प्रथम: पाद: - सूत्र ३१

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


विकरणत्वान्नेति चेत्तदुक्तम् ॥३१॥

विकरणत्वान्नेति चेत्तदुक्तम् ।
स्यादेतत् ।
विकरणां परां देवतां शास्ति शास्त्रम् ।
अचक्षुष्कममश्रोत्रमवागमना इत्येवंजातीयकम् ।
कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् ।
देवादयो हि चेतना: सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसम्पन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्ते ।
कथं च नेति नेतीति प्रतिषिद्धसर्वविशेषाया देवताया: सर्वशक्तियोग: संभवेदिति चेत् ।
यदत्र वक्त्रव्यं तत्पुरस्तादेवोक्तम् ।
श्रुत्यवगाहयमेवेदमतिगम्भीरं ब्रम्हा न तर्कावगाहयम् ।
न च यथैकस्य सामर्थ्यं दृष्टं तथाऽन्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीति ।
प्रतिषिद्धसर्वविशेषस्यापि ब्रम्हाण: सर्वशक्तियोग: संभवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव ।
तथा च शास्त्रम् ।
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षु: स शृणोत्यकर्ण: ।
इत्यकरणस्यापि ब्रम्हाण: सर्वसामर्थ्ययोगं दर्शयति ॥३१॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP