सत्त्वं चित्तं तथानन्दस्वरूपं परमात्मनः ।
निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥६७३॥
विशेषणं तु व्यावृत्तयै भवेद्द्र्व्यान्तरे सति ।
परमात्माद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥६७४॥
वस्त्वन्तरस्याभावेन न व्यावृत्त्यः कदाचन ।
केवलो निर्गुणस्चेति निर्गुणत्वं निरुच्यते ॥६७५॥
श्रुतैव न ततस्तेषां गुणत्वमुपपद्यते ।
उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥६७६॥
सत्त्वचित्त्वानन्दतादि स्वरूपमिति निश्चितम् ।
अत एव सजातीयविजातीयादिलक्षणः ॥६७७॥
भेदो न विद्यते वत्तुन्यद्वितीये परात्मनि ।
प्रपञ्चस्यापवादेन विजातीयकृता भिदा ॥६७८॥
नेष्यते तत्प्रकारं ते वक्ष्यामि श्रुणु सादरम् ।
अहेगुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥६७९॥
विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् ।
अपवाद इति प्राहुरद्वैतब्रह्मदर्शिनः ॥६८०॥
व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः ।
प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥६८१॥
चतुर्विधं स्थूलशरीरजातम्
तद्भोज्यमन्नादि तदाश्रयादि ।
ब्रह्माण्डमेतत्सकलं स्थविष्ठ -
मीक्षेत पञ्चीकृतभूतमात्रम् ॥६८२॥
यत्कार्यरूपेण यदीक्ष्यते त -
त्तन्मात्रमेवात्र विचार्यमाणे ।
मृत्कार्यभूतं कलशादि सम्य -
ग्विचारितं सन्न मृदो विभिद्यते ॥६८३॥
अन्तर्बहिश्चापि मृदेव दृश्यते
मृदो न भिन्नं कलशादि किंचन ।
ग्रीवादिमद्यत्कलशं तदित्थं
न वाच्यमेतच्च मृदेव नान्यत् ॥६८४॥
स्वरूपतस्तत्कलशादिनाम्ना
मृदेव मूढैरभिधीयते ततः ।
नाम्नो हि भेदो न तु वस्तुभेदः
प्रदृश्यते तत्र विचार्यमाणे ॥६८५॥
तस्माद्धि कार्यं न कदापि भिन्नम्
स्वकारणादस्ति यतस्ततोऽङ्गः ।
यद्भौतिकं सर्वमिदं तथैव
तद्भूतमात्रं न ततोऽपि भिन्नम् ॥६८६॥
तच्चापि पञ्चीकृतभूतजातं
शब्दादिभिः स्वस्वगुणैशच सार्धम्
वपूंषि सूक्ष्माणि च सर्वमेत -
द्भवत्यपञ्चीकृतभूतमात्रम् ॥६८७॥
तदप्यपञ्चीकृतभूतजातं
रजस्तमःसत्त्वगुणैश्च सार्धम् ।
अव्यक्तमात्रं भवति स्वरूपतः
साभासमव्यक्तमिदं स्वयं च ॥६८८॥
तदप्यपञ्चीकृतभूतजातं
रजस्तमःसत्त्वगुणैश्च सार्धम् ।
आधारभूतं यदखण्डमाद्यं
शुद्धं परं ब्रह्म सदैकरूपम् ।
सन्मात्रमेवास्त्यथ नो विकल्पः
सतः परं कवलमेव वस्तु ॥६८९॥
एकश्चन्द्रः सद्वितीयो यथा स्या -
द्दृष्टेर्दोषदेव पुंसस्तथैकम् ।
ब्रह्मास्तेतद्बुद्धिदोषेण नाना
दोषे नष्टे भाति वस्त्वेकमेव ॥६९०॥
रज्जोः स्वरूपाधिगमे न सर्पधी
रज्ज्वां विलीना तु यथा तथैव ।
ब्रह्मावगत्या तु जगत्प्रतीति -
स्तत्रैव लीना तु सह भ्रमेण ॥६९१॥
भ्रान्योदितद्वैतमतिप्रशान्त्या
सदैकमेवास्ति सदाद्वितीयम् ।
ततो विजतीयकृतोऽत्र भेदो
न विद्यते ब्रह्मणि निर्विकल्पे ॥६९२॥
यदास्त्युपाधिस्तदभिन्न आत्मा
तदा सजातीय इवावभाति ।
स्वप्नार्थतस्तस्य मृषात्मकत्वा -
त्तदप्रतीतौ स्वयमेष आत्मा ।
ब्रह्मैक्यतामेति पृथङ् न भाति
ततः सजातीयकृतो न भेदः ॥६९३॥
घटाभावे घटाकाशो महाकाशो यथा तथा ।
उपाध्यभावे त्वात्मैष स्वयं ब्रह्मैव केवलम् ॥६९४॥
पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि ।
नित्यपूर्णस्य नभसो विच्छेदः केन सिद्ध्यति ॥६९५॥
अच्छिन्नश्छिन्नवद्भाति पामराणां घटादिना ।
ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ॥६९६॥
तथैव परमं ब्रह्म महतां च महत्तमम् ।
परिच्छिन्नमिवाभाति भ्रान्त्या कल्पितवस्तुना ॥६९७॥
तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः ।
अत एव मुहुः श्रुत्यापेकत्वं प्रतिपाद्यते ॥६९८॥
ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये ।
प्रत्यक्षादिविरोधेन वाच्ययोर्नोपयुज्यते ।
तत्त्वंपदार्थयोरैक्यं लक्ष्ययोरेव सिद्ध्यति ॥६९९॥
शिष्यः -
स्यात्तत्त्वंपदयोः स्वामिनर्थः कतिविधो मतः ।
पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥७००॥
वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते ।
लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥७०१॥
एकत्वकथने का वा लक्षणात्रोररीकृता ।
एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥७०२॥