संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
षष्टितमोऽध्यायः

भविष्यपर्व - षष्टितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


कुबेरस्य अनुह्रादेन सार्द्धं भयंकरं युद्धम्

वैशम्पायन उवाच
धनाध्यक्षमनुह्रादः प्रह्रादस्यानुजो बली ।
ससैन्यं योधयामास क्षोभयन् यक्षवाहिनीम् ॥१॥
महता च बलौघेन त्वनुह्रादोऽसुरोत्तमः ।
अर्दयामास संक्रुद्धो धनाध्यक्षं प्रतापवान् ॥२॥
अमृष्यमाणस्त्रिदशानाहवस्थानुदायुधान् ।
चकार कदनं घोरं धनुष्पाणिर्महासुरः ॥३॥
आवर्त इव संजज्ञे बलस्य महतो महान् ।
क्षुभितस्याप्रमेयस्य सागरस्येव सम्प्लवे ॥४॥
त्रिदशानां शरीरैस्तु दानवानां च मेदिनी ।
बभूव निचिता घोरैः पर्वतैरिव सम्प्लवे ॥५॥
मेरुपृष्ठं तु रक्तेन रञ्जितं सम्प्रकाशते ।
सर्वतो माधवे मासि पुष्पितैरिव किंशुकः ॥६॥
हतैर्वीरैर्गजैरश्वैः प्रावर्तत महानदी ।
शोणितौघा महाघोरा यमराष्ट्रविवर्धिनी ॥७॥
शकृन्मेदोमहापङ्का सम्प्रकीर्णान्त्रशैवला ।
छिन्नकायशिरोमीना अङ्गावयवशाद्वला ॥८॥
गृध्रहंससमाकीर्णा केकिसारसनादिता ।
वसाफेनसमाकीर्णा प्रोत्क्रुष्टस्तनितस्वरा ॥९॥
तां कापुरुषदुस्तारां युद्धभूमौ महानदीम् ।
नदीमिवातपापाये हंससंघोपशोभिताम् ॥१०॥
त्रिदशा दानवाश्चैव तेरुस्ते दुस्तरां नदीम् ।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥११॥
ततः सृजन्तं बाणौघाँननुह्रादं रथे स्थितम् ।
ददर्श तरसा देवो निघ्नन्तं यक्षवाहिनीम् ॥१२॥
क्रुद्धस्ततो दैत्यबलं सूदयामास वित्तपः ।
विक्षिपन्निव खे वायुर्महाभ्रपटलं बलात् ॥१३॥
समीक्ष्य तुमुलं युद्धमनुह्रादश्च वीर्यवान् ।
रथेनादित्यवर्णेन कुबेरमभिदुद्रुवे ॥१४॥
स धनुर्धन्विनां श्रेष्ठो विकृष्य रणमूर्धनि ।
उत्ससर्ज शितान् बाणान्वित्तेशस्य महात्मनः ॥१५॥
कुबेरं प्राप्य ते बाणा निर्भिद्य सुसमाहिताः ।
अपरान्पृष्ठतो जघ्नुर्व्यासक्तान्यक्षराक्षसान् ॥१६॥
देवः शरैरभिहतो निशितैर्ज्वलनोपमैः ।
अनुह्रादं प्रत्युदियात् संक्रुद्धः परमाहवे ॥१७॥
ततो वैश्रवणो राजा क्रुद्धो यक्षगणैः सह ।
ववर्ष शरवर्षाणि दानवं प्रति वीर्यवान् ॥१८॥
तद्यथा शारदं वर्षं गोवृषः शीघ्रमागतम् ।
अपारयन् वारयितुं प्रतिगृह्णन् निमीलितः ॥१९॥
एवमेव कुबेरस्य शरवर्षं महासुरः ।
निमीलिताक्षः सहसा दैत्यः सहति दारुणम् ॥२०॥
रोषितः शरवर्षेण धनदेन महासुरः ।
इन्द्रकेतुप्रतीकाशमभीतोऽपश्यत द्रुमम् ॥२१॥
प्रवृद्धशाखाविटपं तरुणाङ्कुरपल्लवम् ।
उत्पाट्य कुपितो दैत्यस्तरुं फलसमन्वितम् ॥२२॥
निजघान हयाञ्छ्रेष्ठान् कुबेरस्य महात्मनः ।
तस्य कर्म महाघोरं दृष्ट्वा सर्वे महासुराः ॥२३॥
सिंहनादं नदन्ति स्म अनुह्रादप्रहर्षिताः ।
तयोस्तु तुमुलं युद्धं संजज्ञे देवदैत्ययोः ॥२४॥
ततस्तौ क्रोधरक्ताक्षावन्योन्यवधकाङ्क्षिणौ ।
अन्योन्यं विविधैः शस्त्रैर्घोरैर्जघ्नतुराहवे ॥२५॥
त्रिदशा दानवान् सर्वे मथित्वा प्राणदंस्तदा ।
दानवैस्त्रिदशाश्चापि क्रुद्धैर्भुवि निपातिताः ॥२६॥
दानवास्त्वथ संक्रुद्धास्त्रिदशान् निशितैः शरैः ।
विव्यधुर्वज्रसंकाशैः कङ्कपत्रैरजिह्मगैः ॥२७॥
विदार्यमाणा दैत्यौघैस्त्रिदशास्तु महाबलाः ।
अमर्षिततराश्चक्रुर्युद्धकर्माण्यभीतवत् ॥२८॥
तैर्गदाभिः सुभीमाभिः पट्टिशैः शूलमुद्गरैः ।
परिघैश्च सुतीक्ष्णाग्रैर्दानवाः पीडिताः शरैः ॥२९॥
शरनिर्भिन्नगात्राश्च खड्गविच्छिन्नवक्षसः ।
जगृहुस्ते शिलाश्चैव द्रुमाश्चासुरसत्तमाः ॥३०॥
ते भीमवेगा दितिजा नर्दमानाः पुनः पुनः ।
ममन्थुस्त्रिदशान् वीर्याच्छतशोऽथ सहस्रशः ॥३१॥
ततस्तु तुमुलं युद्धं तेषां समभिवर्तत ।
शिलाभिर्विपुलाभिश्च शतशश्चैव पादपैः ॥३२॥
परिघैः पट्टिशैर्भल्लैर्भिन्दिपालैः परश्वधैः ।
केचिन्निवृत्तशिरसः केचिच्च विदलीकृताः ॥३३॥
केचिद् विनिहता भूमौ रुधिरार्द्राः सुरासुराः ।
केचिद् रणाजिरान्नष्टाः परस्परवधार्दिताः ॥३४॥
विभिन्नहृदयाः केचिच्छिन्नपादाश्च शेरते ।
विदारितास्त्रिशूलैश्च केचित् तत्र गतासवः ॥३५॥
तत् सुभीमं महद्युद्धं देवदानवसंकुलम् ।
बभूव तुमुलं युद्धं शिलापादपसंकुलम् ॥३६॥
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।
आर्तस्तनितघोषाढ्यं युद्धं गान्धर्वमाबभौ ॥३७॥
कुबेरः स धनुष्पाणिर्दानवान् रणमूर्धनि ।
दिशो विद्रावयामास संक्रुद्धः शरवृष्टिभिः ॥३८॥
कुबेरेणार्दितं सैन्यं विद्रुतं प्रेक्ष्य दानवः ।
अम्यद्रवदनुह्रादः प्रगृह्य महतीं शिलाम् ॥३९॥
क्रोधाद् द्विगुणरक्ताक्षः पितृतुल्यपराक्रमः ।
शिलां तां पातयामास कुबेरस्य रथोत्तमे ॥४०॥
आपतन्तीं शिलां दृष्ट्वा गदापाणिर्धनाधिपः ।
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥४१॥
सचक्रकूबरहयं सध्वजं सशरासनम् ।
भङ्क्त्वा रथोत्तमं तस्य निपपात शिला भुवि ॥४२॥
विमथ्य तु कुबेरस्य प्रह्रादस्यानुजो रथम् ।
शूराणां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ॥४३॥
निर्भिन्नशिरसो भग्नास्त्रिदशाः शोणितोक्षिताः ।
द्रुमप्रव्यथिताङ्गाश्च निपेतुर्धरणीतले ॥४४॥
विद्राव्य विपुलं सैन्यमनुह्रादो महासुरः ।
गिरिशृङ्गं गृहीत्वा तु कुबेरमभिदुद्रुवे ॥४५॥
तमापतन्तं धनदो गदामुद्यम्य वीर्यवान् ।
विनदित्वाऽऽह्वयामास दानवेन्द्रं महाबलम् ॥४६॥
तस्य दैत्यस्य संक्रुद्धो गदां तां बहुकण्टकाम् ।
न्यपातयत वित्तेशो दानवस्योरसि प्रभो ॥४७॥
दैत्यः सक्रोधताम्राक्षस्तं प्रहारमचिन्तयन् ।
वित्तेशस्योपरि तदा गिरिशृङगमपातयत् ॥४८॥
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।
पपात सहसा भूमौ विशीर्ण इव पर्वतः ॥४९॥
वित्तेशं विह्वलं दृष्ट्वा सर्वे ते यक्षराक्षसाः ।
परिवार्य महात्मानं ररक्षुर्भीमविक्रमाः ॥५०॥
मुहूर्तं विह्वलो भूत्वा पुनर्विश्रवसः सुतः ।
उपतस्थे च सहसा धनदः क्रोधमूर्च्छितः ॥५१॥
स ननाद महानादं त्रैलोक्यमभिनादयन् ।
जनयन्निव निर्घोषं विधमन्निव पर्वतान् ॥५२॥
तमवध्यं तु विज्ञाय निहन्तुं पुनरुत्थितम् ।
प्रेक्ष्य पिङ्गाक्षमायान्तं दानवा विप्रदुद्रुवुः ॥५३॥
तांस्तु विद्रवतो दृष्ट्वानुह्रादो ह्यसुरोऽब्रवीत् ।
कालनेमिं दानवं च वीर्यदर्पसमन्वितम् ॥५४॥
आत्मानं चैव वीर्यं च विस्मृत्याभिजनं तथा ।
क्व गच्छथ भयत्रस्ताः प्राकृता इव दानवाः ॥५५॥
निवर्तध्वं महावीर्याः किं प्राणान् परिरक्षथ ।
नालं युद्धाय यक्षोऽयं महतीयं विभीषिका ॥५६॥
एतां विभीषिकामद्य दानवानां समुत्थिताम् ।
विक्रम्य विधमिष्यामि निवर्तध्वं महासुराः ॥५७॥
तेऽसुराः संनिवृत्ताश्च समदा इव कुञ्जराः ।
निजघ्नुः परमक्रुद्धा देवसैन्यं महासुराः ॥५८॥
क्षीणप्रहरणाः केचिन्महामेघनिभस्वनाः ।
दर्पोत्कटा भुजैरेव सम्प्रहारं प्रचक्रिरे ॥५९॥
प्रांशुभिश्चैव काष्ठैश्च शिलाभिश्च महाबलाः ।
बाहुभिश्च तथान्योन्यमाक्षिपन्ति स्म वेगिताः ॥६०॥
मुष्टिभिश्च तलैश्चैव नखपातैर्महाबलाः ।
पादपैश्च महाशाखैरयुध्यन्त रणाजिरे ॥६१॥
अनुह्रादस्तु संक्रुद्धो देवतानां महाचमूम् ।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥६२॥
रुधिरार्द्रास्तु बहवः शेरते योधसत्तमाः ।
विकृताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥६३॥
अनुह्रादस्य विक्रान्तो देवस्त्वाशीविषोपमान् ।
युध्यमानस्य समरे व्यसृजन्निशिताञ्छरान् ॥६४॥
धनाधिपेन विद्धस्य अनुह्रादस्य संयुगे ।
अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥६५॥
अथ बाणसहस्रेण वित्तेशं दानवोत्तमः ।
विव्याध स शरैः क्रुद्धो दण्डपाणिरिवान्तकः ॥६६॥
कुबेरस्तु शरैर्भिन्नः समन्तात्क्षतजोक्षितः ।
रुधिरं परिसुस्राव गिरिः प्रस्रवणैरिव ॥६७॥
लब्ध्वा स तु पुनः संज्ञां रोषरक्तेक्षणः सुरः ।
गदामथ समासाद्य भीमां भीमपराक्रमः ।
चिक्षेप दैत्यमुद्दिश्य बलात्क्रोधेन मूर्छितः ॥६८॥
अप्राप्तामन्तरे सोऽथ तां गदां गदयासुरः ।
बभञ्ज विनदन् क्रुद्धस्तदाश्चर्यमभूत् तदा ॥६९॥
प्रगृह्य तु गदां भूयो ह्यभिदुद्राव दानवम् ।
तमापतन्तं दृष्ट्वैव अनुह्रादो महाबलः ॥७०॥
गिरिशृङ्गमिवोत्पाट्य कैलासाचलसंनिभम् ।
धनाधिपं प्रदुद्राव व्यादितास्य इवान्तकः ॥७१॥
तमन्तकमिवायान्तमजेयं सकलैः सुरैः ।
ग्रसन्तमिव तं दैत्यं त्रैलोक्यमखिलं रुषा ॥७२॥
तमालोक्य तथा भूतं धनाध्यक्षो रणं भयात् ।
अपहाय ययौ तत्र यत्र शक्रः सुराधिपः ॥७३॥
तस्य चापि महत् कर्म दृष्ट्वा वित्तपतिस्तदा ।
जगाम भयसंत्रस्तो यत्र देवः शचीपतिः ॥७४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि वामनप्रादुर्भावे देवासुरयुद्धे
अनुह्रादकुबेरयुद्धवर्णने षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP