संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
वासुदेवं हृषीकेशं वामनं ज...

श्रीविष्णुशतनामस्तोत्रम् - वासुदेवं हृषीकेशं वामनं ज...

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


वासुदेवं हृषीकेशं वामनं जलशायिनम् ।
जनार्दनं हरिं कृष्णं श्रीवक्षंबगरुडध्वजम् ॥१॥
वराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुं अनन्तमजमव्ययम् ॥२॥
नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् ।
गोवर्द्धनोद्धरं देवं भूधरं भुवनेश्वरं ॥३॥
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ॥४॥
वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकेश्वरं ॥५॥
रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥६॥
दामोदरं दमोपेतं केशवं केशिसूदनम् ।
वरेण्यं वरदं विष्णुं आनन्दंबवसुदेवजम् ॥७॥
हिरण्यरेतसं दीप्तं पुराणंबपुरुषोत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणंबगुणशाश्वतम् ॥८॥
हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ।
मेघश्यामं चतुर्बाहुं कुशलंबकमलेक्षणम् ॥९॥
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्ब।
सर्वज्ञं सर्वरूपस्थं सर्वेशंबसर्वतोमुखम् ॥१०॥
ज्ञानं कूटस्थमचलं ज्ञानदंबपरमं प्रभुम् ।
योगीशं योगनिष्णातं योगिनंबयोगरूपिणम् ॥११॥
ईश्वरं सर्वभूतानां वन्दे भूतमयंबप्रभुम् ।
इति नामशतं दिव्यं वैष्णवंबखलु पापहम् ॥१२॥
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठेत् प्रातरुत्थाय स भवेत्बवैष्णवो नरः
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ॥१३॥

N/A

References : N/A
Last Updated : January 06, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP