संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
सकललक्षणविधिपटलः

सुप्रभेदागमः - सकललक्षणविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि सकलानान्तु लक्षणम् ।
सर्वावयवदृश्यत्वात् प्रतिमा त्विति चोच्यते ॥१॥

ईश्वरादिचतुर्मूर्तिः पठ्यते सकलं त्विति ।
एतानि सकलादीनि त्रिविधानि मयोच्यते ॥२॥

चित्रं चित्रार्धमेवन्तु चित्राभासं तथैव च ।
सर्वावयसंपूर्णं दृश्यं तच्चित्रमुच्यते ॥३॥

अर्धावयवसंदृश्यं मर्धचित्रं तथैव च ।
पटे भित्तौ च यो लिख्यं चित्राभासमिहोच्यते ॥४॥

पूजाभागसमायमं तदूर्ध्वं प्रतिमोच्छ्रयम् ।
द्विगुणं त्रिगुणं तत्र मध्यमञ्चोत्तमं त्विह ॥५॥

एकैकस्य त्रिभिर्भेदैर्नवमानमुदाहृतम् ।
गर्भन्तु नवधा कृत्वा नवधादीप्यमुच्यते ॥६॥

द्वारस्योच्छ्रयमाने तु षोडशांशविभाजिते ।
भवंगञ्च पतङ्ग च ऊर्ध्वाधोंशद्वयं त्यजेत् ॥७॥

शुद्धद्वारमिदं शेषमेतन्मनेन चोत्तमम् ।
तत्त्रिभाग द्विभागञ्च मध्यमं त्विति कीर्तितम् ॥८॥

तत्त्रिभागैकमथममेकैकं त्रित्रिभाजिते ।
प्रोक्तं हि नवधा मानं स्तंभमानमथ शृणु ॥९॥

स्तंभायामार्धभागेन कर्तव्यं कन्यसं बुधः ।
त्रिपादं मध्यमं प्रोक्तं समं चैवोत्तमं भवेत् ॥१०॥

प्रत्येकं त्रिविधैर्भागैर्नवमानं पुरोक्तवत् ।
उत्तमन्तु चतुस्तालं त्रितालं मध्यमं तथा ॥११॥

द्वितालमधमं विद्धि हस्तमानसमं शृणु ।
एकहस्तं समारभ्य नवहस्तान्तमेव च ॥१२॥

नवमानं करेणैव त्वङ्गुलीनां वशाच्छृणु ।
यजमानसमं ज्येष्ठं त्रिपादञ्चैव मध्यमम् ॥१३॥

अधमं त्वर्धमित्युक्तं यजमानानुरूपतः ।
एतान्युक्तानि मानानि मानाङ्गुलेन भाजिते ॥१४॥

तेषु मानेषु युग्मार्थं मानं प्रत्यङ्गुलाधिकम् ।
अथवैकाङ्गुलोनं वा माने माने प्रयोजयेत् ॥१५॥

एकाङ्गुलं समारभ्य द्वादशान्ताङ्गुलं ग्रहेत् ।
तदूर्ध्वन्तु न कुर्वीत अथस्तादालयेन हि ॥१६॥

यदुक्तोत्सेधमानन्तु त्रिभागं संविभज्य वै ।
उष्णीषात् पादपर्यन्तं द्विभागे नैव कारयेत् ॥१७॥

पीठमानमथैकांशं त्रिविधा पद्ममेकतः ।
द्विभागं पीठमानं स्यादासने तु विशेषतः ॥१८॥

बिंबायाम चतुर्थांशं पीठोच्चं स्थानकस्य तु ।
स्थानकासनयानञ्च कर्तव्यं त्वनुरूपतः ॥१९॥

यद्विष्णु प्रतिमादन्यं शयनन्तु न कारयेत् ।
आचार्यशिल्पिकर्तॄणामिष्टमानं प्रगृह्य च ॥२०॥

मृन्मयं यदि कुर्याच्चेच्छूलं तत्र प्रकल्पयेत् ।
लोहजञ्च विशेषेण मधूश्चिष्टेन निर्मितम् ॥२१॥

अङ्गोपाङ्गानि कृत्वाथ स्थिरवत् संप्रकल्पयेत् ।
गन्धपुष्पादिनाभ्यर्च्य धूपदीपसमन्वितम् ॥२२॥

तस्यैव दक्षिणे पार्श्वे शिवाग्निं तु प्रकल्पयेत् ।
हृदा चाष्टशतं हुत्वा समिदाद्यैः पृथक् पृथक् ॥२३॥

पूर्णाहुतिं ततो दद्यात् ध्यात्वा तद्रूपमात्मनि ।
हृन्मन्त्रन्तु समुच्चार्य तत्तदङ्गानि बन्धयेत् ॥२४॥

सर्वावयवसंपूर्णां प्रतिमंशिल्पिभिः सह ।
गृहितप्रतिमोत्तुङ्गे नवभागविभाजिते ॥२५॥

भागमेकं मुखं प्रोक्तं कण्ठभागं त्रिभागतः ।
भागं कण्ठस्तनान्तञ्च भागं नाभ्यन्तमेव च ॥२६॥

मेढ्रान्तं भागमानेन द्विभागं चोरुमानकम् ।
भागत्रिभागिकं जानुजंघायाम द्विभागिकम् ॥२७॥

गुदं भागं त्रिभागन्तु द्विभागं बाहुदैर्घ्यकम् ।
पादोनद्विगुणं तस्य प्रकोष्ठायाममिष्यते ॥२८॥

मानमेवन्तु विख्यातं सर्वेषान्तु प्रशस्तकम् ।
तालगण्येन चाङ्गुल्या मानोन्माने तु कारयेत् ॥२९॥

मुखन्तालं यमञ्चैव वितस्तिर्द्वादशाङ्गुलम् ।
ईश्वरादि चतुर्मूर्तिदशतालेन कारयेत् ॥३०॥

शक्तिनामन्यदेवानां नवतालं प्रकीर्तितम् ।
दिव्यमार्षमनुष्याणामष्टतालेन कारयेत् ॥३१॥

रक्षसामसुराणाञ्च सप्ततालमिहोच्यते ।
षट्तालेनैव गन्धर्वान् पञ्चतालेन विघ्नकम् ॥३२॥

वामनात् पञ्चतालैस्तु चतुस्तालैस्तु भूतकान् ।
त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् ॥३३॥

एकतालस्तु कूश्माण्डात् पिशाचाविंशदङ्गुलाः ।
स्थूलसूक्ष्म प्रभेदांस्तु तालभेदमिहोच्यते ॥३४॥

विहितं तत्तदङ्गुल्या मानमुन्मानमेव च ।
मानन्तद्विस्तरं प्रोक्तमुन्मानं नाहमेव च ॥३५॥

प्रमाणं दीर्घमित्युक्तं मानोन्मानप्रमाणतः ।
मुखभागं त्रिधा कृत्वा ललाटोच्चमथैव तु ॥३६॥

एकांशं नासिकान्तं स्यादन्यं नतद्वदेव हि ।
अन्यानि चाङ्गुलैः कार्यमुष्णीषाच्चरणान्तकम् ॥३७॥

उष्णीषमङ्गुलं प्रोक्तं मस्तकन्तु त्रियङ्गुलम् ।
षट्त्रिंशदङ्गुले नैव शिरसोनाहमुच्यते ॥३८॥

श्रोत्रयोरन्तरं तत्र ललाटोष्टादशाङ्गुलम् ।
उष्णीषात् तु ततः कर्णपर्यन्तं द्वादशाङ्गुलम् ॥३९॥

कलाधा नेत्रमायामं विस्तारन्तु तदर्धतः ।
तत्तारे पक्ष्मरेखेव करवीरद्वयोर्यवम् ॥४०॥

असितञ्च त्रिभागैकं ज्योतिः स्यात् पञ्चभागिकम् ।
द्विकलानासिकायामं तदर्धन्तु पुटद्वयम् ॥४१॥

