अथसगोत्रादिविवाहादौप्रायश्चित्तम् तत्राज्ञानतःसगोत्रसप्रवरविवाहेकन्यांत्यक्त्वाचांद्रायणंप्रायश्चित्तंकार्यम्
ज्ञानतोद्विगुणम् एवंकन्यायाएतदर्धम् एवंसपिण्डायाविवाहेपित्यागश्चब्राह्मण्याःसंभोगधर्मकार्ययोरेव
मातृवत्परिपालयेदित्यन्नादिनापालनोक्तेः यस्तुसगोत्रादिकांविवाह्योपगच्छतितस्याज्ञानेविवाहप्रयुक्तचान्द्रायणं
सगोत्रागमनप्रयुक्तांचान्द्रायणद्वयाधिकं ज्ञानतस्तुअधिकंकल्प्यमितिकेचित
अन्येतुगुरुतल्पव्रताच्छुद्ध्येदितिगुरुतल्पसाम्योक्तेःषडब्दंप्रायश्चित्तम् अज्ञानतस्त्रयब्दंचान्द्रायणत्रयंवेत्याहुः
अज्ञानतःसगोत्रादिषूत्पन्नानांजनकप्रायश्चित्तौत्तरंकाश्यपगोत्रेणव्यवहारःकार्योनतुत्यागः
ज्ञानतस्तुसगोत्राद्युत्पन्नानांचाण्डालत्वमेव आरूढपतितापत्यंब्राह्मण्यंयश्चशूद्रजः ।
सगोत्रोढासुतश्चैवचाण्डालास्त्रयईरिताः १ इतियमस्मृतेः ॥