अथ द्विगोत्राः ॥ तत्रभारद्वाजाच्छुंगात वैश्वामित्रस्यशैशिरेःक्षेत्रेजातःशौंगःशेशिरिनामऋषिः
तस्यगोत्रलक्षणाक्रांतत्वाद्गोत्रत्वं तद्गोत्राणामांगिरसबार्हस्पत्यभारद्वाजशौंगशैशिरेतिपंच
आंगिरसबार्हस्पत्यभारद्वाजकात्याक्षीलेतिवा आंगिरसकात्याक्षीलेतित्रयोवा आद्योभरद्वाजोवा
एषांसर्वभरद्वाजैः सर्वैर्विश्वामित्रैश्चाविवाहः संस्कृतयः पूतिमाषाः तंडयइत्यादयोष्टाविंशत्यवराः
संकृतयस्तेषामांगिरस गौरिवीतिसांकृत्येतित्रयः शाक्त्यगौरिवीतसांकृत्येतिवा अंत्ययोर्व्यत्ययोवा
एषांस्वगणस्थैःपूतिमाषादिभिः सर्ववसिष्ठगणैश्चाहर्वसिष्ठसंज्ञकवक्ष्यमाणलौगाक्षिभिश्चाविवाहः
केवलांगिरोगणैस्तुविवाहोभवत्येव आम्गिरसत्वेपिसगोत्रत्वाभावात् द्वित्रिप्रवरसाम्याभावाच्च
केचिद्भारद्वाजांगिरसत्वमाश्रित्यभारद्वाजशौंगशैशिरेःसहाविवाहमाहुः तन्न भारद्वाजत्वेदृढप्रमाणाभावात्
प्रयोगपारिजातेकाश्यपैःसहषौमविवाहइत्युक्तंतत्रहेतुश्चिंत्यइतिकौस्तुभे लौगाक्षयः दार्भायणाः
इत्यादयोष्टत्रिंशदधिकालौगाक्षयस्तेषांकाश्यपावत्सारवासिष्ठोतित्रयः काश्यपावत्सारासितेतिवा
एतेअहर्वसिष्ठाःनक्तंकाश्यपाः दिनकर्मणिवासिष्ठत्वप्रयुक्तकार्यभाजः रात्रिकर्मणिकाश्यपत्वप्रयुक्तकार्यभाजइत्यर्थः
एतेषांसर्वैः काश्यपैःसर्वेश्चवसिष्ठैःसंकृतिभिश्चाविवाहः ॥३॥