अथसकलकर्मसाधारणपरिभाषा सर्वेषुपाकयज्ञेषुभवेद्ब्रह्माकृताकृतः ।
पात्रासादनमिच्छात आज्यादिश्रपणादिच १ स्रुवादिमार्जनंचेध्मरज्जुहप्तरणंतथा ।
पूर्णपात्रंभवेन्नित्यमाज्यस्योत्पवनेतथा २ व्रीहीणामवधातश्चतण्डुलेषुकृताकृतः ।
द्रवीभूतघृतस्यापिविलापनविधिस्तथा २ प्रतिपदोक्ताज्यहोमेपरिस्तरणंविकल्पितम् ।
अनादिष्टाज्यहोमेतुनित्यम् आज्यभागसहिततद्रहितकर्मणोस्तन्त्रप्रयोगेआज्यभागाननुष्ठानमेवयुक्तम्
सर्वत्राज्यभागयोर्विकल्पनात अनेकपाकयज्ञानामेककालानुष्ठानेसमानतन्त्रता तेनस्विष्टकृदाद्येकमेव
यत्रद्रव्यंनोक्तं तत्राज्यंग्राह्यम् मन्त्रान्तेकर्मकर्तव्यंमन्त्रास्यकरणत्वतः ।
कर्मावृत्तौतुमन्त्रस्याप्यावृत्तिर्गृह्यकर्माणि १ समन्त्रकहोमेतूष्णींनिर्वापःनाम्नाहोमेनाम्नैवनिर्वापादि
यत्रमन्त्रेणनाम्नावाहोमोनोक्तसत्रनाम्नैवहोमः समन्त्रकहोमेसहैवानेकदैवत्यचरुपाकेपिनविभागोनाभिमर्शश्च
अनुक्तौदक्षिणकरः दिशामनुक्तौप्राच्युदीचीशान्यः तिष्ठन्नासीन इत्याद्यनुक्तावासीनतैव अनादेशेस्वयंकर्ता
अविज्ञातस्वरोमन्त्रःसौत्रएकश्रुतिर्भवेत् । होमेषुमन्त्रंस्वाहन्तंप्रणवाद्यंचकारयेत् २
विप्रादीनांद्विदर्भस्यात्पवित्रंग्रथितंनवा ॥