प्रथम: पाद: - सूत्र १३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥१३॥

भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ।
अन्यथा पुनर्ब्रम्हाकारणवादस्तर्कबलेनैवाक्षिप्यते ।
यद्यपि श्रुति: प्रमाणं स्वविषये भवति तथापि प्रमाणान्तरेण विषयापहारेऽन्यपरा भवितुमर्हति ।
यथा मन्त्रार्थवादौ । तर्कोऽपि स्वविषयादन्यत्राप्रतिष्ठित: स्यात् ।
यथा धर्माधर्मयो: । किमतो यद्येवम् ।
अत इदमयुक्तं यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुते: ।
कथं पुन: प्रमाणान्तरप्रसिद्धोऽर्थ: श्रुत्या बाध्यत इति ।
अत्रोच्यते । प्रसिद्धो हययं भोक्तृभोग्यविभागो लोके भोक्ता चेतन: शारीरो भोग्या: शब्दादयो विषया इति ।
यथा भोक्ता देवदत्तो भोज्य ओदन इति ।
तस्य च विभागस्याभाव: प्रसज्येत यदि भोक्ता भोग्यभावमापद्येत भोग्यं वा भोक्तृभावमापद्यैत ।
तयोश्चेतरेतरभावापत्ति: परमकारणाहब्रणोऽनन्यत्वात्प्रसज्येत ।
न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् ।
यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो द्दष्टस्तथातीतानागतयोरपि कल्पयितव्य: ।
तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रम्हाकारणतावधारणमिति चेत्कश्चिच्चोदयेत्तं प्रति ब्रूयात्स्याल्लोकवदिति ।
उपपद्यत एवायमस्मत्पक्षेऽपि विभाग: ।
एवं लोके द्दष्टत्वात् । तथा हि समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीचीरतङ्गबुदबुदादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते ।
न च समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति ।
न च तेषामितरेतरभावानापत्तावपि समुद्रात्मनोऽन्यत्वं भवति ।
एवमिहापि न च भोक्तॄभोग्ययोरितरेतरभावापत्तिर्न च परस्माहब्रम्हाणोऽन्यत्वं भविष्यति ।
यद्यपि भोक्ता न ब्रम्हाणो विकारस्तत्सृष्टवा तदेवानुप्राविशदिति स्रष्टुरेवाविकृतरय कार्यानुप्रवेशेन भोक्तृत्वश्रवणात्तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्त इत्यत: परमकारणाहब्रणोऽनन्यत्वेऽप्युपपन्नो भोक्तृभोग्यलक्षणो विभाग: समुद्रतरङ्गादिन्ययेनेत्युक्तम् ॥१३॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP