प्रथम: पाद: - सूत्र १०

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्वपक्षदोषाच्च ॥१०॥

स्वपक्षदोषाच्च ॥ स्वपक्षे चैते प्रतिवादिन: साधारणा दोषा: प्रादु:ष्यु: ।
कथमित्युच्यते । यत्तावदभिहितं विलक्षणत्वान्नेदं जगहब्रम्हाप्रकृतिकमिति प्रधानप्रकृतिकतायामपि समानमेतच्छब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् ।
अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समान: प्रागुत्पत्तेरसत्कार्यवादप्रसङ्ग: ।
तथाऽपीतौ कार्यस्य कारणाविभागाभ्युपगमात्तद्वत्प्रसङ्गोऽपि समान: ।
तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेष्विदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदा न ते तथैव पुनरुत्पत्तौ नियन्तु शक्यन्ते कारणाभावात्  ।
विनैव कारणेन नियमेऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्ग: ।
अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केचिन्नेति चेत् ।
ये नापद्यन्ते तेषां प्रधानकार्यत्वं न प्राप्नोतीत्येवमेते दोषा: साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीत्यदोषतामेवैषां द्रढयति । अवश्याश्रयितव्यत्वात् ॥१०॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP