द्वितीयपरिच्छेदः - परिच्छेदः ५
श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।
उत्पत्तिश्रुत्या नित्यत्वबाधनिश्र्चयात् विभुत्वस्यापि कार्यापेक्षितत्वात्
परमाणूनामल्पानामनित्यत्वस्य ब्रह्मणोपि दुरुद्धरत्वात् परमाणूनां जन्यतया
यज्जन्यं तदनित्यमिति न्यायेनानित्यत्वम् अव्याप्यत्वात्परमाणूनां कुतो
विभुत्वम् आकाशादीनांविभुत्वेनाभिमतानामुत्पत्तिं श्रुतिराह "तस्माद्वा
एतस्मादात्मन आकाशः संभूतः" इत्यादिउदाहृतशास्त्रविरोधात् न परमाणूंना
नित्यत्वमिति आत्मसाम्यानवकाशः तार्किकाभिमतम् आत्मनो द्रव्यत्वं सर्वथा
श्रुत्यनुभवविरोधादसंगतमेव नायमात्मा द्रव्य इति सिद्धं नैय्यायिकानां मते
अनित्या कार्यरूपा नित्या परमाणुरूपा तत्र परमाणूनां नित्यत्वं खंडितमेव यच्च कार्यं
तत्समवाय्यसमवायिनिमित्तेतिकारणत्रितयजन्यं तादृशकारणत्रितयजन्यत्वं नात्मनः
अनादित्वात् तस्मादात्मा न कार्यमिति नित्य एवात्मेति सिद्धम् ।
नैय्यायिकानां समवाय्यसमवायिकारणपरिभाषापि वेदबाहिर्भूतत्वादप्रामाणिकी ।
कुतस्तर्हि कार्योत्पत्तिरिति चेत् उपादाननिमित्तकारणाभ्यामिति निरूपयिष्यामः ॥
समवायस्याप्यसंभवो वक्ष्यते । परमाणूनाम् उत्पत्तिविनाशशालित्वे कुतः ब्रह्मणोपि तन्न स्यात् ।
तस्यापि कारणमित्यनवस्था स्यादिति ब्रह्मणो नोत्पादविनाशशालित्वमिति ब्रह्मणो
नित्यत्वं शतशः श्रुतयः प्रब्रुवन्ति वेदांतसिद्धांते ब्रह्मभिन्नस्य प्रपंचस्यात्यताभावप्रीतयोगित्वेनानित्यत्वं
"योवै भूमा तदमृतम् अतोन्यदार्तं" इत्यादिश्रुतयोनुसन्धेयाः वैशेषिकमते परमाणुकारणतावादो
अज्ञानकारणतावादप्रतिपक्षित्वेनोपन्यस्यते स किं मानमूलो वा भ्रान्तिमूलो वेति सन्देहे मानमूल
इति पूर्वपक्षे भ्रांतिमूल एवेति सिद्धांतः परमाणुकारणतायाः सर्वप्रमाणबहिर्भूतत्वात् किंच वैशेषिकाः
खलु सृष्टेः पूर्वं निश्र्चलयोः परमाण्वोः क्रियया संयोगे द्य्वणुकाद्युत्पत्तिं वदन्ति तत्र ते प्रष्टव्या भवंति
कर्मणः किञ्चिन्निमित्तमभ्युपगम्यते न वा आद्ये कर्मनिमित्तत्वेन प्रसिद्धजीवप्रयत्नव्याघातादिकमंगीकर्तव्यं
तन्न संभवति सृष्ट्युत्तरकालीनत्वात्तस्य द्वितीये कर्मानुत्पत्तिः ‘अत उभयथापि न कर्म’ अतः कर्माभावात्तदभावः
द्य्वणुकादिक्रमेण सृष्ट्युत्पादाभाव इत्यर्थः ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP