संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
अस्वामिविक्रयः

कात्यायनस्मृतिः - अस्वामिविक्रयः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अस्वामिविक्रयं दानं आधिं च विनिवर्तयेत् ॥६१२॥

अभियोक्ता धनं कुर्यात्प्रथमं ज्ञातिभिः स्वकम् ।
पश्चादात्मविशुध्यर्थं क्रयं केता स्वबन्धुभिः ॥६१३॥

नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् ।
अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् ॥६१४॥

प्रकाशं वा क्रयं कुर्यान्मूलं वापि समर्पयेत् ।
मूलानयनकालस्तु देयो योजनसंख्यया ॥६१५॥

प्रकाशं च क्रयं कुर्यात्साधुभिर्ज्ञातिभिः स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥६१६॥

यदा मूलं उपन्यस्य पुनर्वादी क्रयं वदेत् ।
आहरेन्मूलं एवासौ न क्रयेण प्रयोजनम् ॥६१७॥

असमाहार्यमूलस्तु क्रयं एव विशोधयेत् ।
विशोधिते क्रये राज्ञा न वक्तव्यः स किंचन ॥६१८॥

अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥६१९॥

यदि स्वं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम् ।
प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डं अर्हति ॥६२०॥

वनिङ्वीथीपरिगतं विज्ञातं राजपुरुषैः ।
अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः ॥६२१॥

स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वक धनम् ।
अर्धं द्वयोरपहृतं तत्र स्याद्व्यवहारतः ॥६२२॥

अविज्ञातक्रयो दोषस्तथा चापरिपालनम् ।
एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ॥६२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP