धनं भयनिबन्धनं सततदुःखसंवर्धनम्
प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनन् ।
विशिष्टगुणबाधनं कृपणधीसमाराधनम्
न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥७०॥
राज्ञोभयं चोरमयं प्रमादाद्भयं तथा ज्ञातिभयं च वस्तुतः ।
धनं भयग्रस्तमनर्थमूलं सतां नैव सुखाय कल्पते ॥७१॥
आर्जने रक्षणे दाने व्यये वापि च वस्तुतः ।
दुःखमेव सदा नॄणां न धनं सुख साधनम् ॥७२॥
सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते ।
विवेको लुप्यते लोभात्तस्मिंल्लुप्ते विनश्यति ॥७३॥
दहत्यलाभे निःसत्वं लाभे लोभो दहत्यमुम् ।
तस्मात्सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥७४॥
भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः ।
वृथैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥७५॥
धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् ।
स्मृतिनाशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥७६॥
सुखयति धनमेवेत्यन्तराशापिशाच्या
दृढतरमुपगूढो मूढलोको जडात्मा ।
निवसति तदुपान्ते सन्ततं प्रेक्षमाणो
व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ॥७७॥
संपन्नोऽन्धवदेव किंचिदपरं नो वीक्षते चक्षुषा
सद्भिर्वर्जितमार्ग एव चरति प्रोत्सारितो बालिशैः ।
तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पत -
त्यस्यान्धत्वनिवर्तकौषधमिदं दारिद्र्यमेवाञ्जनम् ॥७८॥
लोभः क्रोधश्च दंभश्च मदो मत्सर एव च ।
वर्धते वित्तसंप्राप्त्या कथं तच्चित्तशोधनम् ॥७९॥
अलाभाद्द्विगुणं दुःखं वित्तस्य व्ययसंभवे ।
ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥८०॥
नित्याहितेन वित्तेन भयचिन्तानपायिना ।
चित्तस्वास्थ्यं कुतो जन्तोगृहस्थेनाहिना यथा ॥८१॥
कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा
चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा ।
निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः
क्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥८२॥
तस्मादनर्थस्य निदानमर्थः पुमर्थसिद्धिर्न भवत्यनेन ।
ततो वनान्ते निवसन्ति सन्तः संन्यस्य सर्वं प्रतिकूलमर्थम् ॥८३॥
श्रद्धाभक्तिमतिं सतीं गुणवतीं पुत्राञ्छृतान्संमता -
नक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् ।
सर्वं नश्वरमित्यवेत्य कवयः श्रुत्युक्तिभिर्युक्तिभिः
संन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ॥८४॥
सुखमिति मलराशौ ये रमन्तेऽत्र गेहे
क्रिमय इव कलत्रक्षेत्रपुत्रानुषक्त्या ।
सुरपद इव तेषां नैव मोक्षप्रसङ्ग -
स्त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥८५॥
येषामाशा निराशा स्याद्दारापत्यधनादिषु ।
तेषां सिद्ध्यति नान्येषं मोक्षाशाभिमुखी गतिः ॥८६॥
सत्कर्मक्षतपाप्मनां श्रुतिमतां सिद्धात्मनां धीमताम्
नित्यानित्यपदार्थशोधनमिदं युक्त्या मुहुः कुर्वताम् ।
तस्मादुत्थमहाविरक्त्यसिमतां मोक्षैककाङ्क्षावताम्
धन्यानां सुलभं स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥८७॥
संसारमृत्योर्बलिनः प्रवेष्टुं द्वाराणि तु त्रीणि महान्ति लोके ।
कान्ता च जिह्वा कनकं च तानि रुणद्धि यस्तस्य भयं न मृत्येः ॥८८॥
मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्त्यादिमम्
तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् ॥
कामाख्यार्गलदारुणा बलवता द्वारं तदेतत्त्रयम्
धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः ॥८९॥
आरूढस्य विवेकाश्वं तीव्रवैराग्यखड्गिनः ।
तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥९०॥
विवेकजां तीव्रविरक्तिमेव
मुक्तेर्निदानं निगदन्ति सन्तः ।
तस्माद्विवेकी विरतिं मुमुक्षुः
सम्पादयेत्तां प्रथमं प्रयत्नात् ॥९१॥
पुमानजातनिर्वेदो देहबन्धं जिहासितुम् ।
न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥९२॥
वैराग्यरहिता एव यमालय इवालये ।
क्लिश्नन्ति त्रिविधैस्तापैर्मोहिता अपि पण्डिताः ॥९३॥
शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् ।
समाधानमिति प्रोक्तं षडेवैते शमादयः ॥९४॥