गीतगोविन्दम् - श्री गोपालक ध्यानम्
गीतगोविन्दम्
यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिन्दीवरम् ।
यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नश्यामळमाविरस्तु हृदये कृष्णाभिधानं महः ॥१॥॥
श्री जयदेव ध्यानम् ॥राधामनोरमरमावररासलील- गानामृतैकभणितं कविराजराजम् ।
श्रीमाधवार्च्चनविधवनुरागसद्म- पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥२॥
श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् ॥
लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥३॥॥
N/A
References : N/A
Last Updated : April 11, 2008

TOP