अथगृहेउष्णोदकेस्नानंतुशीतोदकेन तद्विधिश्च पात्रेशीतोदकंप्रक्षिप्यतदुपरिउष्णोदकेनापूर्य शंनोदेवी० ।
आपःपुनंतु० । द्रुपदादिवे० । ऋतंच० । आपोहिष्ठेतिपंचभिऋग्भिरभिमन्त्र्य इमंमेइत्यादिनातीर्थानि
स्मरनस्नायात गृहेस्नानेसंकल्प आचमनमघर्षणंतर्पणंचन अन्ते आचमनंमार्जनंचकार्यम
एवंस्नात्वावस्त्रेणपाणिनावाजलापनयनकृत्वाशुष्कंशुभ्रकार्पासवस्त्रंपरिघायस्नानार्द्रवस्त्रमूर्ध्वतउत्तारयेत
विकच्छोनुत्तरीयश्चनग्नशावस्त्रएवच । श्रौतस्मार्तेनेवकुर्यात द्विगुणवस्त्रोदग्धवस्त्रःस्यूतग्रथितवस्त्रःकाषायवस्त्रादयोदिगम्बरश्चनग्नाः
निष्पीडितंवस्त्रंनस्कन्धेक्षिपेत चतुर्गुणीकृत्यवस्त्रंगृहेऽधोदशंनद्यामूर्ध्वदशंस्थलेनिष्पीडयेत नतुत्रिगुणम
उत्तरीयंजीवत्पितृकजीवज्येष्ठभ्रातृकैर्नधार्यम प्रावारवस्त्रंतुसर्वैर्धार्यम इतिप्रातर्नित्यस्नानम । (मध्याह्नस्नानमपि नित्यमित्यन्ये ) ॥