नारद उवाच -
भक्तियोगस्य तत्सर्वमन्तरायतयार्मकः ॥
मन्यमानो हषीकेशं स्मयमान उवाच ह ॥१॥
प्रह्लाद उवाच -
मा मां प्रलोभयोत्पत्त्याऽऽसक्तं कामेषु तैर्वरैः ॥
तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥२॥
भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् ॥
भवान्संसारबीजेषु हदयग्रन्थिषु प्रभो ॥३॥
नान्यथा तेऽखिलगुरो घटेत करुणात्मनः ॥
यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥४॥
आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ॥
न स्वामी भृत्यतः स्वाम्यमिच्छन्यो राति चाशिषः ॥५॥
अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः ॥
नान्यथेहावयोरर्थो राजसेवकयोरिव ॥६॥
यदि रासीश मे कामान्वरांस्त्वं वरदर्षम ॥
कामानां दृद्यसंरोहं भवतस्तु वृणे वरम् ॥७॥
इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः ॥
ड्रीः श्रीस्तेझ स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥८॥
विमुञ्चत्ति यदा कामान्मानवो मनसि स्थितान् ॥
तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥९॥
नमो भगवते तुभ्यं पुरुषाय महात्मने ॥
हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥१०॥
नृसिंह उवाच -
नैकान्तिनो मे मयि जात्विहाशिष आशासतेऽमुत्र च ये भवद्विधाः ॥
अथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥११॥
कथा मदीया जुषमाणः प्रियास्त्वामावेश्य मामात्मनि सन्तमेकम् ॥
सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् ॥१२॥
भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा ॥
कीर्ति विशुद्धां सुरलोकगीतां विताय मामेष्यति मुक्तबन्धः ॥१३॥
य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नरः ॥
त्वां च मां च स्मरन्काले कर्मबन्धात्प्रमुच्यते ॥१४॥
प्रह्लाद उवाच -
वरं वरय एतत्ते वरदेशान्महेश्वर ॥
यदनिन्दत्पिता मे त्वाविद्वांस्तेज ऐश्वरम् ॥१५॥
विद्धामर्षाशयः साक्षात्सर्वलोकगुरुं प्रभुम् ॥
भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥१६॥
तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥
पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल ॥!७॥
श्रीभगवानुवाच -
त्रिः सप्तभिः पिता पूतः पितृभिः सह तेऽनघ ॥
यत्साधोऽस्य गृहे जातो भवान्वै कुलपावनः ॥१८॥
यत्रयत्रें च मद्भक्ताः प्रशान्ताः समदर्शिनः ॥
साधवः समुदाचारास्ते पूयन्त्यपि कीकटाः ॥१९॥
सर्वात्मना न हिंसन्ति भूतग्रामेषु किंचन ॥
उच्चावचेषु दैत्येन्द्र मद्भावेन गतस्पृहाः ॥२०॥
भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः ॥
भवान्मे खलु भक्तानां सर्वेषां प्रतिरुपधृक् ॥२१॥
कुरु त्वं प्रेतकार्याणि पितुः पूतस्य सर्वशः ॥
मदङ्गस्पर्शनेनाङ्ग लोकान्यास्यति सुप्रजाः ॥२२॥
पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः ॥
मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः ॥२३॥
नारद उवाच -
प्रह्लादोऽपि तथा चक्रे पितुर्यत्सांपरायिकम् ॥
यथाह भगवात्राजन्नभिषिक्तो द्विजोत्तमैः ॥२४॥
प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् ॥
स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ॥२५॥
ब्रह्मोवाच -
देवदेवाखिलाध्यक्ष भूतभावनपूर्वज ॥
दिष्टया ते निहतः पापो लोकसंतापनोऽसुरः ॥२६॥
योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः ॥
तपोयोगबलोन्नद्धः समस्तनिगमानहन् ॥२७॥
दिष्टयास्थ तनयः साधुर्महाभागवतोऽर्भकः ॥
त्वया विमोचितो मृत्योर्दिष्टया त्वां समितोऽधुना ॥२८॥
एतद्वपुस्ते भगवन्ध्यायतः प्रयतात्मनः ॥
सर्वतो गोष्टु संत्रासान्मृत्योरपि जिघांसतः ॥२९॥
नृसिंह उवाच -
मैवं वरोऽसुराणां ते प्रदेयः पद्मसंभव ॥
वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥३०॥
नारद उवाच -
इत्युक्त्वा भगवात्राजंस्तत्रैवान्तर्दधे हरिः ॥
अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥३१॥
ततः संपूज्य शिरसा ववन्दे परमेष्ठिनम् ॥
भचं प्रजापतीन्देवान्प्रह्वादो भगवत्कलाः ॥३२॥
ततः काव्यादिभिः सार्ध मुनिभिः कमलासनः ॥
दैत्यानां दानवानां च प्रह्लादमकरोत्पतिम् ॥३३॥
प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः ॥
स्वधामनि ययू राजन्ब्रह्याद्याः प्रतिपूजिताः ॥३४॥
एवं तौ पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः ॥
हदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥३५॥
पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः ॥
कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥३६॥
शयानौ युधि निर्भिन्नहदयौ रामसायकैः ॥
तच्चित्तौ जगतुर्देहं यथा प्राक्तनजन्मनि ॥३७॥
त्ताविहाथ पुनर्जातौ शिशुपालकरुषजौ ॥
हरौ वैरानुबन्धेन पश्यतरते समीयतुः ॥३८॥
एनः पूर्वकृतं यत्तद्रजानः कृष्णवैरिणः ॥
जहुस्त्वन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥३९॥
यथायथा भगवतो भक्त्या परमयाभिदा ॥
नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥४०॥
आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् ॥
दमघोषसुतादीनां हरः सात्म्यमपि द्विषाम् ॥४१॥
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ॥
अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥४२॥
इति श्रीमद्भागवते महापुराणे पारमहस्यां संहितायां सप्तमस्कन्धे
प्रह्लादचरिते दैत्यराजवधे नृसिंहस्तवो दशमोऽध्यायः ॥८॥