संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
स्वायंभुलिंगागमम्

सुप्रभेदागमः - स्वायंभुलिंगागमम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


कारणं वा तुलञ्चैव सूक्ष्मञ्च सुप्रभेदकम् ।
आगमञ्चतुर्भेदं स्वयंभूपुजितं क्रमात्॥

दैवलिंगागमम्

कामिकं विजयं चैव स्वायंभुवमथानलम् ।
पूजयेद् देवके लिंगे कल्पयेत् कल्पवित्तमः॥

दिव्यलिंगागमम्

चिंत्यं चैव सहस्रञ्च दीप्तञ्चाप्ययुतं तथा ।
दिव्यलिंगार्चना प्रोक्तं सर्वकर्मसमाचरेत्॥

ऋषिलिंगागमम्

योगजं मकुटं चैव निश्वासं रौरवं तथा ।
आर्षकं पूजयेद्धीमान् अर्धयामे विशेषतः॥

मानुषलिंगागमम्

वीरञ्च विमलोद्भेदं चंद्रज्ञानञ्च बिंबकम् ।
पूजयेत् परमं चैव मानुषे देशिकोत्तमः॥

राक्षसलिंगागमम्

प्रोत्गीतं ललितं चैव सिद्धिं संतानमेव च ।
राक्षसे प्रोक्षयेल्लिंगं आसुरञ्च प्रपूजरेत्॥

बाणलिंगागमम्

पारमेश्वर संख्योक्तं अंशुमान् किरणं तथा ।
बाणलिंगार्चनं चैव गणपञ्चप्रपूजयेत्॥

मानुषं योजनादर्वाक् पौराणं दशयोजनम् ।
शतयोजनमार्षञ्च सहस्रं दैविकं भवेत्॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP