संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
अष्टमोऽध्यायः

भविष्यपर्व - अष्टमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


सत्ययुगादीनां परिमाणानां वर्णनम्
वैशम्पायन उवाच
चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् ।
तस्य तावच्छती संध्या द्विगुणा जनमेजय ॥१॥
तत्र धर्मश्चतुष्पादो ह्यधर्मः पादविग्रहः ।
स्वधर्मनिरताः सन्तो यजन्ते चैव मानवाः ॥२॥
स्थिता धर्मपरा विप्रा राजवृत्तौ स्थिता नृपाः ।
कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवस्तथा ॥३॥
सदा सत्यं तपश्चैव धर्मश्चैव विवर्धते ।
सद्भिराचरितं यच्च क्रियते ख्यायते च यत् ॥४॥
एतत् कृतयुगे वृत्तं सर्वेषामेव भारत ।
प्राणिनां धर्मबुद्धीनामपि चेन्नीचयोनिनाम् ॥५॥
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।
तस्य तावच्छती संध्या द्विगुणा परिकीर्तिता ॥६॥
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः ।
तत्र सत्यं च सत्त्वं च कृते सर्वं प्रवर्तते ॥७॥
त्रेतायां विकृतिं यान्ति वर्णा लौल्येन संयुताः ।
चातुर्वर्ण्यस्य वैकृत्याद्यान्ति दौर्बल्यमाश्रिताः ॥८॥
एष त्रेतायुगविधिर्विहितो देवनिर्मितः ।
द्वापरस्यापि या चेष्टा तामपि श्रोतुमर्हसि ॥९॥
द्वापरं द्वे सहस्रे तु वर्षाणां कुरुसत्तम ।
तस्य तावच्छती संध्या द्विगुणा परिकीर्तिता ॥१०॥
तत्राप्यर्थपरा विप्रा ज्ञानिनो रजसाऽऽवृताः ।
शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुपुङ्गव ॥११॥
द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः ।
विपर्ययं शनैर्यान्ति कृते ये धर्मसेतवः ॥१२॥
ब्राह्मण्यभावा नश्यन्ति तथास्तिक्यं विशीर्यते ।
व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये ॥१३॥
तथा वर्षसहस्रं तु वर्षाणां द्वे शते तथा ।
संध्यया सह संख्यातं क्रूरं कलियुगं स्मृतम् ॥१४॥
तत्राधर्मश्चतुष्पादः स्याद् धर्मः पादविग्रहः ।
कामनिष्ठास्तमश्छन्ना जायन्ते तत्र मानवाः ॥१५॥
नैवोपवासकृत् कश्चिन्न च साधुर्न सत्यवाक् ।
आस्तिको ब्रह्मवक्ता वा नरो भवति वै तदा ॥१६॥
अहंकारगृहीताश्च प्रक्षीणस्नेहबन्धनाः ।
विप्राः शूद्रसमाचाराः शूद्रास्त्वाचारलक्षणाः ॥१७॥
दूषकास्त्वाश्रमाणां च वर्णानां चैव संकराः ।
अगम्यास्वभिरंस्यन्ते वर्तन्त्येवं कलौ युगे ॥१८॥
एवं द्वादशसाहस्रं तदेकं युगमुच्यते ।
तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥१९॥
त्रय्यां चैव न संदेहो युगान्ते जनमेजय ।
दिव्यं द्वादशसाहस्रं युगं तु कवयो विदुः ।
एतत्सहस्रपर्यन्तं तदहो ब्राह्ममुच्यते ॥२०॥
ततोऽहनि गते तस्मिन् सर्वेषामेव देहिनाम् ।
शरीरनिर्वृतिं दृष्ट्वा रुद्रः संहारबुद्धिमान् ॥२१॥
देवतानां च सर्वेषां ब्राह्मणानां महीपते ।
दैत्यानां मानवानां च यक्षगन्धर्वरक्षसाम् ॥२२॥
देवर्षीणां ब्रह्मर्षीणां तथा राजर्षिणामपि ।
किंनराणामप्सरसां भुजङ्गानां तथैव च ॥२३॥
पर्वतानां नदीनां च पशूनां चैव भारत ।
तिर्यग्योनिगतानां च सत्त्वानां मृगपक्षिणाम् ॥२४॥
महाभूतपतिर्देवः पञ्चभूतानि भूतकृत् ।
जगत्संहरणार्थाय कुरुते वैशसं महत् ॥२५॥
भूत्वा सूर्यश्चक्षुषी चाददानो
भूत्वा वायुः संहरन् प्राणिजातम् ।
भूत्वा वह्निर्दह्यते सर्वलोकान्
मेघो भूत्वा भूय एवाभ्यवर्षत् ॥२६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे
कृतादियुगपरिमाणवर्णने अष्टमोऽध्यायः॥८॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP