संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनृसिंहकोश|उपासना खण्ड|श्रीनृसिंहार्चनपद्धतिः| पद्धतिः ३ श्रीनृसिंहार्चनपद्धतिः पद्धतिः १ पद्धतिः २ पद्धतिः ३ पद्धतिः ४ पद्धतिः ५ पद्धतिः ६ पद्धतिः ७ श्रीनृसिंहार्चनपद्धतिः - पद्धतिः ३ उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते. Tags : nrusinhapothiनृसिंहपोथी पद्धतिः ३ Translation - भाषांतर हस्ते अक्षताः गृहीत्वा ऊर्ध्वे गं गणपतये नमः ॥ दक्षिणभागे मं महालवष्म्यै नमः ॥ वामे सं सरस्वत्यै नमः । पूनर्दक्षिणे विं विद्यायै नमः । पुनर्वामे गंगायै नमः ॥ पुनः दक्षिणे यं यमुनायै नमः । पूनर्वामे क्षं क्षेत्रपालाय नमः । पुनर्दक्षिणे गंगायै नमः । पुनर्वामे यं यमुनायै नमः । पुनर्दक्षिणे धां धात्रे नमः । पुनर्वामे विं विधायै नमः । पुनर्दक्षिणे शंखनिधये नमः । पुनर्वामे पं पद्मानिधये नमः । अधो देहल्यां द्वारश्रीयै नमः । इति सम्पूज्य द्वारपालान् नमेत्॥ यथा ॥ नन्दाय नमः । सुनन्दाय नमः । चण्डाय नमः । प्रचण्डाय नमः । बलाय नमः । प्रबलाय नमः । भद्राय नमः । सुभद्राय नमः । इति दक्षिणवामतो द्वारपालान्सम्पूज्य वामांगं संकोचयन् वामशान्स्प्रुशन वामांघ्रैणान्ततः प्रविश्य नैऋत्यां ब्रह्मणे नमः वास्तुपुरुषोय नमः ॥ इति सम्पूज्य । इति द्वारपालपूजा ॥ ततः पूजागृहे स्वोपवेशनस्थाने कूर्मचक्रं विभाव्य कूर्मस्य मुखस्थाने कुशासनं आस्तीर्य तत्र मूलाभिमन्त्रिततोयेन प्रोक्ष्य ॥ ॐ पद्मासनाय नमः इति धेनुमुद्रां प्रदर्श्य तिष्ठन् ॥ भूमिं प्रार्थयेत्। यथा। पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् । इति भूमिं स्पृशन् ॥ ॐ आधारशक्तये नमः ॥ मण्डूकाय नमः कूर्माय नमः वराहाय नमः अनन्ताय नमः आत्मासनाय नमः । विमलासनाय नमः । योगासनाय नमः । स्वस्तिकाय नमः इत्यासनादि देवताः ॥ गन्धदिभिः सम्पूज्य मन्त्रोपविश्व भूतोत्सारणं कुर्यात्॥ यथा ॥ अपसर्पन्तु ते भूताः ये भूताः भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ अपक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् । सर्वेषामविरोधेन पूजाकर्म समारभेद् । इति मन्त्रद्वयं पठित्वा वामपादेन पार्ष्णिघातत्रयेण भ्ॐआऊर्ध्वतालत्रयेण अन्तरिक्षस्थान् तिर्यक् दृष्ट्यावलोकनेन दिव्यानेवं त्रिः विधाय विघ्नानुत्सार्य अस्त्राफडिति छोटिकया प्राची दिशं बध्नमीति प्रतिदिशं बध्वा ॥ रमिति बीजेन नाराचमुद्रया समंदग्निप्राकारविधिं विधाय समन्ताज्जलधारां कृत्वां त्रिशूलमुद्रया परितो रक्षां कुर्यादिति दिग्बंधः ॥ ततः ईशान्यां दीपं प्रतिष्ठाप्य प्रार्थयेत्॥ ॐ नमो दीपनाथाय आरक्तवर्णाय इमां पूजां गृहाण गृहाण स्वाहा ॥ दीपनाथाय नम इति सम्पूज्य ॥ ॐ तीक्ष्णदंष्ट्र महाकाय द्वादशकलाशक्तिसहिताय कल्पान्तदहनोपम ॥ भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥ इति भवानुज्ञां गृहीत्वा ॥ वामे स्वप्रकाशनंदनाथवरेण्यम्बा श्रीपादुकां पूजयामि नमः । उत्तरानन्दनाथ उत्तम्मादेव्यम्बा श्री पादुकां पूजयामि नमः ॥ विमर्शानन्दनाथाय नमः । दक्षिणे गं गणपतये नमः । इति प्रणम्य पूर्ववत्प्राणायामत्रयपूर्वकम् ॥ सुमुखश्चेत्यादिकालज्ञांन कृत्वा मम समस्तपापक्ष्ययद्वारचतुर्विधपुरुषार्थासिध्यर्थं यथाशक्त्या मीलितद्रव्यैः श्रीलक्ष्मीनृसिंहपूजां करिष्ये ॥ तत्रादौ पूजाधिकारसिध्यर्थं भूतशुध्द्यादिकं करिष्ये ॥ आदौ मूलेन करशुद्धिं कृत्वा ॥ मूलं श्रीलक्ष्मीनृसिंह मां रक्ष स्वह्रदये पूजांजलिं दत्वा ॥ आत्मरक्षां विधाय । हूमिति मूलाधारात्कुण्डलिनीं उत्थाप्य जीवात्मनि संयोज्य परमात्मानि विलापयेत्॥ ततः पादादि जानुपर्यन्तं चतुरस्त्रं सवज्रं लं बीजं पीतवर्णं यदिन्द्रियं गमनविषयं प्राणेंद्रियं गन्धगुणं ब्रह्मेद्रेशं निवृत्तिकालं समानवायुं गन्तव्यदेशं भूमण्डले विचिन्त्य पृथ्वीमप्सु प्रविणलापयामि इति विलापयेत्॥ जान्वादि नाभिपर्यन्तं चन्द्रार्कनिभं पद्मद्वयाकितं वं बीजं श्वेतवर्णं हस्तेन्द्रियं ग्राह्य ग्रहणाविषयं रसनेन्द्रेयं रसगुणं चिद्विशं प्रतिष्ठाकलं उदानवायुं जलमण्डलं विचिन्त्यलं अप्सु वह्रौ प्रविलापयामि इति विलापयेत्॥ नाभ्यादिह्रदयप्रर्यन्तं त्रिकोणाकांर स्वस्तिकांकित रं बीजं रक्तवर्णं पृथ्वीन्द्रियं विसर्जविसर्गविषयं चक्षुरिन्द्रियं रुपगुणं शिवेशाविद्याकलं व्यासवायुवन्हिमण्डले विचिंत्य वन्हिं वायौ प्रविलापयामीति विलापयेत्॥ ह्रद्दि भ्रूमध्यपर्यन्तं वृत्ताकारं षड्बिंदुलांछितं यं बीजं ध्रूमाभां मुद्रियस्थितमानस्दविषयं त्वगेन्दियं स्पर्शात्सगुणमीशानं शशांक तिकलमपानवायुं नभस्वमण्डलं विचिन्त्य वायुं नभसि विलापयामीति विलापयेत्॥ भ्रूमध्यादिब्रह्मन्ध्रान्तं वृत्ताकारं स्वच्छवर्णं ध्वजलांछितं हं बीजं वागिन्दियं सवदंन शब्दविषयं श्रोत्रेन्द्रियं शब्दविषयं श्रोत्रेन्द्रियं शब्दगुणं सदाशिवेशशान्त्यतीतकलं प्रणवायु आकाशमण्डलं विचिन्त्य आकाशमहंकारे प्रविलापयामीति विलापयेत्॥ अहंकारमहत्तत्वे विलापयेत्महत्तत्वं प्रकृतौ प्रविलापयामि विलापयेत्। प्रकृतिमायां परेब्रह्मणि प्रविलापयामीति विलापयेत्। इति क्रमेण भूतानि विलीनानि विभाव्य । वामकुक्षौ पापपुरुंषं ध्यायेत्। ब्रह्महत्यशिरस्कं च स्वर्णस्तेयभुजद्वयम् । सुरापानह्रदायुक्तं गुरुतल्पकटिद्वयम॥ तत्संयोगादद्वन्व्दभंगप्रत्यंगपातके । उपपातकरोमाणं रक्तमश्रुविलोचनम् ॥ अचेतनमधोवक्त्रं दग्धपादोपशोभितम् । अधोमुखं त्रिनयंन कुक्षौ पापं विचिन्तयेत्॥ तोयमिति प्राणायात्रयं कृत्वा षोडषवारं जपन्वामनासया वाममापूर्य ॥ पापदेहं विशोष्य रमिति चतुर्दशवारं कुम्भकयोगेन संजप्य ॥ तमसान्तं सन्दह्य नापूर्ज्य बीजाम् द्वात्रिम्शद्वार्म जपन् दक्षिणनासापुटे न तद् भस्म रेचयेत्। ततो वमिति बीजं जपन्ललाटस्थ चन्द्रान्मातृकावर्णमयीममृतवृष्टीं नित्यानित्यपापपुरुष भस्माल्पव्यन्यासक्रमेणाववद निष्पाद्य लमिति जपेन तद् भस्म कठिनीकृत्य परमात्मनः प्रकृतिः ततोऽहंकारः तस्मात्आकाशं तस्मात्वायुः तस्मादग्निः तस्मादापः तेभ्यः पृथिवीति भूतानि यथास्थानं संस्थानं संस्थाप्य सोऽहं मन्त्रेण ह्रदानीय कुण्डलिनी यथा यथा स्थानं प्रपद्यात्मानं प्रयचोत्तीर्णं भावयेत्इति योगाभावे भावनायाः भूतशुद्धिः ॥ अथ प्राणप्रतिष्ठा ॥ अस्य श्री प्राणप्रतिष्ठा मन्त्रस्य । ब्रह्माविष्णुशिवेभ्यो ऋषिभ्यो नमः शिरसि ॥ ऋग्ययुसामानिछन्देभ्यो नमः मुखे ॥ प्राणशक्तिदेवतायै नमः नाभौ ॥ मम समस्त पापक्षयद्वारेण श्री लक्ष्मीनृसिंहमन्त्रांगत्वेन प्राणप्रतिष्ठापने विनियोगः । इति ऋष्यादिन्यासः ॥ अथ षडंगंन्यासः ॥ ॐ ऐं र्हीं श्रीं आं र्हीं क्रों भ्रं ङ् कं खं गं घं आं आकाशं वायुतेजोजलभूम्यांमात्मने अंगुष्ठाभ्यां नमः ॥ ॐ इं ज् चं छं जं झं ई शब्दस्पर्शरुपरसगन्धात्मने तर्जनीभ्यां नमः ॥ ॐ उं टं ठं डं ढं णं ऊं श्रोत्रत्वग्जिव्हा घ्राणप्राणात्मने मध्यमाभ्यां नमः ॥ एवं तं थं दं धं नं ऐं वाक्पाणिपादपायूपस्थानात्मने अनामिकाभ्यां नमः ॥ ॐ पं फं बं भं मं औं वचनादानविसर्गनन्दात्मने कनिष्ठिकाभ्या नमः ॥ ॐ अं शं यं रं लं वं षं क्षं सं हं ळं अ मनोबुद्धिरहंकार चित्तचैतन्यात्मने करतल्करपृष्ठाभ्यां नमः ॥ एवं ह्रदयादिन्यासः । श्रां नमः नाभादि आपादान्तम् । र्हीं नमः ह्रदयादि नाभ्यान्तम् । क्रौं नमः मस्तकादि ह्रदयान्तम् । यं त्वगात्मने नमः । रं अस्त्रगात्मने नमः । लं मांसात्मने नमः । वं मेदात्मने नमः । शं अस्थ्यात्मने नमः । षं मज्जात्मने नमः । सं शुक्रात्मने नमः । र्हों अर्जआत्मने नमः । हं प्राणात्मने नमः । सं जीवात्मने नमः । इति ह्रदये ॥ अथ ध्यानम् । रक्तोदधिरस्थपोतस्य रक्तद्मासनस्थिताम् । पाशचापकपालानि बाणशूलांकुशां करैः ॥१॥स विभ्रती रक्तवर्णां देवीं त्रिनयनान्विताम् । नवतारुण्यगर्वाढ्यां प्राणशक्तिमहं भजे ॥२॥इतिध्यात्वा ॥ ह्रदये हस्तं द्त्वा ॥ ॐ आं र्हीं क्रों यं रं लं वं शं षं सं हं ळं क्षं ॐ र्हां हंसः मम प्राणे इह प्राणाः ॥ पुनर्बीजमुच्चार्य ॥ मम जीव इह स्थितः ॥ पुनः बीजमुच्चार्य । मम सर्वोन्द्रियाणि । मम वाङ्मन्श्चक्षुश्रोत्रघ्राणपाणिपादौपस्थ सर्वे प्राणाः इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा ॥ ॐ क्षं सं हंसः र्हां ॐ ॥ इति प्राणप्रतिष्ठा॥ गर्भाधानादि पंचदश संस्कारसिध्यर्थं पंचदशप्रणवावृत्तिं करिष्ये ॥१५॥षोडशवारं प्रणवं जप्त्वा ॥ अथान्तर्मातृकान्यासः ॥ॐ ॥ अस्ये श्री अन्तर्मातृका मन्त्रस्य ब्रह्मणे ऋषये नमः ॥ शिरसि । गायत्री छन्दसे नमः । मुखे । मातृका सरस्वती देवतायै नमः । ह्रदये । हलूभ्यो बीजेभ्यो नमः । गुह्ये । स्वरेभ्यो शक्तिभ्यो नमः । पादयोः । अव्यक्तकीलकाय नमः । सर्वांगे । मम समस्तपापक्षयद्वारा श्रीलक्ष्मीनृसिंहमन्त्रांगत्वेनान्तर्मातृकान्यासे विनियोगः ॥इति । ऋश्यादिन्यासः ॥ अथ षडंगन्यासः ॥ ॐ अं कं ४ श्रां अंगुष्ठाभ्यां नमः ॐ इं चं ४ ईं तर्जनीभ्यां नमः ॐ डं टं ४ ऊं मध्यमाभ्यां नमः ॐ एं तं ४ ऐं अनामिकाभ्यां नमः ॐ ओं पं फं ४ औं कनिष्ठिकाभ्यां नमः ॐ यं ९ अं करतलकरपृष्ठाभ्यां नमः ॥ एवं ह्रदयादिन्यासः । अथध्यानम् । मूलाधारध्वर्नि श्रुत्वा प्रबुद्धा शक्ति कुण्डलि । ज्वलत्पावकसंकाशा सूक्ष्मतेजस्वरुपिणी ॥१॥ निर्गतान्मातृकावर्णान् ॥ मूलाधाराच्छरः पद्मं स्पृशन्ती वियदाकृतिः ॥ तया स्पृष्टं शिरपद्मात्अमृतौघस्वरुपिणी ॥ निर्गतान्मातृकावर्णान् सुषुम्नावर्त्मना तनुअम् ॥३॥ व्यापयित्वा स्थितान्वाणीन् एवं ध्यात्वा प्रविन्यसेत्॥ इति ध्यात्वा कण्ठे विशुद्धौ षोडशदलकमलमध्यें मुखं ध्यात्वा तद्दलेषु प्रादक्षिण्येन अं नम इति सर्वत्र ॥ अं आं इं ईं उं ऊं ऋं ऋं लृं ए ऐं ॐ औं अं अ १६ इति विन्यस्य ॥ ह्रदये अनाहतद्वादशकमले तथैव काऽपि॥ कं खं ठं तान्तान् । मणिपुरे नाभिस्थाने दशदले कमले ॥ उं ढं इत्यादि फं तान् लिंगमूले स्वाधिष्ठाने षडदले बादिलान्तात्॥ मूलाप्यादे चतुर्दले कमले वादिसान्तान् ॥ आज्ञाचक्रे द्विदले हं क्षं ॥ इति विन्यस्य हंसौ । आदिक्षेन्तान्नुच्चार्य पुनः हंसौः इत्यच्चार्च्य व्यापकं कुर्यादित्यन्तर्मातृकान्यासः ॥ अथ बहिर्मातृकान्यासः ॥ प्रतिन्यासे करशुद्धिरिति साम्प्रदायिकः ॥ अस्य श्री बहिर्मातृकामन्त्रस्य ऋष्यादि षडंगं प्राग्वत् ॥ बहिर्मातृकादेवतेतिविशेषः ॥ मम समस्तपापक्षय्द्वारा श्रीनृसिंहमन्त्रांगत्वेन बहिर्मातुकान्यासः ॥ ध्याने विशेषः॥ N/A References : N/A Last Updated : March 24, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP