संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
प्रतिनिधिः

कात्यायनस्मृतिः - प्रतिनिधिः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि ।
प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यः स्वयम् ॥८९॥

अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसङ्गतेः ।
इतरोऽप्यभियुक्तेन प्रतिरोधिकृतो मतः ॥९०॥

अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥९१॥

दासाः कर्मकराः शिष्या नियुक्ता बान्धवास्तथा ।
वादिनो न च दण्ड्याः स्युः यस्त्वतोऽन्यः स दण्डभाक् ॥९२॥

ब्रह्महत्यासुरापान स्तेयगुर्वङ्गनागमे ।
अन्येषु चातिपापेषु प्रतिवादी न दीयते ॥९३॥

मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥९४॥

पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दातव्यः कर्ता तु विवदेत्स्वयम् ॥९५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP