं ध्यात्वा ॥ मानसपूजां तं कृत्वा ॥ मालामादाय ॥ वामपाणि पात्रान्तरे निधाय ॥ मूलेन सामान्यार्घ्योदकेनाभ्युक्ष्य ॥ गन्धादिभिः अभ्युक्ष्य ॥ गन्धादिभिः सम्पूज्य ॥ ॐ मालेमाले महामाये सर्वशक्तिस्वरुपिणे ॥ चतुर्वर्गास्त्वयि न्यस्तास्तस्मान्मे सिद्धिदा भव ॥४९॥र्हीं सिद्धयै नमः ॥ इति प्रणम्य ॥ अविघ्नं कुरु माले त्वं इति अनेन तां दक्षिणहस्ते गृहीत्वा मूलेन ह्रत्कमलमानीय मध्यमामध्य पर्वणि संस्थाप्येकचित्तो भूत्वा ॥ मन्त्रदेवतयोरैक्यं विभाव्य सहस्त्रत्रिशतमष्टोत्तरशंत वा मूलं प्रजप्य ॥ जपावसाने ॥ त्वं माले सर्वदेवानां प्रीतिदा शुभदा सदा ॥ शुभं कुरुष्व मे भद्र यशो वीर्यं च देहि मे ॥५०॥इति मन्त्रेण तां शिरसि संस्थाप्य पुनः पूर्ववत् ऋष्यादि मानसपूजां कृत्वा ॥ N/A References : N/A Last Updated : March 24, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP