ततोगङ्गाद्यावाहनम ।
सर्वेसमुद्राः सरितस्तीर्थनिजलदानदाः ।
आयांतुममशांत्यर्थं दुरितक्षयकारकाः ॥१॥
ततः - कलशस्यमुखेविष्णुः कंठेरुद्रःसमाश्रितः । मूलेतस्यस्थितोब्रह्मामध्येमातृगणाः स्मृताः ॥१॥
कुक्षौतुसागराः सर्वेसप्तद्वीपावसुंधरा ।
ऋग्वेदोथयजुर्वेदः सामवेदोप्यथर्वणः ॥२॥
अंगैश्चसहिताः सर्वेकलशं तु समाश्रिताः ।
इत्यभिमंत्र्य ।
देवदानवसंवादेमथ्यमानेमहोदधौ ॥३॥
उत्पन्नो सितदाकुंभविधृतोविष्णुना स्वयम ।
त्वत्तोये सर्वतीर्थानिदेवाःसर्वेत्वयिस्थिताः ॥४॥
त्वयितिष्ठंतिभूतानि त्वयिप्राणाः प्रतिष्ठिताः ।
शिवः स्वयंत्वमेवासिविष्णुस्त्वंचप्रजापतिः ॥५॥
आदित्यावसवोरुद्राविश्वेदेवाः सपैतृकाः ॥
त्वयितिष्ठंति सर्वेपियतः कामफलप्रदाः ॥६॥
त्वत्प्रसादादिमंयज्ञंकर्तुमीहेजलोद्भव ।
सान्निध्यंकुरुमेदेवप्रसन्नोभवसर्वदा॥७॥
इति कलशंप्रार्थ्यतस्योपरिसुवर्णमयीं कृकलासाकारस्वरूपां वास्तुप्रतिमामग्न्युत्तारणपूर्वकंसन्निधय
पट्टवस्त्रैराच्छाद्यततस्तंसकलदेवाधिष्ठितावयवमधोमुखमीशानकोण
शिरसंनैऋत्यकोणस्थितपादं च यथाकारंवास्तुपुरुषंध्यायेत ।
अग्न्युत्तारणमंत्राः प्राणप्रतिष्ठामंत्रास्तु पूर्वमुक्ताः । ततः ।
वास्तोष्पतेइतिमंत्रस्यवसिष्ठऋषि स्त्रिष्टुपूछंदोवास्तुदेवतावृषवास्तुस्थापनेविनियोगः ।
ॐ वास्तोष्पतेप्रतिजानी ह्यस्मान्त्स्वावेशोऽअनमीवोभवानः ।
यत्त्वेमहेप्रतितन्नोजुषस्वशन्नोभवद्विपदेशञ्चतुष्पदे१ ॐ भूर्भुवःस्वः भोवास्तुपुरुष महाबलपराक्रम
सर्वदेवश्रितशरीरब्रह्म पुत्रसकलब्रह्माण्डधारिन न भगवन्निहागच्छइहतिष्ठ ।
आगच्छभगवन्वास्तोसर्वदेवैरधिष्ठित ।