प्रथम: पाद: - सूत्र २९

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्वपक्षदोषाच्च ॥२९॥

स्वपक्षदौषाच्च ।
परेषामप्येष समान: स्वपक्षदोष: ।
प्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दाहिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमत: कार्यस्य कारणमिति स्वपक्ष: ।
तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति निरवयवत्वाभ्युपगमकोपो वा ।
ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते सत्त्वरजस्तमांसि हि त्रयो गुणास्तेषां साम्यावस्था प्रधानं तैरेवावयवैस्तत्सावयवमिति ।
नैवंजातीयकेन सावयवत्वेन प्रकृतो दोष: परिहर्तुं परिहर्तुं पार्यते ।
यत: सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवयवत्वम् ।
एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति समानत्वात्स्वपक्षदोषप्रसङ्गस्य ।
तर्काप्रतिष्थानात्सावयवत्वमेवेति चेत् ।
एवमप्यनित्यत्वादिओषप्रसङ्ग: ।
अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्राय: ।
तास्तु ब्रम्हावादिनोऽप्यविशिष्टा: ।
तथाऽणुवादिनोऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्येन संयुज्येत तत: प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्ग: ।
अथैकदेशेन संयुज्येत तथापि निरवयवत्वाभ्युपगमकोप इति स्वपक्षेऽपि समान एष दोष: ।
समानत्वाच्च नान्यतरस्मिन्नेव पक्ष उपक्षेप्तव्यो भवति ।
परिहृतस्तु ब्रम्हावादिना स्वपक्षे दोष: ॥२९॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP