शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा ।
वाच्यार्थं ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥७०९॥
समष्टिरूपमज्ञानं सामासं सत्त्वबृंहितम् ।
वियददिविराडन्तं स्वकार्येण समन्वितम् ॥७१०॥
चैतन्यं तदवच्छिन्नं सत्यज्ञानादिलक्षणम् ।
सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥७११॥
जगत्स्रष्टृत्वपातृत्वसंहतृर्त्वादिधर्मकम् ।
सर्वात्मना भासमानं यदमेयं गुणैश्च तत् ॥७१२॥
अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते ।
नीलमुत्पलमित्यत्र यथा वाक्यार्थसंगतिः ॥७१३॥
तथा तात्वमसीत्यत्र नास्ति वाक्यार्थसंगतिः ।
पटाद्व्यावर्तते नील उत्पलेन विशेषितः ॥७१४॥
शौक्ल्याद्व्यावर्तते नीलेनोत्पलं तु विशेषितम् ।
इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥७१५॥
विशेषणविशेष्यत्वं संसर्गस्येतरस्य वा ।
वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥७१६॥
अतः संगच्छते सम्यग्वाक्यार्थो बाधवर्जितः ।
एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥७१७॥
तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि ।
त्वमर्थस्यापरोक्षत्वादिविशिष्टचित्तेरपि ॥७१८॥
तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः ।
विशेषणविशेषस्य संसर्गस्येतरस्य वा ॥७१९॥
वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः ।
संगच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ॥७२०॥
सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः ।
सर्वोत्तमः सत्यकामः सत्यसंकल्प ईश्वरः ॥७२१॥
तत्पदार्थस्त्वमर्थस्तु किंचिज्ज्ञो दुःखजीवनः ।
संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥७२२॥
कथमेकत्वमनयोर्घटते विपरीतयोः ।
प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥७२३॥
विरुद्धधर्माक्रान्तत्वात्परस्परविलक्षणौ ।
जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥७२४॥
प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते ।
श्रुतिवचनविरोधो भवति महान्स्मृतिवचनविरोधश्च ॥७२५॥
श्रुत्यापेकत्वमनयोस्तात्पर्येण निगद्यते ।
मुहुस्तत्त्वमसीत्यस्मादङ्गीकार्यं श्रुतेर्वचः ॥७२६॥
वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः ।
अयथार्थतया सोऽयं वाक्यार्थो न मतः श्रुतेः ॥७२७॥
अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसंमतः ।
स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनः पुनः ॥७२८॥
दर्शयित्वा सुषुप्तौ तद्ब्रह्माभिन्नत्वमात्मनः ।
उपपाद्य सदैकत्वं प्रदर्शयितुमिच्छया ॥७२९॥
ऐतदात्म्यमिदं सर्वमित्युक्तैव सदात्मनोः ।
ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ॥७३०॥
सति प्रपञ्चे जीवे वाद्वैतत्वं ब्रह्मणः कुतः ।
अतस्तयोरखण्डत्वमेकत्वं श्रुतिसंमतम् ॥७३१॥
विरुद्धांशपरित्यागात्प्रत्यक्षादिर्न बाधते ।
अविरुद्धांशग्रहणान्न श्रुत्यापि विरुध्यते ॥७३२॥