पुटमध्यं यवं प्रोक्तं नासाग्रन्तिलपुष्पवत् ।
अग्रन्तु द्व्यङ्गुलोत्सेधं मूलोत्सेधं तदर्धतः ॥४२॥

भ्रुवौषडङ्गुलायामौ कला चैव तदन्तरम् ।
ओष्ठमेकाङ्गुलं प्रोक्तं तदर्धेनोत्तरोष्ठकम् ॥४३॥

कलायामं भवेदास्यं मध्यार्धञ्चिबुकं तथा ।
निर्गमञ्चतुरङ्गुल्यं गुलमध्याङ्गुलाधिकम् ॥४४॥

कर्णं वै चतुरङ्गुल्यं विस्तारन्तु तदर्धतः ।
निम्नमेकाङ्गुलं प्रोक्तं कर्णनाहं त्रियङ्गुलम् ॥४५॥

षट्भागं कर्णनाहं स्यात् तन्मूलन्तु कलाधिकम् ।
तत्बाह्वोरन्तर स्कन्धौ ततः षट्त्रिंशदङ्गुलम् ॥४६॥

अग्रं त्रिभागनाहन्तु मणिबन्धेऽङ्गुलाधिकम् ।
इन्दुभागन्तलं ज्ञेयं रसाङ्गुलप्रमाणतः ॥४७॥

सप्ताङ्गुलं त्वथायामं द्व्यङ्गुलञ्चोन्नतं स्मृतम् ।
रेखाभिः संयुतं वत्समध्यनिम्नं बहिर्घनः ॥४८॥

करमध्याङ्गुलायामं सप्ताङ्गुलमुदिरितम् ।
मध्यादर्धाङ्गुलं ह्रासं तर्जन्यानामिके तथा ॥४९॥

भागमङ्गुष्ठमेवन्तु कनिष्ठस्य तथा भवेत् ।
अङ्गुष्ठस्य तथा नाहमायामसदृशं त्विह ॥५०॥

तस्मादर्धाङ्गुल ह्रासो मध्यमायास्तु नाहकाः ।
त्रियङ्गुलन्तु विज्ञेया तर्जन्यानुमिकाद्वयोः ॥५१॥

तदर्धाङ्गुलहीनन्तु कनिष्ठस्य तु नाहकम् ।
अङ्गुलीनान्तु पर्वं स्यात् पञ्चभागैकमूर्ध्वतः ॥५२॥

द्विभागं मध्यमं पूर्वं तत्समन्तु तदा स्मृतः ।
अङ्गुष्ठन्तु द्विपर्वं स्यादधश्चोर्ध्व समंमतम् ॥५३॥

नखं वै चाग्र पर्वाग्रमङ्गुलीनां प्रमाणतः ।
मकुटस्य तु चोत्सेधं मुखं भागाधिकन्तु वा ॥५४॥

तदर्धाधिकमेवाथ द्विगुणं नाहमुच्यते ।
ईश्वरस्य चतुर्नाहं तथा भूतगणाधिपौ ॥५५॥

समानमेव सर्वेषां विशेषाकृतिरुच्यते ।
ईश्वरस्य तु वक्ष्येऽहं यथा वदनुपूर्वशः ॥५६॥

ईश्वरं ह्यात्म तत्वस्थं सर्वतोक्षि शिरोमुखम् ।
इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ॥५७॥

कर्णिकाकेसरैर्युक्तं पंकजन्तु महेश्वरम् ।
पञ्चमूर्ध्वञ्चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ॥५८॥

चतुरास्यञ्चतुर्नासी वसुश्रोत्रञ्चतुर्गलम् ।
तनुरेतत् द्विपादं हि सायुधं दशबाहुकम् ॥५९॥

शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ।
चद्रांशुहिमशितञ्च सर्वाभरणभूषितम् ॥६०॥

शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् ।
अभयं शूलपरशुं वज्रं खट्गं च दक्षिणे ॥६१॥

खेटकांकुशपाशञ्च घण्टांवरदवामके ।
कुर्यादेवं महेशन्तु शक्तेस्तु लक्षणं शृणु ॥६२॥

चतुर्भुजां त्रिणेत्राञ्च सर्वालङ्कारसंयुताम् ।
नितंबतटविस्तीर्णां मध्यक्षामांस्तनोन्नताम् ॥६३॥

दक्षिणे चोत्पलोपेतां वामहस्तेस्रजन्धरीम् ।
वरदाभयहस्तां वै दुकूलवसनान्विताम् ॥६४॥

करण्डमकुटोपेतामीश्वरस्य तु वामके ।
पीठे चैकासने युक्तां तत्प्रभामण्डले स्थिताम् ॥६५॥

चन्द्रार्काग्नि प्रतीकाशां जगन्मङ्गलकारकाम् ।
कारयेद् ईश्वरीमेवं वामादीनां शृणुष्व हि ॥६६॥

वामादीशाष्ट शक्तिंस्तु ईश्वरीं च पृथक् पृथक् ।
ईश्वरस्य च हन्वन्तं बाह्वन्तं वास्तनान्तकम् ॥६७॥

ईश्वरीदिशमाख्यातं शक्तीनां तत् त्रिपादतः ।
तद्वदा व्रतदेवानामायामन्तु विधीयते ॥६८॥

ब्रह्मविद्याङ्ग पञ्चाङ्ग विद्येशाश्च गणेश्वराः ।
त्रिणेत्राश्चतुर्भुजाः सौम्याः सर्वाभरणभूषिताः ॥६९॥

नमस्कारकराः सर्वे ह्यक्षमालाब्जधारकाः ।
जटामकुटसंयुक्ताः सर्वे सम्यक् प्रकीर्तिताः ॥७०॥

तेषां वर्णं पुराप्रोक्तं लक्षणेन समन्वितम् ।
एवं आवृत देवानां ममरूपाणि च शृणु ॥७१॥

आद्यं सुखासनञ्चैव द्वितीयमुमया सह ।
वृषारूढं तृतीयन्तु त्रिपुरारिञ्चतुर्थकम् ॥७२॥

नृत्ताख्यं पञ्चमं रूपं षष्ठं सोमार्धशेखरम् ।
सप्तमं च धनादीशं हरिरर्धन्तु चाष्टमम् ॥७३॥

भिक्षाटनञ्च नवमं दशमंकामनाशनम् ।
एकादशन्तु कालघ्नं ततो लिङ्गपुराणिकम् ॥७४॥

द्वादश प्रतिमां ह्येवं तेषां लक्षणमुच्यते ।
मेरुपर्वत पार्श्वे तु मुनीनामाश्रमे तथा ॥७४॥

दिगंबरन्तु मान् दृष्ट्वा तेषां स्त्रीणांभ्रमोसिवै ।
तं ज्ञात्वा मुनयः सर्वे जुहुयास्त्वाभिचारकम् ॥७५॥

तन्मध्ये हृदयेतानि नागङ्कृष्णा मृगं तथा ।
अपस्मारञ्च परशुमुक्षं व्याघ्रं हरिं तथा ॥७६॥

करोटिन्तु महाभीमामेवमाद्यागतोमयि ।
नागं मृगञ्च परशुं क्रीडार्थन्धारितं मया ॥७७॥

पादाधसादपस्मारं करोटिं शिरसोपरि ।
सिंहव्याघ्रौ तदा हत्वा तच्चर्मन्धारितं मया ॥७८॥

तदुक्षं वाहनं भूत्वा ममप्रियकरं सदा ।
महोदधेर्विषं कण्ठे सोमार्धं शेखरे धृतम् ॥७९॥

बकपुष्पं जटाभारे मयानृत्ते वधारितम् ।
समानमन्यत् सर्वेषां प्रतिमानां विशेषतः ॥८०॥

त्रिणेत्रञ्चतुर्भुजं सौम्यं बालेन्दु कृतशेखरम् ।
धुर्तूरभुजगोपेतं जटामकुटमण्डितम् ॥८१॥

