अथशिवनिर्माल्यग्रहणविचार्ह अग्राह्यंशिवनैवेद्यंपत्रंपुष्पंफलंजलम् ।
शालग्रामशिलासंगात्सर्वंयातिपवित्रताम् १ शैवसौरनैवेद्यभक्षणेचान्द्रायणं
अभ्यासोद्विगुणम् मत्याभ्यासेसांतपनम् अन्यनिर्माल्येप्यनापद्येवम्
इदंचज्योतिर्लिङ्गस्वयंभूलिङ्गसिद्धप्रतिष्ठापितलिङ्गातिरिक्तस्थावरलिङ्गविषयम्
ज्योतिर्लिङ्गदौतुपूजकेनदत्तंफलतीर्थादिकंभक्त्याशुद्ध्यर्थंग्राह्यंनलोभेन
पञ्चायतनस्थितलिङ्गेषुचरेषुप्रतिमासुचान्नादेरपिस्वयंग्रहणेपिनदोषः
ज्योतिर्लिङ्गाद्यन्यस्थिरलिङ्गेषुतीर्थोदकचंदनमात्रंश्रद्धावद्भिः शिवोपासकैरेवग्राह्यम्
ज्योतिर्लिङ्गादौपूजकदत्तमन्नमपिभक्ष्यमितिकेचित् ॥