द्वितीयपरिच्छेदः - परिच्छेदः ६
श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।
पुनरन्यदत्र विचार्यते किं संयोगश्र्चाणोरण्वंतरेण सर्वात्मना
वा स्यादेकदेशेन वा स्यात् सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसंगो
दृष्टविपर्ययश्र्चप्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यांतरेण संयोगस्य दृष्टत्वात् एकदेशेन
चेत् सावयवत्वप्रसंगादनित्यत्वमापद्येत यदि चोच्येत कल्पिताः परमाणूनां प्रदेशास्तर्हि कल्पिताः
परमाणूंना प्रदेशास्तर्हि कल्पितानामवस्तुत्वादवस्त्वेव संयोग
इति न तस्यासमवायिकारणत्वं स्यात् तथा च द्य्वणु कादिकार्योत्पत्तिस्तस्मादनुपपन्नोपरमाणुकारणतावादः
पुरश्र्चायमत्र दोषः तथाहि पुराणे स्मर्यते "आकाशः शब्दमात्रं हि स्पर्शमात्रं समाविशत् ।
द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मको भवेत् ॥१॥
रूपं तथैवाविशतः शब्दस्पर्शगुणावुभौ ॥
त्रिगुणस्तु ततो वह्निः सशब्दस्पर्शवान्भवेत् ॥२॥
शब्दः स्पर्शश्र्च रूपं च रसमात्रं समाविशत् ॥
तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥३॥
शब्दः स्पर्शश्र्च रूपं च रसश्र्चेद्रंधमाविशत्। संहतान्गंधमात्रेण तानाचष्टे महीमिमाम् ॥४॥
तस्मात्पंचगुणा भूमिः स्थूला भूतेषु दृश्यते।
परस्परानुप्रवेशाद्धारयंति परस्परम् ।"
इत्यागमबलात्परस्परं संहन्यमाना गंधादयः पृथिव्यादयः यथायथा संहन्यमानानामुपचयस्तथातथा
संहतस्य स्थौल्यं यथायथापचयस्तथातया सौक्ष्म्यमित्यनुभवागमाभ्यामवस्थितोर्थोऽनिच्छद्भिरपि
वैशेषिकैरभ्युपगंतव्यः तथा च वैशेषिकैः शब्दस्य पृथिवीगुणत्वानंगीकारात् गंधरसरूपस्पर्शगुणा
पृथिवी स्थूला रूपस्पर्शरसगुणाः सूक्ष्मा आपः रूपस्पर्शगुणं सूक्ष्मतरं तेजः स्पर्शगुणो
वायुः सूक्ष्मतमः तद्वत्परमाणवो व्युपचितापचितगुणाः कल्प्येरन्न वा उभयथा च
दोषानुषंगः तथा च पारमर्षं सूत्रं ‘उभयथा च दोषात्’ इति अत्र पार्थिवपरमाणुरधिकगुणः
तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्पनमाद्यपक्षः तदंगीकारे उपचित
गुणानां स्थौल्यादपरमाणुत्वप्रसंगः मूर्त्यपचयमंतरेण गुणापचयो भवतीति
वक्तुं न शक्यं कार्यभूतेषु गुणोपचय एव मूर्त्युपचयो दृश्यते ।
उपचितापचितगुणत्वं न कल्प्यते इति द्वितीयपक्षे परमाणुत्वसाम्यप्रसिद्धये
यदि तावत्सर्वे एकैकगुणाः कल्प्यंते तदा तेजसि स्पर्शोलपब्धिर्न स्यात् अप्सु
च रूपस्पर्शयोः पृथिव्यांच रूपस्पर्शरसानां कारणगुणपूर्वकत्वं हि कार्यगुणानां
अथ सर्वेपि चतुर्गुणाः कल्प्यंते तदा अप्स्वपि गंधोपलब्धिः स्यात् तेजसि गंधरसयोः
वायौ गंधरूपरसानां न चैतादृशो लोकानुभव इत्युभयथापि दोषात परमाणुकारणतावाद अनुपपन्नः ।
अयमश्रौतः परमाणुकारणतावादो न कैश्र्चिदपि शिष्टैः केनचिदंशेनापि परिगृहीत
इत्यत्यंतमनादरणीय एव वेदनिष्ठाद्भिर्मुमुक्षुभिरित्यलं पल्लवितेनेति शिवम् ॥
परमाणुकारणविवादमतं परास्तम् । वेदान्तशास्त्रमकरन्दगतद्वितीये ॥
वादप्रसङ्गदुरतिक्रमविक्रमाद्याः । नैय्यायिकादिजटिलाः कुटिलाश्र्च तेषाम् ॥१॥
इति श्रीमत्परमहंसपरिव्राजकाचार्ययोगीन्द्रवर्यआत्मानन्दसरस्वतीस्वामिभिर्विरचितो
"वेदान्तशास्त्रमकरन्दे" परमाणुकारणतावादनिरासपरो द्वितीयपरिच्छेदः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP