प्रथम: पाद: - सूत्र ३३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


लोकवत्तु लीलाकैवल्यम् ॥३३॥

लोकवत्तु लीलाकैवल्यम् । तुशद्बेनाक्षेपं परिहरति ।
यथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमनभिसन्धाय केवलं लीलारूपा: प्रवृत्तय: क्रीडाविहारेषु भवन्ति यथा चोच्छवासप्रश्चासादयोऽनभिसन्धाय बाहयं किञ्चित्प्रयोजनान्तरं स्वभावादेव संभवन्त्येवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति ।
न हीश्चरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायत: श्रुतितो वा संभवति ।
न च स्वभाव: पर्यनुयोक्तुं शक्यते ।
यद्यप्यस्माकमियं जगद्विम्बविरचना गुरुतरसंरम्भेवाभाति तथापि परमेश्चरस्य लीलैव केव लेयम्परिमितशक्तित्वात् ।
यदि नाम लोके नाक लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्षेत तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यत आप्तकामश्रुते: ।
नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा सृष्टिश्रुते: सर्वज्ञश्रुतेश्च ।
न चेयं परमार्थविषया सृष्टिश्रुतिरविद्याकल्पितनामरूपव्यवहारगोचरत्वादब्रम्हात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि नैव विस्मर्तव्यम् ॥३३॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP