द्वितीयः स्कन्धः - अथ प्रथमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

वरीयानेष ते प्रश्नः कृतो लोकहितं नृप ।

आत्मवित्सम्मतः पुंसां श्रोतव्यदिषु यः परः ॥१॥

श्रोतव्यादिनी राजेन्द्र नृणां सन्ति सहस्त्रशः ।

अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम ॥२॥

निद्रया ह्रियते नक्तं व्यवायेन च वा वयः ।

दिवा चार्थेहया राजन कुटुम्बभरणेन वा ॥३॥

देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि ।

तेषा प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥४॥

तस्माद्भरात सर्वात्मा भगवानीश्वरो हरिः ।

श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम ॥५॥

एतावान सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।

जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः ॥६॥

प्राणेय मुनयो राजन्निवृत्ता विधिषेधतः ।

नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥७॥

इदं भागवंत नाम पुराणं ब्रह्मासम्मितम ।

अधीतवान द्वापरदौ पितृद्वैपायनादहम ॥८॥

परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।

गृईतचेता राजर्षे आख्यानं यदधीतवान ॥९॥

तदहं ते भिधास्यामि महापौरुषिको भवान ।

यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती ॥१०॥

एतन्निर्विद्यमानानामिच्छतामकुतोभयम ।

योगिनां नृप निर्णीतं हरेर्नामुकीर्तनम ॥११॥

किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह ।

वरं मुहुर्तं विदितं घटेत श्रेयसे यतः ॥१२॥

खटवांगो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुष ।

मुहुर्तात्सर्वमुत्सृज्य गतवानभयं हरिम ॥१३॥

तवाप्येतार्हि कौरव्य सप्ताहं जीवितावधिः ।

उपकल्पय तत्सर्व तावद्यत्साम्परायिकम ॥१४॥

अन्तकाले तु पुरुष आगते गतासाधसः ।

छिन्द्यादसंगशस्त्रेण स्पृहां देहेऽनु ये च तम ॥१५॥

गृहात प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः ।

शुचौ विविक्त आसीनो विधितत्कल्पितासने ॥१६॥

अभ्यसेन्मनसा शुद्धं त्रिवृद्‌ब्रक्षारं परम ।

मनो यच्छेज्जितश्वासो ब्रह्माबीजमविस्मरन ॥१७॥

नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः ।

मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥१८॥

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।

मनो निर्विषयं युक्त्वा ततः किंचन न स्मरेत ।

पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥१९॥

रजस्तमोभ्यामाक्षित्प विमुढं मन आत्मनः ।

यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलन ॥२०॥

यस्या सन्धार्यमाणायां योगिनो भक्त्लक्षणः ।

आशु सम्पद्यते योग आश्रयं भद्रमीक्षातः ॥२१॥

राजोवाच

यथा सन्धार्यते ब्रह्मण धारणा यत्र सम्मता ।

यादृशी वा हरेदाशु पुरुषस्य मनोमलम ॥२२॥

श्रीशुक उवाच

जितासनो जितश्वासो जितसंगो जितेन्द्रियः ।

स्थुले भगवतो रुपे मनः सन्धारयेद्धिया ॥२३॥

विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम ।

यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत ॥२४॥

आण्डकोशे शरीरेऽस्मिन सत्पावरणसंयुते ।

वैराजः पुरुषो योऽसौ भगवान धारणाश्रयः ॥२५॥

पातालमेतस्य हि पादमुलं पठन्ति पार्ष्णिप्रपदे रसातलम ।

महातलं विश्वसृजोऽथ गुल्फौ तलातलं वै पुरुषस्य जंघे ॥२६॥

द्वे जानुनी सूतलं विश्वमूर्ते रूरुद्वयं वितलं चातलं च ।

महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥२७॥

उरःस्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य ।

तपो रराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्त्रशीर्ष्णः ॥२८॥

इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रममुष्य शब्दः ।

नासत्यदस्रौ परमस्य नासे घ्राणोऽस्य गन्धो मुखमग्निरिद्धः ॥२९॥

द्यौरक्षिनी चक्षुरभूत्पतंगः पक्ष्याणि विष्णोरहनी उभे च ।

तदभुतविजृभ्मः परमेष्ठिधिष्ण मापोऽस्य तालु रस एव जिल्हा ॥३०॥

छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकाला द्विजानि ।

हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपांगमोक्षः ॥३१॥

व्रीडोत्तरोष्ठोऽधर एव लोभो धर्मः स्तनोऽधर्म पथोऽस्य पृष्ठम ।

कस्तस्य मेढ्रं वृषणौ च मित्रौ कूक्षिः समुद्रा गिरयोऽस्थिसंघः ॥३२॥

नद्योस्य नाड्योऽथ तनुरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र ।

अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः ॥३३॥

ईशस्य केशान विदुरम्बुवाहान वासस्तु सन्ध्या कुरुवर्य भूम्रः ।

अव्यक्तमाहुर्हृदयं मनश्च स चन्द्रमाः सर्वविकारकोशः ॥३४॥

विज्ञानशक्तिं महिमामनन्ति सर्वात्मनोऽन्तः करणं गिरित्रम ।

अश्वाश्वतर्युष्ट्रगजा नखानि सर्व मृगाः पशव श्रोणिदेशे ॥३५॥

वयांसि तदव्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः ।

गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृतीरसूनानीकवीर्यः ॥३६॥

ब्रह्माननं क्षत्रभुजो महात्मा विडुरुरड्‌घ्रिश्रितकृष्णवर्णः ।

नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः ॥३७॥

इत्यानसावी श्वरविग्रस्य यः सन्निवेशः कथितो मया ते ।

सन्धार्यतेऽस्मिन वपुषि स्थविष्ठे मन स्वबुद्धा न यतोऽस्ति किचिंत ॥३८॥

स सर्वधीवृत्त्यनुभूतसर्व आत्मा याथा स्वप्रजनेक्षतैकः ।

तं सत्यमानन्दनिधिं भजेत नान्यत्र सज्जेद यत आत्मपातः ॥३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां द्वितीयस्कन्धे महापुरुषसंस्थानुवर्णने प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP