संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
मुद्रालक्षण पटलः

क्रियापदः - मुद्रालक्षण पटलः

सुप्रभेदागमः


अथातः संप्रवक्ष्यामि मुद्रायालक्षणं परम् ।
अर्चनादिक्रियाकाले संयोज्या सा सलक्षणा ॥१॥

अस्त्रीवक्त्री महामुद्रा शोधनी च संहारिणी ।
पञ्चमुखी च सुरभि द्रव्या च मुकुली तथा ॥२॥

पद्मा च शशकर्णी च शक्तिबीजा तथा भवेत् ।
आवाहनी च शान्ता च मनोरमध्वजा तथा ॥३॥

निष्ठुरा लिङ्गमुद्रा च गायत्री कालकण्ठका ।
शूलमुद्रा नमस्कारात्रयोविंशति कीर्तिताः ॥४॥

द्वौ मुष्टी संहति कृत्वा शीघ्रं हस्तौ प्रसारयेत् ।
अस्त्रमुद्रेति विख्याता सर्वेषाञ्च भयंकरी ॥५॥

वामहस्तो परिस्थाप्य अङ्गुल्यो दक्षिणस्य तु ।
आकुञ्चयेत् ततः सर्वा नङ्गुष्ठेन तु बन्धयेत् ॥६॥

वामाङ्गुष्ठेषु संपीड्य अङ्गुल्योङ्गुष्ठकं दृढम् ।
इयं वक्त्राख्यमुद्रा तु स्नानार्थं देशिकस्य तु ॥७॥

हस्ताभ्यां संस्पृशेत् पादौ द्वौहस्तौ मस्तके न्यसेत् ।
एषामुद्रा महामुद्रा करसंस्कारपश्चिमे ॥८॥

पाणिमूले तु संलग्नौ हृद्देशे तु परस्परम् ।
कृत्वैवं ताडयेत् पाणिमुद्रेयं शोधनी भवेत् ॥९॥

प्रसार्य दक्षिणाङ्गुल्यस्त्वङ्गुष्ठं मूर्ध्निसंस्थितम् ।
मुष्टिवत् सततं कृत्वा ह्येषा संहारिणी स्मृताः ॥१०॥

कृत्वान्योन्य गताङ्गुल्याः पृष्ठतो हस्तयोर्द्वयोः ।
तिर्यक् त्वेकं न्यसेत् तत्र अङ्गुष्ठाभ्यां समाक्रमेत् ॥११॥

तर्जिन्या मध्यमादूर्ध्वे नामिके चोच्छ्रिते शुभे ।
कृत्वा पञ्चमुखी ख्याता मुद्रेयं शङ्करस्य तु ॥१२॥

वेणी बन्धं करौ कृत्वा ह्यङ्गुष्ठौ युग्मसंस्थितौ ।
तर्जनीमध्यमे लीनौ कनिष्ठानामिके युते ॥१३॥

एवञ्चत्वारि युग्मन्तु दिव्यामृतसुवर्षिणि ।
इयं सुरभिमुद्रा च द्रव्यशुद्ध्यर्थमुच्यते ॥१४॥

कृत्वाञ्जलिं कराभ्यान्तु अङ्गुष्ठानामिकान्वितम् ।
प्रसारयेत् ततः शेषां मुद्रेयं द्रव्यरूपिणी ॥१५॥

द्वौहस्तावेकतः कृत्वा मध्ये तु सुषिरन्तयोः ।
सरोजमुकुलाकारां मुकुलिन्तु प्रदर्शयेत् ॥१६॥

पूर्वोक्तामुकुली या तु हृद्देशान्निः सृताङ्गुली ।
व्याको च कमलाकारां पद्ममुद्रान्तु दर्शयेत् ॥१७॥

तर्जन्यौ कुञ्चिते चैव तयोरग्रे निधापयेत् ।
द्वयोरंगुष्ठशिरसि तेषां मध्यघनः समाः ॥१८॥

कृत्वा तु मणिबन्धे तु वामे सव्यन्तथा न्यसेत् ।
मुद्रेयं शशकर्णी तु विज्ञेया योगकर्मणि ॥१९॥

तर्जनीं कुञ्चयेदेकामङ्गुष्ठे तु तथा पुनः ।
शक्तिमुद्रेति विख्याता शक्तीनाञ्च प्रकल्पयेत् ॥२०॥

उत्तानौ तु करौ कृत्वा वेणीबन्धन्तु कारयेत् ।
अङ्गुष्ठौ प्रक्षिपेन्मध्ये हस्तसंपुट गोपितौ ॥२१॥

कनिष्ठकौ तथा चैव मुहुः कृत्वा प्रसारितौ ।
अग्रे गुरुसमायुक्तां बीजमुद्रां प्रदर्शयेत् ॥२२॥

तर्जन्यङ्गुष्ठलग्नाग्रा शान्तेयं संप्रकीर्तिता ।
हस्ता वुत्तान्नकौ कृत्वा कन्न्यसौङ्गुष्ठकौ न्यसेत् ॥२३॥

मूलपर्वे समौ कृत्वा मुद्रेषावारिधि स्मृता ।
बलितं हस्तयोः कार्यमुत्ताने तु कनिष्ठकौ ॥२४॥

तयोर्वामावलि ज्ञेया वलीते मध्यमेऽपि च ।
कुञ्चिते नामिका या च स्वपाणितल योजिते ॥२५॥

देशिन्यौ प्रसृतौ कृत्वा तयोरग्रे नियोजयेत् ।
अङ्गुष्ठौ मूलपर्वस्थौ तयोरेव हि कुञ्चितौ ॥२६॥

मनोरमेति विख्याता शिव सा युज्यदायिका ।
वामे प्रदेशिन्यग्रन्तु वेष्टयेत् सव्यपाणिना ॥२७॥

कृत्वोर्ध्वे तु ततोऽङ्गुष्ठं हृदये सन्नियोजयेत् ।
वामाङ्गुष्ठञ्च वामाभिस्ति सृभिर्वेष्टयेत् क्रमात् ॥२८॥

ध्वजमुद्रासमाख्याता संयोज्या योगकर्मणि ।
अङ्गुष्ठौ मध्यतः कृत्वामुष्टिभ्यां पीडयेदुभौ ॥२९॥

हस्तौ वाप्युभयौ कृत्वा निष्ठुरां सन्नियोजयेत् ।
कृत्वामुष्टि भवेद्धस्तौ व्युद्धमङ्गुष्ठसंस्थितौ ॥३०॥

मुद्रैषा लिङ्गसंज्ञा तु कृत्वा देशिकदर्शने ।
अन्योन्यान्तरगाः सर्वाः करपृष्ठाग्रयोजिताः ॥३०॥

अङ्गुष्ठाङ्गुलयः कुर्यादक्षरञ्च नरान्तने ।
पूजाकर्मणि गायत्रीं गायत्र्यान्तु प्रयोजयेत् ॥३१॥

कृत्वामुष्टिं ततो स्थाने तदानङ्गुलियोजिते ।
अङ्गुष्ठाग्रौ च संलग्नौ कालकण्ठीन्तु दर्शयेत् ॥३२॥

अन्योन्यान्तरितं कृत्वा पाणि पृष्ठेन योजयेत् ।
मध्यमे चोच्छ्रिते कृत्वा शूलमुद्रे कीर्तिताः ॥३३॥

सतताङ्गुलि संलग्नौ हस्तौ हृद्देशमाश्रितौ ।
सर्वेषां बन्धनं कार्यं वमाङ्गुष्ठनिपीडनम् ॥३४॥

नमस्कारेति विज्ञेया सर्वकर्मणिकारयेत् ।
विधिप्रपूरणार्थन्तु कृत्वा मुद्रान्तु देशिकाः ॥३५॥

मुद्रायालक्षणं प्रोक्तं हविष्यलक्षणं शृणु ।

इति मुद्रालक्षण पटलो नवमः ॥९॥

N/A

References : N/A
Last Updated : October 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP