संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
एकोनत्रिंशोऽध्यायः

भविष्यपर्व - एकोनत्रिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


तपसःप्रभावेण देवानां उत्कर्षम्

जनमेजय उवाच
संयुज्य तपसा देवाः किमकुर्वंस्ततः परम् ।
न हि तद् विद्यते लोके तपसा यन्न लभ्यते ॥१॥
वैशम्पायन उवाच
अथ दीक्षां समास्थाय सर्वे विष्णुमया गणाः ।
पुष्करादग्निमुद्धृत्य प्रणीय च यथाविधि ॥२॥
वहुवुर्मन्त्रविधिना ब्राह्मणा मन्त्रचोदिताः ।
हविषा मन्त्रपूतेन यथा वै विधिरेव च ॥३॥
स चाग्निर्विधिवत्तत्र वर्धते ब्रह्मतेजसा ।
तेजोभिर्बहुलीभूतः प्रभुः पुरुषविग्रहः ॥४
ब्रह्मदण्ड इति ख्यातो वपुषा निर्दहन्निव ।
दिव्यरूपप्रहरणो ह्यसिचर्मधनुर्धरः ॥५॥
सगदो लाङ्गली चक्री शरी चर्मी परश्वधी ।
शूली वज्री स्वङ्गपाणिः शक्तिमान् वरकार्मुकः ॥६॥
विष्णुश्चक्रधरः खड्गी मुसली लाङ्गलायुधः ।
नरो लाङ्गलमालम्ब्य मुसलं च महाबलः ॥७॥
वज्रमिन्द्रस्तपोयोगाच्छतपर्याणमक्षिपत् ।
रुद्रः शूलं पिनाकं च मनसाधारयद् भुवि ॥८॥
मृत्युर्दण्डं पाशमापः कालः शक्तिमगृह्णत ।
जग्राह परशुं त्वष्टा कुबेरश्च परश्वधम् ॥९॥
निर्विकारैः समायुक्ताः शतशोऽथ सहस्रशः ।
विश्वकर्मा च त्वष्टा च चक्राते ह्यायुधं बहु ॥१०॥
इन्द्रायाग्निरथं प्रादात् सूर्याय च प्रतापिने ।
परमात्मा ददौ कृष्णो रुद्राय च महात्मने ॥११॥
छन्दोभिरेव त्वष्टा च स चकाराथ वाहिनीम्
विश्वकर्मा विमानानि चकार बहुभिः क्रमैः ॥१२॥
शरीरांशं समुद्धृत्य विष्णुः सत्यपराक्रमः ।
पुष्करात् पर्वणि वनात् पृतनार्थं प्रवर्तयन् ॥१३॥
द्यां चैव सूर्यऋक्षाणां वाचा वै समकल्पयत् ।
यथा स पूज्यः संग्रामे शत्रून् निर्बिभिदे रणे ॥१४॥
स तं दण्डं समुचितं निर्विकारं समाहितम् ।
ब्रह्मा जग्राह विधिना अन्तर्धानगतः प्रभुः॥१५॥
स्वैः प्रभावैश्च विधिना सोऽस्त्रग्रामं चतुर्विधम् ।
ऐन्द्रमाग्नेयवायव्ये रौद्रं रौद्रेण वर्चसा ॥१६॥
एभिर्विकारैः संयुक्ता दितेः पुत्रा महाबलाः ।
तपसा शिक्षया चैव स्वास्त्रैः प्रहरणैरपि ॥१७॥
बलेन चतुरङ्गेण वीर्येण सुसमाहिताः ।
अप्रधृष्या रणे सर्वे समपद्यन्त वै तदा ॥१८॥
ते विहाय गुहामध्यं सभाण्डोपस्करे रथे ।
मन्दरस्य गिरेः पादे विचेरुर्वसुधातले ॥१९॥
चतुरङ्गं बलं सर्वं संहृत्य तमसः प्रभुः ।
विष्णुरेव महायोगांश्चचार वसुधातले ॥२०॥
भूयोऽन्यत्तप आसेदुश्चरन्तो ब्राह्मणैः सह ।
तैश्च सर्वैः सुरगणैर्धर्मचीरनिवासिभिः ॥२१॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे एकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP