स्त्रीनाशं स्तम्भवेधे स्यातपाषाणे च तथैव च । देवतासन्निधानस्थे गृहे गृहपतेः क्षयः ॥८१॥
श्मशानाभिमुखे गेहे राक्षसाद्भयमादिशेत । चतुःषष्टिपदं कृत्वा मध्ये द्वारं प्रकल्पयेत ॥८२॥
विस्ताराद्द्विगुणोच्छ्रायस्तत्रिभागः कटिर्भवेत । विस्तारार्द्ध भवेद्गर्भो । वित्तयोन्यः समन्ततः ॥८३॥
गर्भपादेन विस्तीर्ण द्वारं द्विगुणमुच्छितम । उच्छ्रायात्पादविस्तीर्णा शाखा तद्वदुम्बरा ॥८४॥
विस्तारपादप्रमितं बाहुल्यं शाखयोः स्मृतम । त्रिपंचसप्त नवभिः शाखाभिर्द्वारमिष्यते ॥८५॥
कनिष्ठ मध्यमं ज्येष्ठ यथायोगंप्रकल्पयेत । विस्ताराद्द्विगुणाच्छ्रायश्चत्वारिंशाद्भरुत्तमम ॥८६॥
धन्यमुत्तममायुष्यं धनधान्यकमेव च । शतं चाशीतिसहितं वातनिर्गमन भवेत ॥८७॥
अधिक दशभिस्तद्वत्तथा षोडशभिः शतम । शतमानं तृतीयं तु भवत्यशीतिभिस्था ॥८८॥
दशद्वाराणि चैतानि क्रमेणोक्तानि सर्वदा । अन्यानि वर्जनीयानि मनसोद्वेगदानि तु ॥८९॥
द्वारवेधं तु यत्नेन सर्वथा परिवर्ज्जयेत । गृहोच्छ्रायादद्विगुणितं त्यक्ता भूमि बहिः स्थितः ॥९०॥
न दोषाय भवेद्वेधो गृहस्य गृहिणस्तथा । गृहार्द्ध गृहिणी ज्ञेया गृहत्पूर्वोत्तरा शुभा ॥९१॥
पक्षिणी वा तथैव स्यादन्यगेहा न सिद्धिदाः । पृष्ठद्वारं न कर्तव्यं मुखद्वारावरोधनम ॥९२॥
पिहिते तु मुखद्वारे कुलनाशो भवेद्ध्रुवम । पृष्ठद्वारे सर्वनाशः स्वयमुद्धाटिते तथा ॥९३॥
मानोने व्यसनं कुर्यादधिके नृपतेर्भयम । अर्द्धखण्डं यदि द्वारं दलवेध विनिर्द्दिशेत ॥९४॥
कपाटच्छिद्रवेघं च कपाटे वै क्षया भवेत । यत्र विद्धं यदा द्वारं प्रासादे च धनक्षयः ॥९५॥
स्तंभं वा रवते यस्य तस्य वंशक्षयो भवेत । त्रिकोणं शकटाकारं शूर्पव्यजनसन्निभम ॥९६॥
मुरजं वर्तुलं द्वारं मानहीनं च वर्जयेत । त्रिकोणे पीड्यते नारी शकटे स्वामिनो भयम ॥९७॥
शूर्पे धनविनाश: स्याद्धनुषि कलहो स्मृतः । धननाशस्तु मुरजे वर्तुले कन्यकोद्भवः ॥९८॥
मध्यहीनं तु यद द्वारं नोनाशोक फलप्रदम । स्तंभाग्रे विन्यसेत्काष्ठ पाषाण नैव धारयेत ॥९९॥
नृपालये देवगेहे पाषाणानं कारयेत । द्वारशाखा नृपाणां तु गृहे पाषाणनिर्मिता ॥१००॥