पृष्ठद्वारं न कर्तव्यं कोणेष्वेव विशेषतः ॥
अथ द्वादशः ॥
त्रिषु त्रिषु च मासेषु मार्गशीर्षादिषु क्रमात ॥२१॥
पूर्वदक्षिणतोयेशपौलस्त्यशां क्रमादगुः । द्वारे वह्निभयं प्रोक्त स्तम्भे वंशविनाशनम ॥२२॥
अथ त्रयोदशः ॥
रक्षःकुबेराग्नि जले च याम्ये वायव्यकाष्ठासु च भानुवरात ।
वसेत्तमश्चाष्टसु दिक्षु चक्रे मुखे विवर्ज्यो गमने गृहे च ॥२३॥
अथ चतुर्दशः ॥
ध्रुवन्त्वाद्यं गृह प्रोक्तं सर्वद्वारविवार्जितम । धान्ये पूर्वदिशि द्वारं दक्षिणे जयसज्ञकम ॥२४॥
प्राग्दक्षिणे नन्दगृहे पश्चिमे खरमेव च । प्राक्पश्चिमे तथा कान्ते प्रत्यग्याम्ये मनोरमे ॥२५॥
सुवक्रे चोत्तरे वर्ज्य दुर्मुखे चोत्तरे तथा । प्रागुत्तरे क्रूरसंज्ञे विपदो दक्षिणे तथा ॥२६॥
धनदे पश्चिमे वर्ज्य क्षयं चोत्तरपश्चिमे । आक्रन्दे दक्षिणं त्याजं विपुले पूर्वमेव च ॥ २७॥
विजयाख्यं चतुर्द्वारमलिन्दैः सर्वतोयुतम । राज्ञां सिद्धिकरं प्रोक्तं सर्वतोभद्रसंज्ञकम ॥२८॥
अथ पञ्चदशः ॥
द्वारचक्र प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा । सूर्यभाद्भचतुष्कं तु द्वारस्योपरि विन्यसेत ॥२९॥
द्वे द्वे कोणे प्रदातव्यं शाखायुग्मे द्वयं द्वयम । अधश्च त्रीणि देयानि वेदा मध्ये प्रतिष्ठिताः ॥३०॥
राज्यं स्यादूर्ध्वनक्षत्रे कोणेषूद्वासनं भवेत ॥शाखायां लभते लक्ष्मी ध्वजे चैव मृतिर्भवेत ॥३१॥
मध्यस्थेषु भवेत्सौख्यं चिन्तनीयं सदा बुधैः । अश्विनी चोत्तराह्स्ततिष्यश्रुतिमृगाः शुभाः ।
स्वातौ पूष्णे च रोहिण्यां द्वारशाखावरोपणे ॥३२॥
पञ्चमी धनदा चैव मुनिनन्दावसौ शुभम । प्रतिपत्सु न कर्तव्यं कृते दुःखमवाप्नुयात ।
द्वितीयायां द्रव्यहानिः पशुपुत्रविनाशनम ॥३३॥
तृतीया रोगदा ज्ञेया चतुर्थी भंगकारिणी । कुलक्षयं तथा षष्ठि दशमी धननाशिनी ॥३४॥
विरोधकृत्वमावास्या नास्यां शाखा वरोपणम । केन्द्रत्रिकोणेषु शुभैः पापैस्त्र्यायारिगैस्तथा ॥३५॥
द्यूनांबरे शुद्धियुते द्वारशाखावरोपणम । शुभं स्याच्छुभवारे च पञ्चके न त्रिपुष्करे ।
आग्नेयधिष्ण्ये सोमे हि न कुर्यात्काष्ठरोपणम ॥३६॥
प्रणम्य वास्तुपुरुषं दिक्पालं क्षेत्रनायकम । द्वारशाखारोपणम च कर्तव्यं तदनन्तरम ।
शुभं निरीक्ष्य शकुतमन्यथा परिवर्जयेत ॥३७॥
कुड्यां भित्वा न कुर्वीत द्वारं तत्र सुखेप्सुभिः । कृत्तिका भगमैत्रं तु विशाखा च पुनर्वसुः ॥३८॥
तिष्यं हस्तं तथार्द्रा च क्रमात्पूर्वेषु विन्यसेत । मैत्रं विशाखा पौष्णं च नैऋत्यं यमदैवतम ॥३९॥
वैश्चदेवाश्विनीचित्राः क्रमाद्दक्षिणमास्थिताः । पित्र्यं प्राष्ठपदार्यम्णं तथा मांसान्नदैवतम ॥४०॥