संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
अष्टादशोऽध्यायः

भविष्यपर्व - अष्टादशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


योगस्य उपसर्गाः, योगिनः विष्णुरूपेण स्थितिः, कर्मलयात् मुक्तिः, सकामकर्मिणां धूममार्गेण गतिः पुनरावृत्ति च, ज्ञानिनं योगीं च तत्त्वस्य साक्षात्कारं, ब्रह्मयुगस्य वर्णनम्

जनमेजय उवाच
उपसर्गं च योगं च ध्यातव्यं चैव यत्पदम् ।
न भूयः पुनरायाति मानुषं देहविग्रहम् ।
सिद्धिं सिद्धिगुणांश्चैव श्रोतुमिच्छामि तत्त्वतः ॥१॥
वैशम्पायन उवाच
शृणु विस्तरतः सर्वं यथा पृच्छसि मेधया ।
उपपन्नेन मनसा ब्रह्मादीनामनेकधा ॥२॥
पञ्चसिद्धिगुणांस्त्यक्त्वा पश्यतो ब्रह्मणो नृप ।
योगयुक्तेन मनसा पञ्चेन्द्रियनिवासिनः ॥३॥
ब्रह्मणश्चिन्तयानस्य ब्रह्मयज्ञं सनातनम् ।
बहुरूपमनैश्वर्यात् प्रवर्तति निरोधनम् ॥४॥
पञ्चेन्द्रियस्य ग्रामस्य नवद्वारस्य भारत ।
कामक्रोधस्य लोभस्य संनिरुद्धस्य मेधया ॥५॥
तेजसा मूर्ध्नि चाधाय धूमो दोधूयते महान् ।
नीललोहितवर्णाभैः पीतैः श्वेतैश्च धातुभिः ॥६॥
माञ्जिष्ठरागवर्णाभैः कपोतसदृशैस्तथा ।
शुद्धवैदूर्यवर्णाभैः पद्मरागसमप्रभैः ॥७॥
स्फाटिकैर्मणिवर्णाभैनागेन्द्रसदृशैस्तथा ।
इन्द्रगोपकवर्णाभैश्चन्द्रांशुसलिलप्रभैः ॥८॥
बहुवर्णैः सुधूमौघैरिन्द्रायुधसमप्रभैः ।
सम्पतद्भिश्च युगपन्मेघैरिव समागतः ।
निरुध्यत इवाकाशं पक्षवद्भिरिवाद्रिभिः ॥९॥
ते धूमवर्णाः संघाता घनाः सलिलधारिणः ।
निर्वेमुश्चैव तोयौघान् विविशुर्वसुधातले ॥१०॥
मूर्ध्नि चैव महानग्निर्मानसो धूयते प्रभुः ।
युक्तः परमयोगेन शतशोऽर्चिभिरावृतः ॥११॥
तस्यार्चेर्विस्फुलिङ्गानां सहस्त्राणि शतानि च ।
विसस्रुः सर्वगात्रेभ्यो ज्वलन्निव युगाग्नयः ॥१२॥
यावत्यो वर्षधारास्तु तावत्यो ऽर्च्यो ऽनलस्य च ।
स्रमेयुर्वारिधाराभिर्विपुले वसुधातले ॥१३॥
वर्णाभ्यां युज्यमानस्य वायुर्दोधूयते महान् ।
दिव्यसिद्धगुणोद्भूतः सूक्ष्मप्राणविवर्धनः ॥१४॥
वेगवान् भीमनिर्घोषो बलवान् प्राणगोचरः ।
तैरेव चाग्निसंघातैर्धातुभिः सह संगतः ॥१५॥
सहस्रशोऽथ शतशो मूर्तिं कृत्वा पृथग्विधाम् ।
अग्निर्वायुर्जलं भूमिर्धातवो ब्रह्मचोदिताः ॥१६॥
समवायत्वमापन्ना बीजभूता महीपते ।
संघातं ब्रह्मवेगेन धातवो गमिता नृप ॥१७॥
यद् ब्रह्म चक्षुपोर्मध्ये स सूक्ष्मः पुरुषो विराट् ।
तयोरन्यान् बहून् सूक्ष्मान् ससृजे पुरुषोत्तमः ॥१८॥
स एव भगवान्विष्णुर्व्यक्ताव्यक्तः सनातनः ।
आधारः सर्वविद्यानां प्रलये प्रलयान्तकृत् ॥१९॥
तं मूर्ध्नि धातुभिर्नद्धं विशन्ति ब्रह्मचोदिताः ।
तेऽन्तराः पुरुषाः सर्वे ज्ञातारः सुखदुःखयोः ॥२०॥
अथ चेष्टितुमारब्धा मूर्तयो ब्रह्मसम्मिताः ।
भित्त्वा च धरणीं दैवीं प्रापद्यन्त दिशो दश ॥२१॥
इत्येते पार्थवाः सर्वे ऋषयो ब्रह्मनिर्मिताः ।
तत्रैव प्रलयं याता भूमित्वमुपयान्ति च ॥२२॥
कर्मक्षयाद् विमुच्यन्ते धातुभिः कर्मबन्धनैः ।
कर्मक्षयाद् विमुक्तत्वादिन्द्रियाणां च बन्धनात् ॥२३॥
तामेव प्रकृतिं यान्ति अज्ञातां कर्मगोचरैः ।
क्षराद् धूमक्षयं चैव अग्निगर्भास्तपोमयाः ॥२४॥
येन तन्तुरिवाच्छन्नो भावाभावः प्रवर्तते ।
धूमादभ्रास्तु सम्भूता अभ्रात्तोयं सुनिर्मलम् ॥२५॥
जगती जलात्तु सम्भूता जगत्येव च यत्फलम्
फलाद्रसस्तु संजज्ञे रसात्प्राणस्तु देहिनाम् ॥२६॥
रसश्च तन्मयो जज्ञे यत्तद् ब्रह्म सनातनम् ।
प्रधानं ब्रह्म चोद्दिष्टं बहुभिः कारणान्तरैः ।
ब्राह्मणैस्तपसि श्रान्तैः सत्यव्रतपरायणैः ॥२७॥
अव्यक्ताद् व्यक्तिमापन्नं स्वेन भावेन भारत ।
अन्तःस्थं सर्वभूतेषु चरन्तं विद्यया सह ॥२८॥
कर्म कर्तेति राजेन्द्र विषयस्थमनेकधा ।
नोपलभ्येत चक्षुर्भ्यां तपसा दग्धकिल्बिषैः ॥२९॥
उपलभ्येत चक्षुर्भ्यो ज्ञानिभिर्ब्रह्मवादिभिः ।
निःसृतस्तु भ्रुवोर्मध्यान्मेघमुक्त इवांशुमान् ॥३०॥
चरद्भिः पक्षिवल्लोके निर्द्वन्द्वैर्निष्परिग्रहैः ।
योगधर्मेण कौरव्य धुवमासाद्यते फलम् ॥३१॥
प्रादुर्भावं क्षयं चैव भूतस्य निधनं तथा ।
विधत्ते शतशो ब्रह्मा संक्षये च भवेत् तदा ॥३२॥
कर्मणः कर्म योगज्ञो भूतेभ्यो नात्र संशयः ।
अविनाशाय लोकस्य धर्मस्याप्यायनेन च ॥३३॥
युगं द्वादशसाहस्रं सहस्रयुगसंहितम् ।
एतद् ब्रह्मयुगं नाम युगानां प्रथमं युगम् ॥३४॥
सहस्रयुगयोरन्ते संहारः प्रलयान्तकृत् ।
सूक्ष्मं भवति लोकानां निर्विकारमचेतनम् ॥३५॥
तथा प्रलयमापन्नं जगत् सर्वं सनातनम् ।
ब्रह्म सम्पद्यते सूक्ष्मं निर्मितं कारणैर्गुणैः ॥३६॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पौष्करे अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP