वारुणाश्विनसावित्र्य क्रमात पश्चिमसंस्थितम । स्वात्याश्लेषाभिजित्सौम्यं वैष्णवं वासवं तथा ॥४१॥
याम्यं ब्राह्मं क्रमात्सौम्यं द्वारेषु च विनिर्द्दिशेत । द्वारैर्क्षै स्तद्दिशाद्वारं स्थापयेद्वा विचक्षणः ॥४२॥
स्तंभाद्यारोपणं शस्तं तथैव विधिना बुधैः । अधोमुखैश्च नक्षत्रैर्देहलीखातमेव च ॥४३॥
तिर्यंगमुखर्क्षैर्द्वारर्क्षैस्तम्भद्वारावरोपणम । प्रासादेषु च हर्मेषु गृहेष्वन्येषु सर्वदा ॥४४॥
आग्नेय्यां प्रथमं स्तम्भ स्थापयेत्तद्विधानतः स्तम्भोपरि यदा पश्येत्काकगृध्रादिपक्षिणः ॥४५॥
दुर्निमित्तानि संवीक्ष्य तदा कर्तुर्नु शोभनम । तस्मात्स्तम्भोपरिच्छत्रं शाखां फलवती तु वा ॥४६॥
धारयेदथवा वस्त्र बुधो रत्नादि निःक्षिपेत । दिक्साधनं च कर्तव्यं शिलाद्वारावरोपणम ॥४७॥
स्तम्भे च व स्तुविन्यासे तथा च गृहकर्माणि । प्रासादे वा तथा यज्ञे मण्डपे बलिकर्मसु ॥४८॥
कृत्तिकोदयतः प्राची प्राची स्याच्छ्रवणोदये । चित्रास्वात्यन्तरे प्राची दिनप्राची रवेः स्थिता ॥४९॥
यदि वा श्रवणं पुष्य चित्रास्वात्योर्यदन्तरम । एतत्प्राचीदिशारुपं दण्डमात्रोदिते रवौ ॥५०॥
द्वादशांगुलमानेन शंकुना वा प्रकल्पयेत । शिलातले सुसशुद्धे सुलिप्ते समतांगते ॥५१॥
इष्टशंकुप्रमाणेन सममण्डलमालिखेत । तन्मध्ये स्थापयेच्छंकु वृत्तं कृत्वा द्विरेखिकम
द्युतिप्रवेशाय गमस्थाने चिह्नं प्रकल्पयेत ।
अपरेऽह्नि च तन्मध्ये शंकुमारोपयेत्ततः ॥५२॥
तत्र चिह्नं च तन्मानं मानयोर्यदनन्तरम । तेनानुमानेन विषुवद्दिवसान्तं च साधयेत ॥५३॥
यावंतो व्यवह्नियंते तावदवृत्ते विनिक्षिपेत । शोधयेद्योजयेद्वापि दक्षिणोत्तरयोर्द्वयोः ॥५४॥
क्रान्त्योर्यदवशिष्येत तत्प्राची समुदात्दृता ॥५५॥
अथ द्वारफलानि ॥ ईशानमादितः पूर्वे आग्नेयाद्दक्षिणे स्थिताः ।
नैऋत्यात्पश्चिमे ज्ञेया वायव्यात्सौम्यदिक स्थिताः ॥५६॥
पूर्वादिक्रमयोगेन हुताशेऽग्निभयं भवेत । पर्जन्ये प्रचुरा नार्य्यो जायन्ते बहुवित्तदाः ॥५७॥
माहेन्द्रे नृपवत्सल्यं सूर्य्येऽति क्रोधता भवेत । सत्येऽनृतत्वं विज्ञेयं क्रूरत्व च भृशं भवेत ॥५८॥
अन्तरिक्षे च विज्ञेयो नित्यं चोरसमागमः । दक्षिणे स्यात पूत्रनाशो वायव्ये प्रेमष्येव च ॥५९॥
नीचत्वं वितथे ज्ञेयं गृहे तिष्ठति सन्ततिः । शूद्रकर्मा भवेत्पौष्णे नैॠत्ये कर्तृनाशनम ॥६०॥