व्याघ्रचर्मांबरञ्चैव हारकेयूरसंयुतम् ।
यज्ञोपवीतसंयुक्तं कुण्डलाभ्यामलं कृतम् ॥८२॥

मूर्तीनां द्वादशानान्तु सामान्यमिदमिरितम् ।
अतः परं विशेषन्तु क्रमशो वक्ष्यतेऽधुना ॥८३॥

आसने तु सुखासीनं मृगीपरशुधारिणम् ।
अभयं दक्षिणे हस्तं वरदं वामहस्तके ॥८४॥

कटकं वा सुखासीनमुमा स्कन्दौ च वर्जितम् ।
एवं सुखासनं प्रोक्तमुमा सहितमुच्यते ॥८५॥

सहासने ह्युमादेवीं सुसौम्यवदनोज्वलाम् ।
द्विभूजां पद्महस्तान्तु मकुटाभरणान्विताम् ॥८६॥

कटकाख्य ध?रांवामे प्रसारितमथापि वा ।
उमा बाहुस्तनान्तं वा मानं वै षण्मुखस्य तु ॥८७॥

प्. १७०) कण्ठेशूलसमायुक्तं च्छन्नवीरसमायुतम् ।
उमा शङ्करयोर्मध्ये स्कन्तं वै बालरूपिणम् ॥८८॥

आसनं स्थानकं वापि वरदं कटकान्वितम् ।
कृत्वा सुखासनं यद्वत् पूर्ववत् परमेश्वरम् ॥८९॥

देवस्यमुखमन्वीक्ष्य किञ्चित् गौरीन्तु कारयेत् ।
वृषारूढमथोवक्ष्ये वृषभं पृष्ठत स्थितम् ॥९०॥

उमारुद्रौ स्थितौ कृत्वा कूर्परं वृषमस्तके ।
मृगं परशु संयुक्तं कर्तव्यं वृषवाहनम् ॥९१॥

धनुर्बाणसमायुक्तं कृष्णां परशुधारिणम् ।
उमया सहितं देह कृत्वा तत्त्रिपुरान्तकम् ॥९२॥

नृत्तार्थोद्धृत वामांघ्रिजानुनाभि समोत्थितम् ।
पादाङ्गुष्ठं समोजानु जान्वङ्गुष्ठ समोद्धृतम् ॥९३॥

प्रसार्य वामहस्तञ्च दण्डवद्धृदयोपरि ।
अभयं दक्षिणं हस्तं शेषण्डमरुकान्वितम् ॥९४॥

कण्ठसीमान्तमुधृत्य यथा शोभं प्रकल्पयेत् ।
साग्निकं वामहस्तन्तु बाहुसीमान्तमुद्धृतम् ॥९५॥

पादाधस्तमपस्मारं सर्पक्रीडा समन्वितम् ।
धुर्तूरकां करोटीञ्च गङ्गेन्दुबकपिञ्छकम् ॥९६॥

तिस्रः पञ्चजटाः सप्त प्रसार्यकुसुमोज्वलाः ।
सव्ये त्वेवन्तथा वामे दिप्ताग्निसदृशोज्वलाः ॥९७॥

नृत्तरूपमिदं वत्स सर्वशान्त्यर्थमुच्यते ।
ऋज्वागतन्तु तं देवं मृगं परशुधारिणम् ॥९८॥

कृत्यंबरधरं देवं कर्तव्यञ्चन्द्रशेखरम् ।
दक्षिणार्धे हरञ्चैव वामार्द्धे पार्वती तथा ॥९९॥

दक्षिणं कुञ्चितं पादं वामपादमृजु स्थितम् ।
मध्यकायानतौ वक्रमेवं कुर्यात् त्रिभागिकम् ॥१००॥

हरस्य दक्षिणे हस्ते कूर्परं वृषके स्थितम् ।
प्रकोष्ठे शुकसंयुक्तं हरं परशु संयुतम् ॥१०१॥

वामे कटकहस्तन्तु दक्षिणेत्वभयं स्मृतम् ।
श्यामवर्णमुखां देवीं रक्तवर्णं हरं तथा ॥१०२॥

व्याघ्रचर्मांबरं देवं पार्वतीं क्षौमधारिणीम् ।
पितांबरधरं विष्णुं व्याघ्रचर्मांबरं हरम् ॥१०३॥

विष्णुं किरीटसंयुक्तं शंकरन्तु जटान्वितम् ।
श्यामवर्णं हरिञ्चैव शंकरं युक्तरूपिणम् ॥१०४॥

हरिरर्धमिदं प्रोक्तं भिक्षाटनमतः परम् ।
सृष्टिमूर्तेः कपालन्तु स्थितिमूर्तेः कलेबरम् ॥१०५॥

डमरुकसमोपेतं भस्मसर्पैरलङ्कृतम् ।
कण्ठेशूलसमायुक्तं छन्नवीरसमायुतम् ॥१०६॥

पादुको परिपादौ च सर्वभूतसमावृतम् ।
एवं भिक्षाटनं वत्सकामनाशमथ शृणु ॥१०७॥

उग्ररूपन्तु कामारि पार्श्वे कामं प्रपातितम् ।
कार्यं कामारिपुं ह्येवं वक्ष्येऽहं कालनाशनम् ॥१०८॥

दक्षिणे तु करेशूलं वामे सूच्यङ्गुलि स्मृतम् ।
पादं कालस्य हृदये न्यस्त्वैवं पादसंस्थितम् ॥१०९॥

कालनाशमिदं प्रोक्तं लिङ्गात् पत्तिमतः परम् ।
लिङ्गं कृत्वोर्ध्वत ब्रह्मा हंसरूपन्तथैव च ॥११०॥

विष्णुं वराहवक्त्रन्तु लिङ्गस्याद्धः प्रकल्पयेत् ।
हृदयेऽञ्जलिसंयुक्तौ ब्रह्माविष्णू च पार्श्वयोः ॥१११॥

लिङ्गं मध्ये तु कर्तव्यं पूर्ववचन्द्रशेखरम् ।
अदृश्यौ तस्य पादाब्जौ तथैव मकुटं यथा ॥११२॥

प्रोक्तं द्वादशमूर्तिनां रूपभेदं गजानन ।
देव्यास्तु लक्षणं वक्ष्ये समासाच्छृणु सांप्रतम् ॥११३॥

हन्वन्तं बाहुसीमान्तं स्तनान्तं समुच्छ्रयम् ।
द्विभुजां श्यामवर्णान्तु सर्वाभरणभुषिताम् ॥११४॥

दक्षिणे चोत्पलं ग्राह्य वामहस्तं प्रसारयेत् ।
किरीटं वा करण्डाख्यन्तुङ्गपीनपयोधराम् ॥११५॥

पूर्वोक्तमध्यनाहस्य सप्तांशैकं परित्यजेत् ।
मध्यनाहमिदं प्रोक्तमन्यत्सर्वं समं तथा ॥११६॥

गौरीरूपमिदं विद्धि विष्णुरूपं ततः शृणु ।
शङ्खचक्रधरं देवं पीतांबरधरं हरिम् ॥११७॥

श्रीभूमिसहितं देवं सर्वालङ्कारसंयुतम् ।
स्थितं वाथसमाहीनं शयितं वापि कारयेत् ॥११८॥

चतुर्मुखञ्चतुर्बाहुं कमण्डल्वक्षधारिणम् ।
रक्तवर्णजटायुक्तं कृत्वा ब्रह्माणमुज्वलम् ॥११९॥

सावित्रीं वामपार्श्वे तु सर्वालङ्कारसंयुताम् ।
एवं चतुर्मुखं कुर्यात् जगत् सृष्टिकरं शुभम् ॥१२०॥

अन्येषां प्रतिमानान्तु तेषां संस्थापनाविधौ ।
लक्षणं प्रोच्यते सम्यग्यधावनुपूर्वशः ॥१२१॥

सकलानामिदं प्रोक्तमङ्कुरस्य विधिं शृणु ।

इति सकललक्षणविधिपटलश्चतुस्त्रिंत्तमः ॥३४॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP