द्वितीयपरिच्छेदः - परिच्छेदः १
श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।
वादे निरस्य निखिलप्रतिकूलपक्षं वेदान्तसंततिलतेतरतारतम्यैः ॥
मोहान्धकारमलिनान्विमलीकरोतु वेदान्तशास्त्रमकरन्दमुपाकरिष्ये ॥१॥
सरस्वतीं प्रणम्यादौ सर्व वाक्यार्थ सिद्धये ।
वेदान्तार्थमकरन्दंकुर्वे कालव्यतिक्रमे ॥१॥
तत्रादौ परमाणुवादपटवो जल्पंति सवैश्र्वरे ।
साम्यं तस्य करोतिकश्र्चनजनो व्याप्यश्र्चसूक्ष्मश्र्चसः॥
आत्मत्वं किमिदं श्रुतेरधिगते तात्पर्यभानोदये ।
आत्मत्वं परमाणुता यदि भवेन्मोक्षस्यकावागतिः ॥
भवेदेवंयदिनिगमागमशब्दार्थप्रातिपदिकत्वेपरमाणूनां स्वरूपे प्रामाण्यं स्यात् नैवमस्ति
परमाणुपरिभाषाया वेदप्रमाणागोचरत्वात् अथ चोपगम्यते
"एषोऽणुरात्मा- "वालाग्रशतभागस्य शतधा कल्पितस्य च ॥
जीवो भागः स विज्ञेयः" इत्यादिश्रुत्यथोपातदृष्टिबलादात्मनोऽणुत्वं तदा रूपवत्तया
चाक्षुषप्रत्यक्षविषयत्वमेकदेशित्वमल्पज्ञ-त्वंमंशित्वामित्यनर्थपरंपरा स्यात् तथाच
श्रुति शास्त्रविरोधेन परमाण्वात्मवादः कारणत्वधर्मेण साम्यतावादश्र्चाप्रामाणिकः
कश्र्च स इति चेत् द्रव्यगुणकर्मसामान्यविशेषसमवायात्मषट्पदार्थवादो वैशेषिकः
नैय्यायिकानामप्यविरुद्धो हेयत्वार्थः ।
तत्र गुणादयो द्रव्यपरतंत्राः भावकार्यं हि सर्वं समवाय्य समवायिनिमित्ताख्यकारणत्रयजन्यं
तत्र द्रव्यमेव समवायिकारणं द्रव्याणि तु पृथिव्यादिमनः पर्यंतानि नवैव तत्रापि
पृथिव्यादिचतुष्टयानां परमाणव आकाशादिपंचकं च नित्यं परमाणुभ्यो द्य्वणुकादिमुत्पद्यते
इतश्र्च द्य्वणुकादिब्रह्माण्डान्तं सर्वं कार्यजातमनित्यम् अवयवसमवेतत्वात्
अपकृष्टमहत्परिमाणतारतम्यस्य परमहतिगगनादौ विश्रांतत्त्ववदणुपरिमाणतारतम्यस्य
क्वचिद्विश्रांतिर्वाच्या यत्र च विश्रामः स परमाणुरिति वादिमतसिद्धांतगर्भः
नचाणुपरिमाणतारतम्यस्य जालसूर्यमरीचिस्थरजसि त्रसरेणौ विश्रांतिरस्त्विति वाच्यं तस्य
चाक्षुषद्रव्यत्वेन सावयवत्वानुमानेन तदवयवद्य्वणुकसिद्धौ चाक्षुषद्रव्यारंभकत्वेन द्वयणुकस्यापि
सावयवत्वसिद्ध्य़ापरमाणुसिद्धिः तस्यापि सावयवत्वेऽनवस्थाप्रसङ्गः स च नेष्टः
अनंतावयवारब्धत्वाविशेषेणमेरुसर्षपयोः साम्यत्वप्रसंगात् परमाणुर्निरवयवोभ्युपगन्तव्यः
स च समवाय्यसमवयिकारणानिरूपणादनादिः विनाशकारणाभावान्नित्यः
एवमाकाशादीनामपि सर्वत्र कायार्पेलब्ध्या विभुत्वेन निरव
यवद्रव्यतयोत्पत्तिविनाशकारणाभावादुत्पत्तिविनाशशून्यत्वं यतो
ह्यवयवेष्वेवावयविन उत्पत्तिरवयवनाशादवयवविध्वंसः निरवयव त्वान्नोत्पतिविनाशौ संभवत
इति पृथिव्यादिचतुष्टयस्य परमाणूनामाकाशादि पंचकस्य च नित्यत्वमभ्युपेयते तार्किकैः
नचोत्पत्तिश्रुतेराकाशादेः कथमनादित्वमित्याशंकनीयं " वायुश्र्चांतरिक्षं वै तदमृतम्"
इत्यादिप्रमाणांतरविरोधेनोत्पत्तिश्रुतेर्गौणत्वा भ्युपगमात् तथाच पारमर्ष सूत्रं ‘गौण्यसंभवात्’ इति पुनरत्रेदं चिंत्यते
शक्तिसादृश्यादीनामतिरिक्तपदार्थानां विद्यमानत्वेन कथं षडेव पदार्था उच्यंते नच
शक्तिसादृश्याद्यतिरिक्तपदार्थसत्त्वे मानाभाव इत्याशंकनीयं करतलानलसंयोगे सति
मण्यादिसमवधाने दाहानुत्पत्त्या तदपनये च दाहोत्पत्त्या वह्नौ दाहानुकूलशक्तेरुत्पत्तिविनाशशालिन्या
अवश्यम भ्युपगंतव्य त्वात् नच प्रतिबंधकाभावाभावान्न तत्र दाहोत्पत्तिःमण्यादीनां हि
दाहोत्पत्तिप्रतिबंधकत्व सार्वजनीनं प्रतिबंधकत्वं हि कार्यानुत्पाद प्रयोजकत्वं तथाच
प्रतिबंधकसंसर्गाभावस्य कार्यमात्रं प्रतिजनकत्वान्न शक्तिकल्पनावश्यकत्वामिति वाच्य
तदन्वयव्यतिरेकयोः कार्यानुत्पादस्य अग्निमसमयसम्बन्धसंपादकत्वेनान्यथासिद्धत्त्वात्
व्यापारेणं व्यापरिणोऽन्यथासिद्धत्वनियमात् "कथमसतः सज्जाये तेति" श्रुत्या नासतोदृष्टत्वात्"
इतिन्यायेन चाभावकारणत्वस्य निराकरणाच्च कारणे
कार्यानुकूला शक्तिरवश्यमभ्युपेया एवं सादृश्यमप्यतिरिक्तः पदार्थः
सामान्यवृत्तित्वे सति सामान्येतरवृत्तित्वात् अन्यच्च परमाणूनां
प्रवृत्तिस्वभावत्वे प्रवृत्तेर्नित्यमेव भावात् प्रलयाभावप्रसंगः ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP