तृतीयोऽध्यायः - वियोनिजन्म

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


क्रूर ग्रहैः सुबलिभिर्विबलैश्च सौम्यैः क्लीबे चतुष्टय गते तदवेक्षणाद् वा ।

चन्द्रोपग द्वि रस भाग स मानरूपं सत्वं वदेद् यदि भवेत् स वियोनि संज्ञः ॥१॥

पापा बलिनः स्व भागगाः पारक्ये विबलाश्च शोभनाः ।

लग्नं च वियोनि संज्ञकं दृष्ट्वात्रापि वियोनिम् आदिशेत् ॥२॥

क्रियः शिरो वक्र गले वृषोऽन्ये पादांशकं पृष्ठम् उरोऽथ पार्श्वे ।

कुक्षिस्त्वपानाङ्घ्र्याथ मेढ्र मुष्कौ स्फिक् पुच्छम् इत्याह चतुष्पदाङ्गे ॥३॥

लग्नांशकाद् ग्रहयोगेक्षणाद् वा वर्णान् वदेद् बलयुक्ता द्वि योनौ ।

दृष्ट्या स मानान् प्रवदेत् स्व संख्ययारेखां वदेत् स्मर संस्थैश्च पृष्ठे ॥४॥

खगे दृकाणे बलसंयुतेन वा ग्रहेणयुक्ते चरभांशकोदये ।

बुधांशके वा विहगाः स्थलांबुजाः शनैश्चरेन्द्वीक्षणयोग संभवाः ॥५॥

होरेन्दु सूरि रविभिर्विबलैस्तरुणां तोये स्थले तरु भवांश कृतः प्रभेदः ।

लग्नाद् ग्रहः स्थल जलऋक्ष पतिस्तु यावांस्तावन्तैव तरवः स्थल तोय जाताः ॥६॥

अन्तः साराञ् जनयति रविर्दुर्भगान् सूर्य सूनुः क्षीरोपेतांस्तुहिन किरणः कण्टकाढ्यांश्च भौमः ।

वाग् ईश ज्ञौ स फल विफलान् पुष्प वृक्षांश्च शुक्रः

स्निग्धान् इन्दुः कटुक विटपान् भूमि पुत्रश्च भूयः ॥७॥

शुभो शुभऋक्षे रुचिरं कुभूमिजं करोति वृक्षं विपरीतम् अन्यथा

परांशके यावति विच्युतः स्वकाद् भवन्ति तुल्यास्तरवस्तथा विधाः ॥८॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP