संस्कृत सूची|संस्कृत साहित्य|अष्टोत्तरशतनामस्तोत्र|
श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम्

श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम्

अष्टोत्तरशतनामस्तोत्र म्हणजे देवी देवतांची एकशे आठ नावे.
Ashtottara shatanamavali means 108 names of almighty God and Godess.


विनायको विघ्नराजः गौरीपुत्रो गणेश्वरः
स्कन्दाग्रजोऽव्ययो पूतः दक्षोऽध्यक्षो द्विजप्रियः ॥१-१०॥
अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः
सर्वसिद्धिप्रदः शर्वतनयो शर्वरीप्रियः ॥११-१६॥
सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः
शुद्धो बुद्धिप्रियो शान्तः ब्रह्मचारी गजाननः ॥१७-२६॥
द्वैमात्रेयो मुनिस्तुत्यः भक्तविघ्नविनाशनः
एकदन्तश्चचतुर्बाहुः चतुरो शक्तिसंयुतः ॥२७-३३॥
लंबोदरो शूर्पकर्णः हरिर्ब्रह्मविदुत्तमः
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥३४-४१॥
पाशाङ्कुशधरश्चण्डः गुणातीतो निरञ्जनः
अकल्मषः स्वयंसिद्धः सिद्धार्चितपदांबुजः ॥४२-४८॥
बीजपूरफलासक्तः वरदो शाश्वतः कृतिः
विद्वत्प्रियो वीतभयः गदी चक्रीक्षुचापधृक् ॥४९-५७॥
श्रीदोऽजोत्पलकरः श्रीपतिःस्तुतिहर्षितः
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥५८-६५॥
चन्द्रचूडामणिः कान्तः पापहारी समाहितः
आश्रितः श्रीकरः सौम्यः भक्तवाञ्छितदायकः ॥६६-७३॥
शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः
ज्ञानी दयायुतो दान्तः ब्रह्मद्वेषविवर्जितः ॥७४-८०॥
प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः
रमार्चितो विधिर्नागराजयज्ञोपवीतवान् ॥८१-८६॥
स्थूलकण्ठ: स्वयंकर्ता सामघोषप्रियो परः
स्थूलतुण्डोऽग्रणीर्धीरो वागीशो सिद्धिदायकः ॥८७-९५॥
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान्
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥९६-९९॥
स्वलावण्यसुधासारजितमन्मथविग्रहः
समस्तजगदाधारो मायी मूषिकवाहनः ॥१००-१०४॥
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥१०५-१०८॥

N/A

References : N/A
Last Updated : February 15, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP