वास्तुशांतिः - अध्याय १३

वास्तुशांति पूजा म्हणजे फक्त वास्तुपुरूषाची पूजाच नसून वास्तु बांधताना नकळत घडलेल्या पापांचे प्रायश्चित्त .


वीकाख्यशार्दूलविनिर्मितंयतोलोकेबिकानेरइतिप्रथांगतः ।

तदंतरेलेखपुरोपमेपुरे श्रीरत्नदुर्गेनृपदुर्गमेशुभे ॥१॥

आसीद्वसिष्ठान्वयगौडविप्रो माध्यंदिनीयोबुधजीवराजः ॥

विवृध्दमानोविदुषांसमाजेसुज्ञैर्नरैः सर्वसमृध्दिभाजः ॥२।

तस्यात्मजाबाणमितास्तुसद्गुणाः सुवेदविद्याध्ययनेचनैपुणाः ।

आयातयातद्विजलशुध्दचाङ्गणावीर्येणसंताडितवैरिसंगणाः ॥३॥

पंचेषुमध्येगुरुरामकृष्णोज्ञानेनस्वल्पीकृतसर्वतृष्णः ॥

स्वबुध्दितःखंडितवैरिप्रश्नः सुभक्तिसंतर्पितदेवकृष्णः ॥४॥

तस्याभवन्राममिताःसुपुत्राःस्वधर्मयामिस्वकलत्रमित्राः ।

गृहेषुसंलेखितरम्यचित्राःश्रीकान्तपूजानिरताःपवित्राः ॥५॥

इमानिनामानिभवंतितेषां चतुर्भुजाख्योविबुधोहिज्येष्ठः ।

कस्तूरिचंद्राभिधसज्जनोऽपरोऽगुणैर्मण्डितज्येष्ठरामः ॥६॥

तत्रस्थितामध्यमपङ्क्तिपादेकस्तूरिचन्द्राख्यमहत्सुशीलाः ॥

तेषांसुपुत्रावनवद्यवंद्यविद्यान्वितौद्वौनितरामभूताम ॥७॥

सचतुर्थिलालाह्वयगीष्पतिमुखौसुज्ञौगुणेनार्दितदुष्टदर्पौ ॥

तत्रापिज्येष्ठेनमयाचतुर्थीलालेनग्रंथःसमकारिशांतिदः ॥८॥

बाणभूताङ्कचंद्रेब्दे १९५५ विक्रमादित्यसंज्ञ्के ॥

तपसेशुक्लपंचम्यांग्रंथःपूर्णोऽभवच्छुभः ॥९॥

इति श्रीवीकानेरविषयान्तर्गतश्रीरत्नगढनगरनिवासिना श्रीवसिष्ठकुलिद्भवेन श्रीरामकृष्णपौत्रेण श्रीकस्तूरीचंद्रसूनुना श्रीमहादेवभक्तगौडपंडितश्रीचतुर्थीलाल ( चौथमल ) शर्मणा विरचिते चातुर्थीलालभास्करे महानिबंधे शांतिविधायके पंचमे प्रकाशे वास्तुशांतिकथनं नाम तृतीयं प्रकरणम ॥३॥

॥समाप्तोऽयं वास्तुशांतिप्रयोगो ग्रंथः ॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP