अथशिवस्य चतुर्णापुष्पजातीनांगन्धमाघ्रतिशकरः ।
अर्कस्यकरवीरस्यबिल्वस्यचवकस्यच १ दशसुवर्णदानफलंश्वेतार्कपुष्पम् तत सहस्त्रगुणंबकपुष्पम् एवं
धत्तूरशमीपुष्पद्रोणपुष्पनीलोत्पलानामुत्तरोत्तराणांसहस्त्रगुणत्वम् मणिमुक्ताप्रवालैस्तुरत्रैरप्यर्चनंकृतम् ।
नगृह्णामिविनादेविबिल्वपत्रेर्वरानने १ सर्वकामप्रदं बिल्वंदारिद्र्यस्यविनाशनम् ।
नीलोत्पलसहस्त्रेणमालार्पणेकल्पलोटिसहस्त्रं शिवपुरेवासः धत्तूरैर्ब्रुहतीपुष्पैश्चपूजनेगोलक्षफलम्
पाटलामन्दारापामार्गजातीचम्पकोशीरतगरनागकेसरपुन्नागजपामल्लिसहकारकुसुम्भपुष्पाणिशिवप्रियाणि
धत्तूराणिकदम्बानिरात्रौदेयानिशंकरे । मदनरत्ने केतकानिकदम्बानीतिपाठः
अभावेपुष्पपत्राणामन्नाद्येनाभिपूजयेत् । शालितण्डुलगोधूमयवैर्वापिसमाचरेत् ॥