संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः| उपनिधिः कात्यायनस्मृतिः राजगुणाः राजधर्माः व्यवहारलक्षणादि धर्माधिकरणम् कार्यदर्शनकालः प्राड्विवाकः सभ्याः कार्यनिर्णेतॄणां गुरुलाघवम् प्रश्नप्रकारः प्रतिनिधिः आह्वानं आसेधः अनासेध्याः प्रतिभूत्वेनाग्राह्याः अभियोक्त्रादीनां उक्तिक्रमः प्रतिज्ञास्वरूपम् प्रतिज्ञादोषाः पूर्वपक्षदोषाः चतुर्विधं उत्तरम् उत्तराभासा उत्तरदोषा वा वादहानिकराणि क्रियापादः लेख्यम् लेख्यपरीक्षा भुक्तिः युक्तिः साक्षिणः साक्षिदोषोद्भावनम् साक्षिणां दोषा दण्डाश्च दिव्यदेशाः विधिः निर्णयकृत्यम् दण्डविधिः पुनर्न्यायः ऋणादाने वृद्धिविचारः आकृतवृद्धिः वृद्धेः परिमाणं ऋणोद्धरणं प्रतिभूविधानम् उपनिधिः अस्वामिविक्रयः सम्भूयसमुत्थानम् वेतनस्यानपाकर्म स्वामिपालविवादः नैगमादिसंज्ञालक्षणम् अभ्युपेत्याशुश्रूषा सीमाविवादः वाक्पारुष्यम् दण्डपारुष्यम् साहसम् स्तेयम् स्त्रीसंग्रहणम् स्त्रीपुंधर्मः दायविभागः अविभाज्यानि विभक्तचिह्नादि स्त्रीधने स्वाम्यादिविचारः मृतायाः स्त्रिया धनाधिकारिणः द्यूतसमाह्वयौ प्रकीर्णकम् कात्यायनस्मृतिः - उपनिधिः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmakatyayansmritiकात्यायनकात्यायन स्मृतिःधर्मसंस्कृतस्मृतिः उपनिधिः Translation - भाषांतर त्रयप्रोषितनिक्षिप्त बन्धान्वाहितयाचितम् ।वैश्यवृत्त्यर्पितं चैव सोऽर्थस्तूपनिधिः स्मृतः ॥५९२॥निक्षिप्तं यस्य यत्किंचित्तत्प्रयत्नेन पालयेत् ।दैवराजकृतादन्यो विनाशस्तस्य कीर्त्यते ॥५९३॥यस्य दोषेण यत्किंचिद्विनाश्येत ह्रियेत वा ।तद्द्रव्यं सोदयं दाप्यो दैवराजकृताद्विना ॥५९४॥याचितानन्तरं नाशे दैवराजकृतेऽपि सः ।ग्रहीता प्रतिदाप्यः स्यान्मूल्यमात्रं न संशयः ॥५९५॥न्यासादिकं परद्रव्यं प्रभक्षितं उपेक्षितम् ।अज्ञाननाशितं चैव येन दाप्यः स एव तत् ॥५९६॥भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।किंचिन्न्यूनं प्रदाप्यः स्याद्द्रव्यं अज्ञाननाशितम् ॥५९७॥अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् ।ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते ॥५९८॥ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।सर्वोपायविनाशेऽपि ग्रहीता नैव दाप्यते ॥५९९॥ग्राहकस्य हि यद्दोषान्नष्टं तु ग्राहकस्य तत् ।तस्मिन्नष्टे हृते वापि ग्रहीता मूल्यं आहरेत् ॥६००॥ग्राह्यस्तूपनिधिः काले कालहीनं तु वर्जयेत् ।कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते ॥६०१॥सर्वेषूपनिधिष्वेते विधयः परिकीर्तिताः ॥६०२॥यैश्च संस्क्रियते न्यासो दिवसैः परिनिश्चितैः ।तदूर्ध्वं स्थापयेच्शिल्पी दाप्यो दैवहतेऽपि तत् ॥६०३॥न्यासदोषाद्विनाशः स्याच्शिल्पिनं तन्न दापयेत् ।दापयेच्शिल्पिदोषात्तत्संस्कारार्थं यदर्पितम् ॥६०४॥स्वल्पेनापि च यत्कर्म नष्टं चेद्भृतकस्य तत् ।पर्याप्तं दित्सतस्तस्य विनश्येत्तदगृह्णतः ॥६०५॥यदि तत्कार्यं उद्दिश्य कालं परिनियम्य वा ।याचितोऽर्धकृते तस्मिन्नप्राप्ते न तु दाप्यते ॥६०६॥प्राप्तकाले कृते कार्ये न दद्याद्याचितोऽपि सन् ।तस्मिन्नष्टे वापि ग्रहीता मूल्यं आहरेत् ॥६०७॥याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ॥६०८॥अथ कार्यविपत्तिस्तु तस्यैव स्वामिनो भवेत् ।अप्राप्ते वै स काले तु दाप्यस्त्वर्धकृतेऽपि तत् ॥६०९॥यो याचितकं आदाय न दद्यात्प्रतियाचितः ।स निगृह्य बलाद्दाप्यो दण्ड्यश्च न ददाति यः ॥६१०॥अनुमार्गेण कार्येषु अन्यस्मिन्वचनान्मम ।दद्यास्त्वं इति यो दत्तः स इहान्वाधिरुच्यते ॥६११॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP