अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा ।
अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥५१०॥
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते ।
कर्मणः कार्यमेवैषा जन्ममृत्युपरम्परा ॥५११॥
नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् ।
अज्ञानकार्यं तत्कर्म यतोऽज्ञानेन वर्धते ॥५१२॥
यद्येन वर्धते तेन नाशास्तस्य न सिद्ध्यति ।
येन यस्य सहावस्था निरोधाय न कल्पते ॥५१३॥
नाशकत्वं तदुभयोः को नु कल्पयितुं क्षमः ।
सर्वं कर्माविरुद्ध्यैव सदाज्ञानस्य सर्वदा ॥५१४॥
ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिद्ध्यति ।
यस्य प्रध्वस्तजनको यत्संयोगोऽस्ति तत्क्षणे ॥५१५॥
तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः ।
तमप्रकाशयोर्यद्वत्परस्परविरोधिता ॥५१६॥
अज्ञानज्ञानयोस्तद्वदुभयोरेव दृष्यते ।
न ज्ञानेन विना नाशस्तस्य केनापि सिद्ध्यति ॥५१७॥
तस्मादज्ञानविच्छित्त्यै ज्ञानं सम्पादयेत्सुधीः ।
आत्मानात्मविवेकेन ज्ञानं सिद्ध्यति नान्यथा॥५१८॥
युक्तात्मानात्मनोस्तस्मात्करणीयं विवेचनम् ।
अनात्मन्यात्मताबुद्धिग्रन्थिर्येन विदीर्यते ॥५१९॥