संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गीतगोविन्दम्|
एकादशः सर्गः - गीतम् २१

गीतगोविन्दम् - एकादशः सर्गः - गीतम् २१

गीतगोविन्दम्

मञ्जुतरकुञ्जतलकेलिसदने । विलस रतिरभसहसितवदने ॥

प्रविश राधे माधवसमीपमिह ॥१॥

नवभवदशोकदलशयनसारे । विलस कुचकलशतरलहारे ॥२॥

कुसुमचयरचितशुचिवासगेहे । विलस कुसुमसुकुमारदेहे ॥३॥

चलमलयवनपवनसुरभिशीते । विलस रसवलितललितगीते ॥४॥

मधुमुदितमधुपकुलकलितरावे । विलस मदनरससरसभावे ॥५॥

मधुतरलपिकनिकरनिनदमुखरे । विलस दशनरुचिरुचिरशिखरे ॥६॥

वितत बहुवल्लिनवपल्लवघने । विलस चिरमलसपीनजघने ॥७॥

विहितपद्मावतीसुखसमाजे । भणति जयदेवकविराजे ॥८॥

त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पेण तु पातुमिच्छति सुधासंबाधबिम्बाधरम् ।

अस्याङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव- क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥६४॥

सा ससाध्वससानन्दं गोविन्दे लोललोचना । सिञ्जानमञ्जुमञ्जीरं प्रविवेश निवेशनम् ॥६५॥

N/A

References : N/A
Last Updated : April 12, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP