मय यवन मणित्थ शक्ति पूर्वैर्दिवस करादिषु वत्सराः प्रदिष्टाः ।
नव तिथि विषयाश्वि भूतरुद्रदश सहिता दशभिः स्व तुङ्ग भेषु ॥१॥
नीचे अतोऽर्धं ह्रसति हि ततश्चान्तरस्थे अनुपातो होरा त्वंश प्रतिमम् अपरे राशि तुल्यं वदन्ति ।
हित्वा वक्रं रिपु ग्रह गतैर्हीयते स्व त्रि भागः सूर्योच्छिन्नद्युतिषु
च दलं प्रोजिह्य शुक्रार्क पुत्रौ ॥२॥
सर्वार्ध त्रि चरण पञ्च षष्ट भागाः क्षीयन्ते व्यय भवनाद् असत्सु वामम् ।
सत्स्वर्धं ह्रसति तथाइकराशिगानाम् एकांशं हरति बली तथाह सत्यः ॥३॥
सार्धोदितोदित नवांश हतात् समस्ताद् भागोऽष्टयुक्त शत संख्यम् उपैतो नाशम् ।
क्रूरे विलग्न सहिते विधिना त्वनेन सौम्येक्षिते दलम् अतः प्रलयं प्रयाति ॥४॥
समा षष्टिर्द्विघ्ना मनुज करिणां पज़्च च निशा हयानां
द्वात्रिंशत् खर करभयोः पञ्चक कृतिः ।
विरूपा साप्यायुर्वृष महिषयोर्द्वादश शुनां स्मृतं छागादीनां
दशक सहिताः षट् च परम ॥५॥
अनिमिष परमांशके विलग्ने शशि तनये गवि पज़्च वर्ग लिप्ते ।
भवति हि परमायुषः प्रमाणं यदि सकलः सहिताः स्व तुङ्ग भेषु ॥६॥
आयुर्दायं विष्णु गुप्तोऽपि चैवं देव स्वामी सिद्धसेनश्च चक्रे ।
दोषश्चैषां जायते अष्टावरिष्टं हित्वा नायुर्विंशतेः स्याद् अधस्तात् ॥७॥
यस्मिन् योगे पूर्णम् आयुः प्रदिष्टं तस्मिन् प्रोक्तं चक्र वर्तित्वम् अन्यैः
प्रत्यक्षोऽयं दोषः परोऽपि जीवत्यायुः पूर्णम् अर्थैर्विनापि ॥८॥
स्वमतेन किलाह जीव शर्मा ग्रहदायं परमायुसः स्वरांशम् ।
ग्रह भुक्त नवांशराशि तुल्यं बहु साम्यं समुपैति सत्य वाक्यम् ॥९॥
सत्योक्ते ग्रहम् इष्टं लिप्ती कृत्वा शतद्वयेनाप्तम् ।
मण्डल भाग विशुद्धे अब्दाः स्युः शेषात् तु मासाद्याः ॥१०॥
स्व तुङ्ग वक्रोपगतैस्त्रिसंगुणं द्विरुत्तम स्वांशक भ त्रिभ्हागगैः ।
इयान् विशेषस्तु भदत्त भाषिते स मानम् अन्यत् प्रथमे अप्युदीरितम् ॥११॥
किं त्वत्र भांश प्रतिमं ददाति वीर्यान्विताराशि समं च होरा ।
क्रूरोदये च उपचयः स नात्र कार्यं च नाब्दैः प्रथमोपदिष्टैः ॥१२॥
सत्योपदेशो वरम् अत्र किन्तु कुर्वन्त्ययोग्यं बहु वर्गणाभिः ।
आचार्यकत्वं च बहु घ्नतायाम् एकं तु यद् भूरि तदेव कार्यम् ॥१३॥
गुरु शशि सहिते कुलीर लग्ने शशि तनये भृगुजे च केन्द्रयाते ।
भवरिपु सहजोपगैश्च शेषैरमितम् इहायुरनुक्रमाद् विना स्यात् ॥१४॥