त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य -
ज्ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।
त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वपरं तत्तु सर्वं
प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥१॥
त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टस्त्वदर्थं
त्वद्भक्तेैः सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् ।
दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान -
स्पर्द्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥२॥
त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं
कुर्वन्नेकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् ।
त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणाश -
स्तस्मात् सर्वात्मनैव प्रदिश मम विभो भक्तिमार्ग मनोज्ञम् ॥३॥
तं चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु -
र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायैव दुग्धम् ।
मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः
सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥४॥
मार्कण्डेयश्र्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा -
तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि ।
देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्
योगोष्मलुष्यमाणैर्न तु पुनरशकत् त्वज्जनं निर्जयेत् कः ॥५॥
प्रीत्या नारायणाख्यस्त्वमथ नरसख प्राप्तवानस्य पार्श्र्वं
तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने ।
द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा
मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्र्चर्यहेतोः ॥६॥
याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्णत् -
सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटीः ।
दीनः प्रैक्षिष्ट दूरे वटदलशयनं कंचिदाश्र्चर्यबालं
त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥७॥
दृष्ट्वा त्वां हृष्टरोमा त्वरितमुपगतः स्प्रष्टुकामो मुनीन्द्रः
श्र्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् ।
भूयोऽपि श्र्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै -
र्मोदादश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमें प्राग्वदासीत् ॥८॥
गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी
सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् ।
एवं त्वत्सेवयैव स्मररिपुरपि स प्रियते येन तस्मा -
न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥९॥
त्र्यंशेऽस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं
तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः ।
तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी
सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥१०॥
॥ इत्युत्तमभक्तिप्रार्थनामार्कण्डेयोपाख्यानं च सप्तनवतितमदशकं समाप्तम् ॥